________________
प्राभृतं १, प्राभृतप्राभृतं -६
३९ तया णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइंदेइहं विकंपइत्ता चारं चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए ततोऽनंतरातो तयानंतरं च णं मंडलं संकममाणे २ दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारंचरति, तताणंसव्वबाहिरंमंडलं पणिधायएगेणं तेसीएणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चारं चरति । तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवइ, एसणंदोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं आदिचे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे।
. वृ. ‘ता केवइयं ते एगमेगेणं राइदिएणं विकंपइत्ता इत्यादि, ता इति पूर्ववत्, कियत्प्रमाणं क्षेत्रमिति गम्यते, “एगमेगेणं तिअत्रप्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽमयर्थः-एकैकेन रात्रिन्दिवेन-अहोरात्रेण विकम्प्य विकम्प्य विकम्पनं नाम स्वस्वमण्डलाद्वहिरवष्वष्कणमभ्यन्तरप्रवेशनं वा सूर्य-आदित्यश्चारं चरति, चारं चरन् आख्यात इति वदेत् ?, एवं भगवता गौतमेन प्रश्ने कृते सति एताद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्ररूपयति-'तत्थे' त्यादि, 'तत्र' सूर्यविकम्पविषयेस्वल्विमाः सप्तप्रतिपत्तयः-परमतरूपाःप्रज्ञप्ताः, तद्यथा- 'तत्थेगे'त्यादि, 'तत्र' तेषांसप्तानांप्रवादिनांमध्ये एके एवमाहुः, द्वेयोजने अर्होद्वाचत्वरिंशत्-द्वाचत्वारिंशत्तमो येषां ते अर्द्धद्वाचत्वारिंशतस्तान् सार्बेकचत्वारिंशत्सङ्खयानित्यर्थः,
यशीत्यधिकशतभागात्योजनस्य, किमुक्तंभवति? -त्र्यशीत्यधिकशतसङ्खयैगिः प्रविभक्तस्य योजनस्यसम्बन्धिनोऽर्धाधिकैकचत्वारिंशत्सङ्ख्यान्भागान्एकैकेन रात्रिन्दिवेन विकम्प्यविकम्प्य सूर्यश्चारं चरति, अत्रैवोपसंहारमाह-'एगे एवमाहंसु'।
एके पुनर्द्वितीया एवमाहुः, अर्द्धतृतीयानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारंचरति, अत्राप्युपसंहारः “एगे एवमाहंसु'२ । एके पुनस्तृतीयानिएवमाहुः-त्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारंचरति, अत्रोपसंहारः ‘एगे एवमाहंसु' ३, एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुः-त्रीणि योजनानि अर्द्धसप्तचत्वारिंशतश्च, सार्द्धषटचत्वारिंशतश्चेत्यर्थः,त्र्यशीत्यधिकशतभागान्योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति,अत्रैवोपसंहारमाह-'एगेएवमाहंसु'४।एकेपुनः पञ्चमाएवमाहुः-अर्द्धचतुर्थानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं “एगे एवमाहंसु' ५, एके पुनः पठास्तीर्थान्तरीया एवमाहुः-चतुर्भागोनानि चत्वारियोजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं “एगे एवमाहंसु' ६, एके पुनः सप्तमा एवमाहुः-चत्वारि योजनानि अर्द्धपञ्चाशतश्च-सार्द्वकपञ्चाशत्सङ्घयांश्च त्र्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति अत्रोपसंहारवाक्यं “एगे एवमाहंसु'।
तदेवं मिथ्यारूपाः परप्रतिपत्तीरुपदर्य सम्प्रति स्वमतं भगवानुपदर्शयति- 'वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणप्रकारेण केवलज्ञानोपलम्भपुरस्सर वदामः, यदुत द्वे द्वे योजने अष्टाचत्वारिंशच्चैकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org