________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/४/२५
'तयाण' मित्यादि तदा सर्वबाह्यमण्डलचारचरणकाले उत्तमकाष्ठाप्राप्ता - परमप्रकर्षप्राप्ता उत्कृष्टा अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तोदिवसः, 'एस णं पढमे छम्मासे' इत्यादि प्राग्वत्, ‘ते पविसमाणा’इत्यादि, तौ ततः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ द्वौ सूर्यौ द्वितीयं षण्मासमाददानौ द्वितीयस्य षम्मासस्य प्रथमेऽहोरात्रे बाह्यानन्तरं - सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ द्वौ सूर्यौ द्वितीयं षण्मासमाददानौ द्वितीयस्य षण्मासस्य प्रथमेऽहौरात्रे बाह्यानन्तरंसर्वबाह्यान्मण्डलादर्वागनन्तरं द्वितीयं मण्डलमुपसंक म्य चारं चरतस्तदा एकं योजनशतसहस्रं षट् शतानि चतुःपञ्चाशदधिकानि षड्विंशतिं चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः, चरन्तावाख्यातावितिवदेत्, कथमेतावत्तस्मिन् सर्वबाह्यान्मण्डलादर्वाक्तने द्वितीये मण्डले परस्परमन्तरकरणमिति चेत् ?, उच्यते, इहैकोऽपि सूर्य सर्वबाह्यमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान् योजनस्यापरे च द्वे योजने अभ्यन्तरं प्रविशन् सर्वबाह्यान्मण्डलादर्वाक्तने द्वितीये मण्डले चारं चरति, अपरोऽपि, ततः सर्वबाह्यगतादष्टाचत्वारिंशदतरपरिमाणाद् अत्रान्तरपरिमाणं पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्योनं प्राप्यते इति भवति यथोक्तमत्रान्तरपरिमाणं, ' तया न 'मित्यादि, तदा सर्वबाह्यानन्तरार्वाक्तन द्वितीयमण्डलचारचरणकालेऽष्टादशमुहूर्त्ता रात्रिर्भवति, द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामूना, द्वादशमुहूर्ती दिवसो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामधिकः । ' ते पविसमाणा' इत्यादि, ततस्तस्मादपि सर्वबाह्यमण्डलार्वाक्तनद्वितीयमण्डलादभ्यन्तरं प्रविशन्तौ तौ द्वौ सूर्यौ द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे 'बाहिरं तच्चं’ति सर्वबाह्यन्मण्डलाद- वक्तनं तृतीयं मण्डलमुपसक म्य चारं चरतः ।
'ता जया ण' मित्यादि तत्र यदा एतौ द्वौ सूर्यौ सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं मण्डलमुपसंक्र म्य चारं चरतः तदा एकं योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि द्विपञ्चाशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः, प्रागुक्तयुक्त्या पूर्वमण्डलगतादन्तरपरिमाणादत्रान्तरपरिमाणमस्य पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनत्वात्, ' तया न' मित्यादि, तदा सर्वबाह्यान्मण्डलादर्वाक्तनतृतीयमण्डलचारचरणकालेऽष्टादशमुहूर्ता रात्रिर्भवति, चतुर्भिहूर्तेक, ष्टिभागैरूना, द्वादशमुहूर्ती दिवसश्चतुर्भिरेकषष्टिभागमुहूर्तस्याधिकः । ' एवं खलु' इत्यादि, एवम् उक्तप्रकारेण खलु निश्चितमनेनोपायेन एकतोऽप्येकः सूर्योऽभ्यन्तरं प्रविशन् पूर्वपूर्वमण्डलगतादन्तरपरिमाणादनन्तरे अनन्तरे विवक्षिते मण्डले अन्तरपरिमाणस्याष्टाचत्वारिंशतमेकपष्टिभागान् द्वे च योजने वर्धयति हापयत्यपरतोऽप्यपरः सूर्य इत्येवंरूपेण एतौ जम्बूद्वीपगतौ सूर्यौ तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संका मन्तौ संका मन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतादन्तरपरिमाणात् अनन्तरेऽनन्तरे विवक्षिते मण्डले पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरपरिमाणं निर्वेष्टयन्तौ - हापयन्तौ हापयन्तावित्यर्थः, द्वितीयस्य पम्मासस्य त्र्यशीत्यधिकशततमे अहोरात्रे सूर्यसंवत्सरपर्यवसानभूते सर्वाभ्यन्तरं मण्डलमुपसंक म्य चारं चरतः ।
'ता जया ण'मित्यादि, तत्र यद एतौ द्वौ सूर्यौ सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः तदा नवनवतियोजनसहस्राणि षट् योजनशतानि चत्वारिंशानि - चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः, अत्र चैवं रूपान्तरपरिमाणे भावना प्रागेव कृता, शेषं सुगमम् ॥ प्राभृतं - १, प्राभृतप्रभृत-४ समाप्तम्
For Private & Personal Use Only
३४
Jain Education International
www.jainelibrary.org