________________
४१
प्राभृतं १, प्राभृतप्राभृतं -६ चैकषष्टिभागान्योजनस्य विकम्प्यन् २ प्रथमषण्मासपर्यवसानभूते त्र्यशीत्यधिकशततमेअहोरात्रे सर्ववाद्यं मण्डलमुपसंक्रम्य चारं चरति ।। ___'ता जया ण'मित्यादि, सुगमं, 'तया न'मित्यादि, तदा सर्वाभ्यन्तरं मण्डलं प्रणिधायअवधिकृत्य तत्तद्गतमहोरात्रमादि कृत्वा इत्यर्थः, त्र्यशीतेन-त्र्यशीत्यधिकेन रात्रिन्दिवशतेन पञ्चदशोत्तराणि योजनशतानि विकम्प्य, तथाहि-एकैकस्मिन्नहोरात्रे द्वे द्वेयोजनेअष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्प्यति, ततो द्वेद्वो योजने त्र्यशीत्यधिकेन शतेन गुण्येते, जातानि त्रीणिशतानि षट्पष्टयधिकानि येऽपिचाष्टाचत्वारिंशदेक,प्टिभागा स्तेऽपित्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि तेषां योजनानयनाथ-मेकषष्टया भागो ह्रियते, लब्धं चतुश्चत्वारिंशं योजनशतं एतत्पूर्वस्मिन् योजनराशौ प्रक्षिप्यते, जातानि पञ्चशतानि दशोत्तराणि एतावप्रमाणं विकम्प्य चारं चरति । 'तया ण मित्यादि, रात्रिन्दिवपरिमाणं सुगम, सर्वबाह्येचमण्डले प्रविष्टः सन्प्रथमक्षणादूर्ध्वशनैः शनैरभ्यन्तरसर्वबाह्यानन्तरद्वितीयमण्डलाभिमुखं तथा कथञ्चनापि मण्डलगत्या परिभ्रमति येन प्रथमषण्मासपर्यवसानभूताहोरात्रपर्यवसाने सर्वबाह्यमण्डलगतानष्टाचत्वारिंशत- मेकषष्टिभागान् योजनस्यापरे च द्वे योजने अतिक्रम्य सर्ववाह्यानन्तरद्वितीयमण्डलसीमायां वर्तते, ततोऽनन्तरं द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे प्रथमक्षणे सर्वबाह्यानन्तरं द्वितीयमभ्यन्तरं मण्डलं प्रविशति, तथा चाह
'सेपविसमाणे'इत्यादि, स सूर्यः सर्वबाह्यान्मण्डलादुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयषण्मासस्य प्रथमेऽहोरात्रे 'बाहिरानंतरं ति सर्वबाह्यस्य मण्डलस्याभ्यन्तरंद्वितीयमनन्तरमण्डलमुपसंक म्य चारं चरति, ‘ता जया ण मि० ता इति-तत्र यदा सूर्यो बाह्यानन्तरं-सर्वबाह्यमण्डलाननन्तरमभ्यन्तरं द्वितीयं मण्डलमुपसंक म्यचारंचरतितदा एकेन रात्रिन्दिवेन सर्वबाह्यमण्डलगतेन प्रथमषण्मासपर्यवसानभूतेन द्वे योजने अष्टाचत्वारिंशतंच एकषष्टिभागान् योजनस्य विकम्प्य, एतच्चानन्तरमेव भावितं, चारंचरति-चारंप्रतिपद्यते, तयाणमित्यादि, रात्रिन्दिवपिरमाणंसुगमं ___'से पविसमाणे' इत्यादि, ससूर्य सर्वबाह्यानन्तराभ्यन्तरद्वितीयमण्डलादपिप्रथमक्षणादूर्ध्व शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे ‘बाहिरतचंति सर्ववाह्यस्य मण्डलस्याभ्यन्तरं तृतीयमण्डलमुपसंक्रम्य चारं चरति, ‘ता जया ण'मित्यादि, तत्र यदा सूर्य सर्वबाह्यान्मण्डलादभ्यन्तरं तृतीयम्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां सर्ववाह्यामण्डलगतसर्ववाह्यानन्तरद्वितीयमण्डलगताभ्यांपञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य विकम्प्यति, द्वितीयेनाप्यहोरात्रेण द्वितीयषण्मासप्रथमेन, तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति । 'तया णं०' मित्यादि, रात्रिन्दिवपरिमाणं सुगम, ‘एवं खलु एएण उवाएणं प०'इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण स्वयं परिभावनीयम् ।।
प्राभृतं-१, प्राभृतप्राभृतं-६ समाप्तम्
-:प्राभृतप्राभृतं-७:तदेवमुक्तं षष्ठंप्राभृतप्राभृतं, सम्प्रति सप्तममारभ्यते, तस्य चायमर्थाधिकारः पूर्मुद्दिष्टो-यथा 'मण्डलानां संस्थानं वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org