SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ - प्राभृतं २, प्राभृतप्राभृतं -३ एकोनचत्वारिंशत्षष्टि भागाः ३९ एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः। ___ 'तया णं राइंदियं तहेव' तदा-सर्वबाह्यानन्तराक्तिनद्वितीयमन्डलयोश्चारकाले रात्रिन्दिवं-रात्रिदिवसप्रमाणं तथैव-प्रागिव वक्तव्यं, तच्चैवम्-'तया णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्ठिभागमुहुत्तेहि ऊणा, दुवालसमुहुत्तेदिवसेहवइदोहि एगट्ठिभागमुहुत्तेहि अहिए' इति, ‘से पविसमाणे' इत्यादि, ततः सर्वबाह्यानन्तराक्तिनद्वितीयस्मादपिमण्डलादुक्तप्रकारेण प्रविशन्सूर्यो द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे बाहिरतचंति सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसंक्रम्य चारंचरति 'ताजयान'मित्यादितत्रयदाणमिति पूर्ववत् सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणियोजनशतानि एकोनचत्वारिंशतंचषष्टिभागान् योजनस्य एकैकेनमुहूर्तेन गच्छति, तस्मिन् हिमण्डले परिरयपिरमाणं तिम्र लक्षाअष्टादश सहस्राणि द्वेशते एकोनाशीत्यधिके इति अस्य षष्टया भागो ह्रियते, हृते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरमाणं, अत्रापि हि दृष्टिपथप्राप्तताविषयपरिमाणमाह 'तया ण'मित्यादि, तदा इहगतस्य मनुष्यस्य-जातावेकवचनस्य भावादिहगतानां मनुष्याणामेकाधिकैात्रिंशता सहस्रैरेकोनपञ्चाशता,षष्टिभागैरेकंचषष्टिभागमेकषष्टिधाछित्वा तस्य सत्कैस्त्रयोविंशत्या चूर्णिकाभागैः सूर्य चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्तप्रमाणश्चतुभिरेकषष्टिभागैरधिकस्तस्या षट् मुहूर्ता द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकाः, ततः सामस्त्येनैकषष्टिभागकरमार्थं षडपि मुहूर्ता एकषष्टया गुण्यन्ते, गुणयित्वा चद्वावेकषष्टिभागौप्रक्षिप्येते, ततोजातानित्रीणिशतान्यष्टषष्टयधिकान्येकषष्टिभागानां ततोऽस्मिन् मण्डले यत्परिरयपरिमाणं त्रीणि लक्षाण्यष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिक इति, तदेभिस्त्रिभिः शतैरष्टषष्ट्यधिकैर्गुण्यते, जाताएकादशकोटयः एकसप्ततिशतसहस्राणिषड्विशति सहस्राणि षट्शतानि द्विसप्तत्यधिकानि एतस्य षष्टया एकषष्टया गुणितया भागो ह्रियते, हृतेच भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि शेषमुद्धरति त्रीणि सहस्राणि द्वादशोत्तराणि तेषां षष्टिभागानयनार्थमेकषष्टया भागोहियते, लब्धा एकोनपञ्चाशत्षष्टिभागाःत्रयोविंशतश्चएकस्य षष्टिभागस्य सत्का एकषष्टिभागा इति, रत्तिंदियं तहेव'त्ति रात्रिन्दिवं-रात्रिदिवसपरिमाणमत्र तथैव-प्रागिव वक्तव्यं, तच्चैवम्___'तयाणं अट्ठारसमुहुत्ता राई भवइचउहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे हवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिए' इति, सम्प्रति सर्वबाह्यान्मण्डलादक्तिनेषु चतुरादिषु मण्डलेषु अतिदेशमाह__‘एवं खल्वि'त्यादि, ‘एवं' उक्तेन प्रकारेण 'खलु' निश्चितमेतेनोपायेन शनैः शनैस्तत्तदभ्यन्तरानन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरंप्रविशन्सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरंमण्डलं संक्रामन् २ एकैकस्मिन्मण्डले मुहूर्तगतिमित्यत्र द्वितीया सप्तम्यर्थे मुहूर्तगतौ-मुहूर्तगतिपरिमाणे अष्टादश २ षष्टिभागान् योजनस्यव्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनान्निर्वेष्टयन् २-हापयन् २ इत्यर्थः, पूर्वपूर्वमण्डलापेक्षया अभ्यन्तराभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशभिर्योजनैहर्नित्वात्, पुरुषच्छायामित्यत्रापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थः-पुरुषच्छायायां दृष्टिपथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy