SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/८/३० " हेतुः - का उपपत्तिरित् वदेत् ? अत्र भगवानाह - 'ता अयन्न' मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्णं स्वयं परिभावनीयं व्याख्यानीयं च, 'ता जयाण' मित्यादि, तत्रयदा णमिति वाक्यालङ्कारे सूर्यः सार्वभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा तन्मण्डलपदं, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वाद्, बाहल्येनाष्टात्वारिशदेकषष्टिभागा योजनस्य ज्ञातव्यं, आयामविष्कम्भाभ्यां नवनवतिर्योजनसहस्राणि षट् शतानि चत्वारिंशदधिकानि तथाहि - एकतोऽपि सर्वाभ्यन्तरमण्डल-मशीत्यधिकं योजनशतं जम्बूद्वीपमवगाह्य स्थितमपरतोऽपि ततोऽशीत्यधिकं योजनशतं द्वाभ्यां गुण्यते, जातानि त्रीणि शतानि षष्ठयधिकानि एतानि जम्बूद्वीपविष्कम्भपरिमाणाल्लक्षरूपात् शोध्यन्ते, ततो यथोक्तमायामविष्कम्भपरिमाणं भवति, त्रीणि योजनशतसहस्राणि पञ्चदश सहस्राणि एकोनवत्यधिकानि परिक्षेपतः । तथाहि -तस्य सर्वाभ्यन्तरस्य मण्डलस्य विष्कम्भो नवनवतिर्योजनसहस्राणि षट् शतानि चत्वारिंशदधिकानि एतेषां वर्गो विधीयते, जातो नवको नवको द्विकोऽटक एकको द्विको नवकः षट्को द्वे च शून्ये ९९२८१२९६००, ततो दशभिर्गुणने जातमेकमधिकं शून्यं ९९२८१२९६०००, अस्य वर्गमूलानयनेन लब्धं यथोक्तं परिरयप्रमाणं, शेषं तिष्ठति द्विक एककोऽष्टकः शून्यं सप्तको नवकः एतत् त्यक्तं, 'तयाण' मित्यादिना रात्रिन्दिवपरिमाणं सुगमं 'से निक्खममाणे' इत्यादि, स सूर्य सर्वाभ्यन्तरान्मण्डलात्प्रागुक्तप्रकारेण निष्क्रमन् नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक म्य चारं चरति तत्र यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा तन्मण्डलपदष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन, नवनवतिर्योजनसहस्राणि षट् शतानि पञ्चचत्वारिंशदधिकानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्यायामविष्कम्भाभ्यां तथाहि एकोऽपि सूर्य सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे च द्वे योजने बहिरवष्टभ्य द्वितीये मण्डले चारं चरति द्वितीयोऽपि, तोत द्वयोर्योजनयोरष्टाचत्वारिंशतश्चैकषष्टिभागानां योजनस्य द्वाभ्यां गुणने पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येति भवति, एतप्रथममण्डलविष्कम्भपरिमाणेऽधिकत्वेनप्रक्षिपयते, ततो भवतियथोक्तं द्वितीमण्डलविष्कम्भायामपरियामपरिमाममिति, तत्र त्रीणि योजनशतसहस्रमि पञ्चदश सहस्राणि एकं चसप्तोत्तरं योजनशतं किञ्चिद्विशेषाधिकं परिरयेण प्रज्ञप्तं । . तथाहि-पूर्वमण्डलविष्कम्भायामपरिमाणादस्य मण्डलस्य विष्कम्भायमपरिमाणे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततोऽस्य राशेः पृथक् परिरयपरिमाणमानेतव्यं, तत्र पञ्च योजनान्येकषष्टिभागकरणार्थनेकषष्ठया गुयण्यन्ते, जातानि त्रीणि शतानि पञ्चोत्तराणि एतेपां मध्ये उपरितनाः पञ्चत्रिंसदेकषष्टिभागाः प्रक्षिप्यन्ते, जातानि त्रीणि शतानि चत्वारिंशदधिकानि एतेषां वर्गो विधीयते, वर्गयित्वा च दशभिर्गुणनात् ततो जात एकक एककः पञ्चकः षट्क स्त्रीणि शून्यानि ११५६०००, तत एषां वर्गमूलानयने लब्धानि दशशतानि पञ्चसप्तत्यधिकानि १०७५, एतेषां योजनान यनार्थमेकषष्टया भागे ह्वते लब्धानि सप्तदश योजनानि अष्टत्रिंशच्चैकषष्टिभागा योजनस्य एतत्पूर्वमण्डलपरिरयपरि-माणेऽधिकत्वेन प्रक्षिप्यते, ततो यथोक्तमधिकृतण्डलपरिरयपरिमाणं भवति, किञ्चिद्विशेषोनता च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy