________________
४०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/६/२८ चारंचरन् आख्यात इति वदेत्, साम्प्रतमस्यैव वाक्यस्य स्पष्टावगमनिमित्तंप्रश्नसूत्रमुपन्यस्यति
'तत्थ को ०' तत्र-एवंविधवस्तुतत्वावगतौ को हेतुः?-का उपपत्तिरिति वदेत् भगवान्, एवमुक्ते --'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयंच, 'ता जया ण'मि० तत्र यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपससंक म्य चारं चरति तदा उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्त उत्कर्षकः-उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्याच द्वादशमुहूर्ता रात्रिः । से निक्खममाणे' ततः सर्वाभ्यन्तरान्मण्डलानिष्क्रमन्सः सूर्योनवंसंवत्सरमाददानो नवस्यसंवत्सरस्य प्रथमेऽहोरात्रे अभिंत०तिसर्वाभ्यन्तरस्यमण्डलस्यानन्तरं-बहिर्भूतं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति, ‘ता जया णं'मि० तत्र यदा तस्मिन्नवसंवत्सरसत्के प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति, चारं चरितुमारभते
'तदा णमिति प्राग्वत्, द्वे योजने अष्टाचत्वारिंशतंच एकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन पाश्चात्येनाहोरात्रेण विकम्प्य चारंचरति, इयमत्र भावना-सर्वाभ्यन्तरे मण्डले प्रविष्टः सन्प्रथमक्षणादूर्ध्वं शनै-शनैस्तदनन्तरंद्वितीयमण्डलाभिमुखंतथा कथंचन मण्डलगत्या परिभ्रमति यथा तस्याहोरात्रस्यपर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशतमेकषष्टिभागान्योजनस्यापरे च द्वे योजने अतिक्रान्तो भवति, ततो द्वितीयेऽहोरात्रे प्रथमक्षणे एव द्वितीयमण्डलमुपसम्पन्नो भवति, तत उक्तम्-'तयाणंदोजोयणाइंअडयालीसंच एगट्ठिभागेजोयणस्स एगेणं राइदिएणं विकंपइत्ता सूरिए चारंचरति', 'तया ण मि० तदासर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरणकाले णमिति पूर्ववत् अष्टाध्शमुहूर्तो दिवसो भवतो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनः द्वादशमुहूर्ता रात्रिद्वाभ्यांमुहूर्तेकषष्टिभागाभ्यामधिका, तस्मिन्नि द्वितीयेमण्डले प्रथमक्षणादूर्ध्वंतथा कथञ्चनापि तृतीयमण्डलाभिमुकंमण्डलपरिभ्रमणगत्याचारंचरतियथातस्याहोरात्रस्यपर्यन्ते द्वितीयमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे च तद्बहिर्भूते द्वे योजने अतिक्रान्तो भवति, ततो नवसंवत्सरस्य द्वितीयेऽहोरात्रे प्रथमक्षण एव तृतीयं मण्डलमुपसंक्र मति, तथा चाह_ 'सेनिक्खममाणे' इत्यादि, स सूर्यो द्वितीयान्मण्डलाप्रथमक्षणादूर्ध्वंशनैः शनैर्निष्क्रमन्बहिर्मुखं परिभ्रमन् नवसंवत्सरसत्के द्वितीयेऽहोरात्रे ‘अमितरतच्चं ति सर्वाभ्यन्तरान्मण्डलात्त - तीयमण्डलमुपसंक्रम्य चारं चरति, तदा द्वाभ्यां रात्रिन्दिवाभ्यां यावत्प्रमाणं क्षेत्रं विकम्प्य चारं चरति तावनिरूपयितुमाह
___ 'ताजयाण'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां सर्वाभ्यन्तरमण्डलगततदनन्तरद्वितीयमण्डलगताभ्यां पञ्च योजनानि पञ्चत्रिंशतंच एकषष्टिभागान् योजनस्य विकम्प्य, तथाहि-एकेनाप्यहोरात्रेण द्वे योजने अष्टाचत्वारिंशच्च योजनस्यैकषष्टिभागा विकम्पिता द्वितीयेनाप्यहोरात्रेण, तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति, एतावन्मानं विकम्प्यचारं चरति, 'तया ण'मित्यादि, रात्रिन्दिवपरिमाणं सुगम, सम्प्रति शेषमण्डलेषु गमनमाह
“एवंखलु'इत्यादि, एवं-उक्तेनप्रकारेण खलु-निश्चितमेतेनोपायेमतत्तन्मण्डलप्रवेशप्रथमक्षणादूर्ध्व शनैः शनैस्तत्तदबहिर्भूतमण्डलाभिमुखगमनरूपेण तस्मात्तनमण्डलानिष्क्रमन् तदनन्तरान्मडलात्तदनन्तरंमण्डलं संक्र मन् २ एकैकेन रात्रिन्दिवेन द्वे द्वे योजने अष्टाचत्वारिंशतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org