________________
प्रामृतं १, प्राभृतप्राभृतं - ४
३३ पञ्चत्रिंश-चैकषष्टिभागा योजनस्येति भवत, एतावदधिकं पूर्वमण्डलगतादन्तर- परिमाणादत्र प्राप्यते, ततो यथोक्तमन्तरपरिमाणं भवति । ___तयाण'मित्यादि, तदा सर्वाभ्यन्तरानन्तर द्वितीयमण्डलचार चरणकालेऽष्टादशमुहूर्तो दिवसो भवति, द्वाभ्यां ‘एगट्ठिभागमुहुत्तेहिंति मुहूर्तेकषष्टिभागाभ्यामूनो, द्वादशमुहूर्ता रात्रि द्वाभ्या मुहूर्तेकषष्टिभागाभ्यामधिका, 'ते निक्खममाणा' इत्यादि, ततस्तस्मादपि द्वितीयान्मण्डलान्निष्क्रमन्तौ सूर्यौनवस्य सूर्यसंवत्सरस्य द्वितीयेऽहोरात्रेऽभ्यन्तरस्य-सर्वाभ्यन्तरस्य मण्डलस्य तृतीयं मण्डलमुपसंक म्य चारं चरतः ‘ता जयाण'मित्यादि, ततो यदा णमिति पूर्ववत्, एतौ द्वौ सूर्यौ अभ्यन्तरतृतीयं-सर्वाभ्यन्तरस्य मण्डलस्य तृतीयं मण्डलमुपसंक्रम्य चारं चरतः ।
__ 'तदा' तस्मिंस्तृतीयमण्डलचारचरणकाले नवनवतियोजनसहस्राणि षट् च शतानि एकपञ्चाशदधिकानियोजनानां नव चैकषष्टिभागान्योजनस्यपरस्परमन्तरं कृत्वाचारंचरतश्चरन्तावाख्याताविति वदेत, तदा कथमेतावप्रमाणमन्तरकरणमिति चेत् ?, उच्यते, इहाप्येकः सूर्य सर्वाभ्यन्तरद्वितीयमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान योजनस्यापरे च द्वे योजने विकम्प्य चारंचरति, द्वितीयोऽपि, ततो द्वेयोजनेअष्टाचत्वारिंशच्चैकषष्टिभागायोजनस्येति द्वाभ्यां गुण्यते, द्विगुणमेघ पञ्च योजनानि पञ्चत्रिंशचैकषष्टिभागा योजनस्येतिभवति, एतावत्पूर्वमण्डलगतादन्तरपरिमाणादत्राधिकं प्राप्यते इति भवात यथोक्तमत्रान्तरपरिमाण ‘तया णमित्यादि, यदा सर्वाभ्यन्तरान्मण्डलात् तृतीये मण्डले चारं चरतस्तदा अष्टादशमुहूर्तो दिवसो भवति, चतुर्भिः 'एगट्ठिभागमुहुत्तेहिं प्राकृतत्वात्पदव्यत्यासः, ततोऽयमर्थ-मुहूर्तेकषष्टिभागैरूनो, द्वादशमुहूर्तता रात्रिश्चतुर्भिर्महूर्तेकषष्टिभागैरधिका, 'एव'मित्यादि, एवमुक्तेन प्रकारेणखलुनिश्चितमेतेनोपायेन प्रति मण्डलमेकतोऽप्येकः सूर्यो द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् विकम्प्यचारं चरति, अपरतोऽप्यपरः सूर्य इत्येवंरूपेण निष्क्रमन्तौ तौ जम्बूद्वीपगतौ द्वौ सूर्योपूर्वस्मात्पूर्वस्मात्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संकामन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतान्तरपरिमाणापेक्षया पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमभिवर्द्धयन्तावभिवर्द्धयन्ती नवसूर्यसंवत्सरस्य त्र्यशीत्यधिकशततमेऽहोरात्रे प्रथमषण्मासपर्यवसानभूते सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतः। ___'ता जया ण'मित्यादि ततो यदा एतौ द्वौ सूर्यौ सर्ववाद्यं मण्डलसमुपसंका म्य चारंचरतः तदा तावेकं योजनशतसहस्रं पट् च शतानि षष्टयधिकानि परस्परमन्तरं कृत्वा चारं चरतः, कथमेतदवसेयमिति चेत् ?, उच्यते, इह प्रतिमण्डलं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्यन्तरपरिमाणचिन्तायामभिवर्द्धमानं प्राप्यते, सर्वाभ्यन्तराच्च मण्डलात्सर्वबाह्यं मण्डलं त्र्यशीत्यधिकशततमं, ततः पञ्च योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणियोजनानां एकषष्टिभागाश्चपञ्चत्रिंशत्सङ्ख्या अशीत्यधिकेन शतेन गुण्यन्ते जातानि तेषां चतुःषष्टिशतानि पञ्चोत्तराणि तेषामेकषष्टया भागे हते लब्धपञ्चोत्तरंयोजनशतं एतत्प्राक्तने योजनराशौ प्रक्षिप्यते, जातानि दश शतानि विंशत्यधिकानि योजनानि एतत् सर्वाभ्यन्तरमण्डलगतोत्तरपरिमाणे नवनवतियोजनसहस्राणि षट्शतानि चत्वारिंशदधिकानि इत्येवंरूपे प्रक्षिप्यते, ततो यथोक्तं सर्वबाह्यमण्डले अन्तरपरिमाणं भवति । [12] 3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org