SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ५० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/८/३० अष्टाचत्वारिंश-च्चैकषष्टिभागायोजनस्येत्येवंरूपो,णमिति वाक्यालङ्कारे, अध्वा-पन्थास्त्र्यशीत्यधिकशतप्रत्युत्पन्नः-त्र्यशीत्यधिकेन शतेन गुणितःसन् पञ्चदशोत्तराणियोजनशतान्याख्याता इति वदेत्, तथाहि-द्वे योजने त्र्यशीत्यधिकेन शतेन गुण्येते जातानि त्रीणि शतानि षट्पष्टयधिकानि येऽपि च अष्टाचत्वारिंशदेकषष्टिभागास्तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते जातानि सप्ताशीतिशतानि चतुरशीत्यदिकानि तेषां योजनानयनार्थमेकषष्टया भागो ह्रियते, लब्धं चतुश्चत्वारिंशंयोजनशतंतत्पूर्वराशौ प्रक्षिप्यते,जातानि पञ्चशतानि दशोत्तराणि अस्यैवार्थस्य व्यक्तीकरणार्थं भूयः प्रश्नसूत्रमाह- ‘ता अभितराओ' इत्यादि, 'ता' इति तत्र अभ्न्तरात्सर्वाभ्यन्तरान्मण्डलपदात परतो यावद्वाा-सर्वबाह्यं मंडलपदं बाह्याद्वा-सर्वबाह्याद्वा मण्डलपदादाक्यावत्सर्वाभ्यन्तरंमण्डलपदमेष-एतावान्अध्वा कियान्-किय प्रमाणआख्यात इति वदेत् ?, स्वशिष्येभ्यः, पञ्चदशोत्तरयोजनशतभावना प्रागुक्तानुसारेण स्वयं परिभावनीया, 'अभितराए'इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलपदादारभ्य यावद्वाह्यसर्वबाह्यं मण्डलपदं यदिवा बाह्येन-सर्वबाह्येन मण्डलपदेन सर्वबाह्यान्मण्डलपदादारभ्य यावत्सर्वाभ्यन्तरं मण्डलं एष एतावान् अध्वा कियानाख्यात इति वदेत् ?, __ भगवानाह– 'तापंचे'त्यादि, स एतावान् अद्वा पञ्चदशोत्तराणियोजनशतान्यष्टाचत्वारिंशचैकषष्टिभागा योजनस्येत्याख्यात इति वदेत्, पूर्वस्मादध्वपरिमाणात् एतस्याध्वपरिमाणस्य सर्ववाह्यमण्डलगतेन बाहल्यपरिमाणेनाधिकत्वात, 'ता अभितरे'त्यादि, 'ता' इति अभ्यन्तरामण्डलपदात्परतो बाह्यमणडलपदात्-सर्ववाह्यमण्डलादर्वाक् यद्वा बाह्यमण्डलपदादर्वाक् अभ्यन्तरमण्डलात्परत एषः अध्वा कियानाख्यात इति वदेत् ?, भगवानाह _ 'तापंचे' त्यादि, पञ्चयोजनशतानिनवोत्तराणित्रयोदशचैकषष्टिभागायोजनस्य आख्यात इति वदेत्, पूर्वस्मादध्वपरिमाणादस्याध्वपरिमाणस्य सर्वाभ्यन्तरमण्डलगतसरवबाह्यमण्डलगतबाहल्यपरिमाणेन पञ्चत्रिंशदेकषष्टिभागाधिकैकयोजनरूपेणहीनत्वात्, तदेवमभ्यन्तरान्मण्डलात्परतो यावत्सर्वबाह्यं मण्डलं सर्वबाह्याद्वा मण्डलादर्वाक् यावत्सर्वाभ्यन्तरं मण्डलं तथा सर्वाभ्यन्तरसर्वबाह्यमण्डलाभ्यांसह तथा सर्वाभ्यन्तरसर्वबाह्यमण्डलाभ्यां विना यावदध्वपरिमाणं भवति तावन्निरूपितं, सम्प्रति सर्वाभ्यन्तरेण मण्डलेन सह सर्वाभ्यन्तरान्मण्डलात्परतो बाह्यमण्डलादाक्यदिवासर्वबाह्यमण्डलेनसह सर्वबाह्यमण्डपलादाक्सर्वाभ्यन्तरान्ण्डलात्परतो यावदध्वपरिमाणं भवति तावन्निरूपयति- 'अभितराए' इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलात्परतः सर्वबाह्यान्मण्डलाद गिति गम्यते, यदिवा सर्वबाह्येन मण्डलपदेन सह सर्ववाह्यान्मण्डलादर्वाक् सर्वाभ्य न्तरान्मण्डलात्परत इति गम्यते, योऽध्वा एष णमिति वाक्यालङ्कारे अध्वा कियानाख्यात इति वदेत् ?, भगवानाह- 'ता' इत्यादि, तावानध्वा पञ्चदशोत्तराणि योजनशतानि आख्यात इति वदेत्, भावना सुगमत्वान्न क्रियते । प्राभृतं-१, प्राभृतप्राभृतं-८ समाप्तम् प्राभृतं-१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे प्रथमप्राभृतस्य मलयगिरिआचार्येण विरचित टीका परिसमाप्ता। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy