________________
प्राभृतं १, प्राभृतप्राभृतं
किञ्चिदूनत्रयोविंशत्या एकषष्टिभागैरूनता द्रष्टव्या ।
‘तया णं दिवसराइपमाणं तह चेव' तदा- द्वितीयमण्डलचारस्वरणकाले दिवसरात्रिप्रमाणं तथैवप्राग्वत् ज्ञातव्यं, तच्चैवम्-तया णं अट्ठारसमुहुत्ते दिवसे हवइ दोहि एगट्ठिभागमुहुत्ते हि ऊ दुवालसमुहुत्ता राई भवति दोहि एगट्टिभागमुहत्तेहिं अहिया, 'से निक्खममाणे' इत्यादि, ततः सूर्यो द्वितीयस्मामण्डलादुक्तप्रकारेण निष्क्रमन् नवसंवत्सरसत्के द्वितीयेऽहोरात्रे 'अमितरं तच्चं 'तिसर्वाभ्यन्तरान्मण्डलात्तृ तीयं मण्डलमुपसंक्रम्य चारं चरति, 'ता जया ण' मित्यादि, ततो यदा सूर्य सर्वाभ्यन्तरान्मण्डलात्तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा तत्तृतीयं मण्डलपदं अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन नवनवतिर्योजनसहस्राणि षट योजनश ताभ्येकपञ्चाशदधिकानि नव चैकषष्टिभागा योजनस्य आयामविष्कम्भेन-- आयामविष्कम्भाभ्यां, तथाहि प्रागिवात्रापि पूर्वमण्डलविष्कम्भायामपरिमाणात् पञ्च योजनानि पञ्चत्रिंसच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततो यथोक्तमायामविष्कम्भपरिमाणं भवति त्रीणि योजनशतसहस्राणि पञ्चदश सहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतं परि० प्रज्ञप्तं
तथाहि - पूर्वमण्डलदस्य विष्कम्भे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततो यथोक्तमत्रायामविष्कम्भपरिमाणं भवति, तस्य च पृथक् परिरयपरिमाणं सप्ददश योजनानि अष्टात्रिंशच्च एकषष्टिभागा योजनस्य, एतन्निश्चयनयमतेन, परं सूत्रकृता व्यवाहनयमतमवलम्ब्य परिपूर्णान्यष्टादश योजनानि विवक्षितानि, व्यवाहारनयमतेन हि लोके किञ्चिदूनमपि परिपूर्णं विवक्ष्यते, तथा तदपि पूर्वमण्डलपरिरयपरिमाणे किञ्चिदूनत्वमुक्तं तदपि व्यवहारनयमतेन परिपूर्णमिव विवक्ष्यते, ततः पूर्वमण्डलपरिरयपरिमाणे अष्टादश योजनान्यधिकत्वेन प्रक्षिप्यन्ते इति भवति यथोक्तमधिकृतमण्डलपरिरयपरिमाणं ।
'तया णं दिवसराई तहेव' इति तदा तृतीयमंडलचारचरणकाले दिवसरात्री तथैव प्रागिव वक्तव्ये, तच्चैवम्-तया णं अट्टारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहि ऊणे दुवालसमुहुत्ता राई भवति चउहि एगट्ठिभागमुहुत्तेहि अहिया, 'एवं खल्वि' त्यादि, एवं उक्तप्रकारेण खलु निश्चितमेतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्क्रमन् सूर्यस्तदनन्तरान्मण्ड लात्तदनन्तरं मण्डलं संक्रामन् २ एकैकस्मिन् मण्डले पञ्च २ योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्येवंपरिमाणां विष्कम्भवृद्धिमभिवर्द्धयन् २ एकैकस्मिन्नेतन्मण्डले अष्टादश २ योजनानि परिरयवृद्धिमभिवर्द्धयन् २ इहाष्टादश इति २ व्यवहारत उक्तं, निश्चयनमतेन तु सप्तदश २ योजनानि अष्टात्रिंशतं चैकषष्टिभागा योजनस्येति द्रष्टव्यं एतच्च प्रागेव भावितं, न चैतत्स्वमनीषिकाविजृम्भितं, यत उक्तं तद्विचारप्रक्रमे एव करणविभावनायां
४७
'सत्तरस जोयणाइं अट्ठतीसं च एगट्ठिभागा १७ एयं निच्छएण संववहारेण पुण अट्ठारस जोयणाई' इति प्रथमषण्मासपर्यवसानभूते त्र्यशीत्यधिकशततमे अहोरात्रे सर्वबाह्यं मण्डलमुपसंका म्य चारं चरति, 'ता जया ण' मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे, सूर्य सर्वबाह्यमण्डलमुपसंक्राम्य चारं चरति तदा तत्सर्वबाह्यं मण्डलपदं अष्टचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन एकं योजनशतसहस्रं षट् शतानिषष्टयधिकानि आयामविष्कम्भेन - आयामविष्कम्भाभ्यां, तथाहि - सर्वाभ्यन्तरान्मण्डलात्परतः सर्वबाह्यं मण्डलं पर्यवसानीकृत्य त्र्यशीत्यधिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org