SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/८/३० मण्डलशतं भवति, मण्डले २ चविष्कम्भे २ परिवर्द्धन्ते पञ्च २ योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य, ततः पञ्चयोजनानियशीत्यधिकेन शतेन गुण्यन्ते, जातानिनव शतानि पञ्चदशोत्तराणि येऽपि च पञ्चत्रिंशदेकषष्टिभागा योजनस्य तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि चतुःषष्टिशतानिपञ्चोत्तराणि तेषामेकषष्टयाभागे हृते लब्धं पञ्चोत्तरं योजनशतं एतत्पूर्वस्मिन् राशौ प्रक्षिप्यते, जातानि दशशतानि विंशत्यधिकानि एतानि सर्वाभ्य-न्तरमण्डलविष्कम्भायामपरिमामे अधिकत्वेन प्रक्षिप्यन्ते, ततो यथोक्तं सर्वबाह्यमण्डलगत- विष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि परिक्षेपतः, नवरं पञ्चदशोत्तराणि किञ्चिन्यूनानि द्रष्टव्यानि । तथाहि-अस्य मण्डलस्य विष्कम्भो योजनलक्षंषट् योजनशतानि षष्टयधिकानि अस्य वर्गोविधीयते, जात एककःशून्यमेककस्त्रको द्विकश्चतुष्कस्त्रकःपञ्चकः षट्कोदेशून्येततोदशभिर्गुणने जातमेकमधिकंशून्यं१०१३२४३५६०००, अस्यवर्गमूलनयने लब्धानि त्रीणियोजनशतसहस्राणि अष्टादशसहस्राणि त्रीणिशतानि चतुर्दशोत्तराणि शेषमुद्धरति पञ्चकः पञ्चकस्त्रकश्चतुष्कः शून्यं चतुष्कः छेदराशि षट्कस्त्रकः षट्कः षट्को द्विकोऽष्टकः तत एतेन पञ्चदशं योजनं किञ्चिदूनं किल लभ्यते इति व्यवहारतः सूत्रकृता परिपूर्ण विवक्षित्वा पञ्चदशोत्तराणीत्युक्तं, अथवा मण्डले २ पूर्व २ मण्डलात्परिरयवृद्धौ सप्तदश २ योजनानि अष्टात्रिंशच्चैकषष्टिभागायोजनस्य लभ्यन्ते, ततः सप्तदश योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातान्येकत्रिंशच्छतान्येकादशोत्तराणि यऽपिचाष्टात्रिंशदेकषष्टिभागास्तेऽपित्र्यशीत्यधिकेनशतेन गुण्यन्ते, जाता-न्येकोनसप्ततिशतानि चतुष्पञ्चाशदधिकानितेषां योजनानयनार्थमेकषष्टया ह्रियते, लब्धं चतुर्दशोत्तरंयोजनशतं तच्च पूर्वराशौ प्रक्षिप्यते जातानि द्वात्रिंशच्छतानि पञ्चविंशत्यधिकानि एतानि सर्वाभ्यन्तरमण्डलपरिरयपरिमाणेत्रीणिलक्षाणिपञ्चदशसहस्राणि नवाशीत्यधिकानिइत्येवंरूपेऽधिकत्वेन प्रक्षिप्यन्ते, जातानित्रीणि लक्षाणिअष्टादशसहस्राणि त्रीणिशतानिचतुर्दशोत्तराणि तथा सप्तदशानां योजनानां अष्टात्रिंशत-श्चैकषष्टिभागानामुपरि यानि त्रीणिशतानि पञ्चसप्तत्यधिकानि शेषाण्युद्धरन्ति तानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते जातान्यप्टषष्टिसहस्राणि षट् शतानि पञ्चविंशत्यधिकानि तेषां छेदराशिना पञ्चाशदधिकैकविंशतिशतरूपेणभागो ह्रियते, लब्धा एकत्रिंशदेकषष्टिभागयोजनस्य, शेषं स्तोकत्वात् त्यक्तं, परं व्यवहारतः परिपूर्ण योजनं विवक्षितमिति पञ्चदशोत्तराणीत्युक्तं । 'तयाण'मित्यादिना रात्रिन्दिवपरिमाणंषण्मासोपसंहरणंचसुगम, ‘सेपविसमाणे' इत्यादि, ततः स सूर्य सर्ववाह्यान्मण्डलात् प्रागुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे सर्ववाह्यानन्तरमवक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति । 'ताजया ण'मित्यादि, तत्र यदा णमितिवाक्यालङ्कारे सर्ववाह्यानन्तरमक्तिनं द्वितीयं मण्डलमुपसंक म्यचारंचरति तदा तन्मण्डलपदं अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य वाहल्येन, एकं योजनशतसहसंर षट् च योजनशतानि चतुष्पञ्चाशदधिकानि षड्विशतिश्चैकषष्टिभागा योजनस्य आयामविष्कम्भेन-आयामविष्कम्भाभ्यां, तथाहि-एकतोऽपितन्मण्डलं सर्ववाह्यमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे द्वे योजने विमुच्याभ्यन्तरमवस्थितमपरतोऽपि, ततो योजनद्वयस्याष्टाचत्वारिंशतश्चैकषष्टिभागानां द्वाभ्यां गुणने पञ्च योजनानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy