SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/४/२५ परस्परमन्तरं कृत्वा चारं चरतः, एके षष्ठाः पुनरेवमाहुः-त्रीन्द्वीपान्त्रीन्समुद्रान् परस्परमन्तरं कृत्वा चारं चरत इति। एतेच सर्वे तीर्थान्तरीया मिथ्यावादिनोऽयथातत्ववस्तुव्यवस्थापनात्, तथा चाह-'वयं पुण'इत्यादि, वयं पुनरासादितकेवलज्ञानलाभाः परतीर्थिकव्यवस्थापितवस्तुव्यवस्थाव्युदासेन ‘एवं' वक्ष्यमाणप्रकारेण केवलज्ञानेन यथावस्थितं वस्तुतत्वमुपलभ्य वदामः, कथं वदथ यूयं भगवन्त इत्याह-'ता पंचे'त्यादि, 'ता' इति आस्तामन्यद्वक्तव्यं इदं तावत्कथ्यते, द्वावपि सूर्यो सर्वाभ्यतरान्मण्डलानिष्क्रमन्तौप्रतिमण्डलंपञ्चपञ्चयोजनानि पञ्चत्रिंशतं चैकषष्टिभागान्योजनस्य पूर्वपूर्वमण्डलगतान्तरपिरमाणेअभिवर्द्धयन्तौ वाशब्द उत्तविकल्पापेक्षया समुच्चये 'निवुड्डेमाणा वा' इति सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ प्रतिमण्डलं पञ्च पञ्च योजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य निर्वेष्टयन्तौ पूर्वपूर्वमण्डलगतान्तरपरिमाणात् हापयन्तौ, वाशब्दः पूर्वविकल्पापेक्षया समुच्चये, सूर्योचारंचरतः, चरन्तावाख्यातावितिस्वशिष्येभ्योवदेत्, एवमुक्ते भगवान् गौतमो निजशिष्यनिशङ्कितत्वव्यवस्थापनार्थं भूयः प्रश्नयति तत्थण मित्यादि, तत्रएवंविधाया वस्तुतत्वव्यवस्थायाअवगमेको हेतुः-काउपपत्तिरिति प्रसादं कृत्वा वदेत् ?, भगवानाह-'ता अयन'मित्यादि, इदं जम्बूद्वीपस्वरूपप्रतिपादकं वाक्यं पूर्ववत्परिपूर्ण स्वयं परिभावनीयम्, ‘ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे एतौ जम्बूद्वीपप्रसिद्धौ भारतैरावतौ द्वावपि सूर्यौ सर्वाभ्यन्तरं मण्डलमुपसंक्म्य चारं चरतः तदा नवनवतियोजनसहस्राणि षट् योजनशतानि चत्वारिंशानि-चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः चरन्तावाख्याताविति वदेत्, कथं सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोः परस्परमेतावप्रमाणमन्तरमिति चेत् ?, उच्यते, इह जम्बूद्वीपो योजनलक्षप्रमाणविष्कम्भस्तत्रैकोऽपि सूर्यो जम्बूद्वीपस्य मध्ये अशीत्यधिकं योजनशतमवगाह्य सर्वाभ्यन्तरे मण्डले चारं चरति, द्वितीयोऽप्यशीत्यधिकं योजनशतमवगाह्य, अशीत्यधिकं च शतं द्वाभ्यां गुणितुं त्रीणि शतानि षष्टयधिकानि भवन्ति, एतानि जम्बूद्वीपे विष्कम्भपरिमाणाल्लक्षरूपादपनीयन्ते, ततो यथोक्तमन्तरपरिमाणं भवति। 'तयाण'मित्यादि, तदा सर्वाभ्यन्तरे द्वयोरपि सूर्ययोश्चरणकाले उत्तमकाष्ठाप्राप्तः-परमप्रकर्पप्राप्तः उत्कर्षकः-उत्कृष्टोअष्टादशमुहूर्तो दिवसो भवति, जघन्या-सर्वजघन्या द्वादशमुहूर्ता रात्रि 'ते निक्खममाणा' इत्यादि ततस्तस्मात्सर्वाभ्यन्तरान्मण्डलात्तौ द्वावपि सूर्यो निष्क्रमन्तौ नवंसूर्यसंवत्सरमाददानौ नवस्य सूर्यसंवत्सरस्य प्रथमेऽहोरात्रेऽभ्यन्तरा-नन्तरमितिसर्वाभ्यन्तरात् मण्डलादनन्तरं द्वितीयं मण्डलमुपसंगम्य चारं चरतः ‘ता जया ण'मित्यादि ततो यदा एतौ द्वावपि सूर्यौ सर्वाभ्यन्तरानन्तरमण्डलमुपसंगम्य चारं चरतस्तदा नवनवतियोजन- सहस्राणि षट्शतानि पञ्चचत्वारिंशदधिकानियोजनानां पञ्चत्रिंशतंचैकषष्टिभागान्योजनस्येत्येता वत्प्रमाणं परसपरमन्तरं कृत्वा चारंचरतश्चरन्तावाख्याताविति वदेत, तदा कथमेतावप्रमाण-मन्तरमिति चेत्?, उच्यते, इह एकोऽपिसूर्य सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान्योजनस्य अपरे च द्वे योजने विकम्प्य सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले चरति, एवं द्वितीयोऽपि, ततो द्वे योजने अष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्येति द्वाभ्यां गुण्यंते, गुणिते च सति पञ्च योजनानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy