________________
प्राभृतं १, प्राभृतप्राभृतं -८ पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येति भवति, एतत्सर्वबाह्यमण्डलगतविष्कम्भा-यामपरिमाणात् शोध्यते,ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणंभवति, तथात्रीमियोजनशतसहस्राणि अष्टादश सहस्राणि द्वे योजनशते सप्तनवत्यधिके ३१८२९७ परिक्षेपतः प्रक्षिप्तं,तथाहि-- पूर्वमण्डलादस्य मण्डलस्य विष्कम्भायामपरिमाणे पञ्च योजनानि पञ्चत्रिंश- चैकषष्टिभागा यजनस्येतित्रुटयन्ति, पञ्चानांयोजनानां पञ्चत्रिंशतश्चैकषष्टिभागानांपरिरयेसप्तदश योजनानि अष्टात्रिंशच्चैकषष्टिभागायोजनस्यभवन्ति, परंसूत्रकृताव्यवहानयमतेनपरिपूर्णान्यष्टादशयोजनानि विवक्षितानि, प्रागुक्तात्सर्वबाह्यमण्डलपरिरयपरिमाणात्त्रीणि लक्षाणि अष्टादशसहस्राणित्रीणि शतानि पञ्चदशोत्तराणि इत्येवंरूपादष्टादशयोजनानिशोध्यन्ते, ततो यथोक्त-मधिकृतमण्डलपरिरयपरिमाणंभवति।'तयाणंराइंदियाणंतहचेव'त्तितदारात्रिन्दिवं रात्रिदिवसौतथैव वक्तव्यौ, तौ चैवम्-'तया णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्ठिभागमुहुत्तेहि ऊणा दुवालसमुहुत्ते दिवसे हवइ दोहि एगट्ठिभागमुहुत्तेहि अहिए' इति । ____से पविसमाणे' इत्यादि,ततः ससूर्यस्तस्मादपिद्वितीयस्मान्मण्डलायागुक्तप्रकारेणाभ्यन्तरं प्रविशद्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रेसर्वबाह्यान्मण्डलादवाक्तनंतृतीयंमण्डलमुपसंक्रम्य चारंचरति, तत्र यदा सूर्य सर्वबाह्यान्मण्डलादाक्तनं तृतीयंमण्डलमुपसंक्रम्यचारंचरति तदा तन्मण्डलपदं अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन एकंयोजनशतसहस्रषट्च योजनशतानि अपाचत्वारिंशदधिकनि द्विपञ्चाशच्चैकषष्टिभागा योजनस्य आयामविष्कम्भेनआयामविष्कम्भाभ्यां, तथाहि-पूर्वमान्मण्डलादिदं मण्डलमायामविष्कम्भेन पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनं, ततः पूर्वमण्डलविष्कम्भायामपरिमाणादेकं योजनशतसहस्रं षट्शतानि चतुष्पञ्चाशदधिकानि षड्विशतिश्चैकषष्टिभागायोजनस्येत्येवंरूपात्पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य शोध्यन्ते, ततो यथोक्तमधिकृतमण्डलमविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके परिक्षेपतः प्रक्षिप्तं ।
तथाहि-प्राक्तनमण्डलादिदं मण्डलं पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य विष्कम्भतो हीनं, पञ्चानां योजनानांपञ्चत्रिंशतश्चैकषष्टिभागानांपरिरयपरिमाणंव्यवहारतोऽष्टादश योजनानि, तस्तानि पूर्वमण्डलपरिरयपरिमाणात् शोध्यन्ते, ततो यथोक्तमधिकृतपरिरयपरिमाणं भवति, ‘दिवसराईतहेव'त्ति दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्-तयाणं अट्ठारसमुहुत्ता राई भवइचउहिं एगट्ठिभागमुहुत्तेहिंऊणा, दुवालसमुहुत्ते दिवसे भवइचउहिएगट्ठिभागमुहुत्तेहि अहिए' इति, ‘एवं खल्वि' त्यादि एतत्सूत्रं प्राग्कुतव्या- ख्यानानुसारेण स्वयं परिभावनीयं, नवरं 'निव्वेढेमाणे' इति निर्वेप्टयन निर्वेप्टयन् हापयन् हापयन्नित्यर्थः । ___ता जया ण'मित्यादि सुगम, अधुना प्रस्तुतवक्तव्यतोपसंहारमाह-'ता सव्वावि न'मित्यादि, ततः सर्वाण्यपि मण्डलपदानि प्रत्येकं बाहल्येनाष्टाचत्वारिंशदेकषष्टिभागा योजनस्य, उपलक्षण-मेतत, अनियतानि चायामविष्कम्भपरिधिभितथा सर्वाण्यपिच मण्डलान्तरकाणिमण्डलान्त- राणि, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, द्वे द्वे योजने विष्कम्भेन, तत एष द्वे योजने 1214
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org