________________
प्राभृतं १, प्राभृतप्राभृतं -८
४५
प्राकृतत्वात्, प्राकृते हि लिङ्ग व्यभिचारि, एवंभगवता गौतमेन प्रश्ने कृते सतिभगवानेतद्विषयपर तीर्थिकप्रतित्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ताएवोपन्यस्यति
'तत्थ खलु' इत्यादि, तत्रमण्डलबाहल्यादिविचारविषयेखल्विमास्तिनप्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां त्रयाणां परतीर्थिकानांमध्ये एके तीर्थान्तरीया एवमाहुः-'ता' इति प्राग्वत्, सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलानि 'जोयणं बाहल्लेणं'ति प्रत्येकं योजनमेकं 'बाहल्येन' पिण्डेन एकं योजनसहनमेकंच त्रयस्त्रिंश-त्रयस्त्रिंशदधिकंयोजनशतं, आयामविक्खंभेणं'ति आयामश्च विष्कम्भश्च आयामविष्कम्भं समाहारो द्वन्द्वस्तेन प्रत्येकमायामेन विष्कम्भेन चेत्यर्थः, त्रीणि योजनसहस्राणि त्रीणि च नवनवतानि योजनशतानि परिक्षेपतः प्रज्ञप्तानि, इह च येषां तीर्थान्तरीयाणांमतेन मण्डलस्यायामविष्कम्भमेवयोजनसहनमेकंयोजनशतंच त्रयस्त्रिंशदधिकमायामविष्कम्भाभ्यां ते परिरयपरिमाणं वृत्तपरिमाणात् त्रिगुणमेव परिपूर्णमिच्छन्ति, न विशेषाधिकमतस्त्रिणि योजनसहस्राणि त्रीणि शतानि नवनवतानीत्युक्तं, तथाहि-सहनस्य त्रीणिसहस्राणिशतस्य त्रीणि शतानित्रयस्त्रिंशतश्चनवनवतिरिति,इदंपरिरयपरिमाणं विखंभवग्गदहगुणकरणी वट्टस्सपरिरओहोइ' इति परिरयगणितेन व्यभिचारि, तेन हि परिरयपरिमाणानयने त्रीणि योजनसहस्राणिपञ्च शतानि द्व्यशीत्यधिकानिकिञ्चित्समधिकान्यागच्छन्ति।
तथाहि-एकंयोजनसहनमेकं च योजनशतंत्रयस्त्रिंशदधिकमित्येकादशयोजनशतानि त्रयस्त्रिंशदधिकानि एतेषांवर्गो विधीयते, जात एकको द्विकोऽप्टकस्त्रकः षट्कोऽष्टकोनवकः ततोदशभ्रिगुणितेनजातमेकमधिकंशून्यं एतेषांवर्गमूलान-यनेआगच्छतियथोक्तंपरिरयपरिमाणमतस्तन्मतेन परिरयपरिमाणंव्यभिचारि, एवमुत्तरमपि मतद्वयं परिभावनीयं, अत्रैव प्रथममते उपसंहार ‘एगे एवमाहंसु' १, एकेपनरेवमाहुः-सर्वाण्यपि सूर्यमण्डलपदानि प्रत्येकमेकं योजनं बाहल्येन एकं योजनसहनमेकं च योजनशतं चतुस्त्रिंश-चतुस्त्रशदधिकमाथामविष्कम्भाभ्यां त्रीणि योजनसहनाणि चत्वारि योजनशतानि व्युत्तराणि परिक्षेपतः।।
तथाहि-एतेषामपि मतेन विष्कम्भपरिमाणात्परिरयपरिमाणं परिपूर्णत्रिगुणरूपं, ततः सहनस्यत्रीणि सहस्राणिशतस्य त्रीणिशतानि चतुस्त्रिंशतो द्वयुत्तरंशतमिति, अत्रैवोपसंहारमाह“एगे एवमाहंसु' एके पुनरेवमाहुः-सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलानि प्रत्येकमेकं योजनं वाहल्येन एकं योजनसहस्रमेकं च योजनशतं पञ्चत्रिंशं-पञ्चात्रिंशदधिकमायामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि योजनशतानि पञ्चोत्तराणि परिक्षिपेतः, तथाहि- एकस्य योजनसहनस्य त्रीणि योजनसहस्राणि शतस्य त्रीणि शतानि पञ्चत्रिंशतः पञ्चोत्तरं शतमिति, एतानि त्रीण्यपि मतानि मिथ्यारूपाणि परिरयपरिमाणमात्रेऽपि व्यभिचारात्, अतो भगवान् तेभ्यःपृथक्स्वमतमुपदर्शयति- 'वयंपुण' इत्यादि,वयंपुनरेवं-वक्ष्यमाणप्रकारेणवदामः, तमेव प्रकारमाह-'तासव्वा-वी'त्यादि ‘ता' इति पूर्ववत् सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलानि प्रत्येकं बाहल्येनाप्टाचत्वारिंश- देकषष्टिभागा योजनस्य आयामविष्कम्भपरिक्षेपेणआयामविष्कम्भ- परिक्षेपैः पुनरनियतानि आख्यातानि, कस्यापि मण्डलस्य कियान आयामो विष्कम्भः परिक्षेपश्चेति भावइति स्वशिष्येभ्योव-देत्, एवमुक्ते भगवान् गौतमः पृच्छति
'तत्थ णं को हेऊ इति वइज्जा' तत्र-मण्डलपदानामायाविष्कम्भपरिक्षेपानियतत्वे को
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org