SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं २९ द्वितीयषण्मासमध्ये प्रत्येकं परिभ्रभ्यन्ते, सर्वेष्वपि च दिग्विभागेषु प्रत्येकमेकं मण्डलमेकेन सूर्येण परिभ्रम्यते द्वितीयमपरेण एवं यावत्सर्वान्तिमं मण्डलं, तत्र दक्षिणपूर्वदिग्भागे द्वितीयषण्मासमध्ये भारतः सूर्योद्विनवति-मण्डलानि परिभ्रमति, एकनवतिमण्डलानि ऐरावतः, उत्तरपश्चिमे दिग्विभागे द्विनवतिमण्ड- लान्यैरावतः परिभ्रमति, एकनवतिमण्डलानि भारतः, एतच्च पट्टिकादौ मण्डलस्थापनां कृत्वा परिभावनीयं तत उक्तम् - दक्षिणपूर्वे द्विनवतिसङ्ख्यानि मण्डलानि उत्तरपश्चिमे त्वेकनवतिसङ्ख्यानि भारतः स्वयं चीर्णानि प्रतिचरतीति । तदेवं भारतसूर्यस्य स्वीयं चीर्णप्रतिचरणपरिमाणमुक्तमिदानीं तस्यैव भारतसूर्यस्य परचीर्णप्रतिचरणपरिमाणमाह - 'तत्थ य अयं भारहे' इत्यादि, 'तत्र 'जम्बूद्वीपे 'अयं' प्रत्यक्षत उपलभ्यमानो जम्बूद्वीपसम्बन्धी भारतः सूर्यो यस्मिन् मण्डले परिभ्रमति तत्तन्मण्डलं चतुर्विंशत्यधिकेन भागशतेन छित्वा भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया च जीवया तत्तन्मण्डलं चतुर्भिर्विभज्य उत्तरपूर्वे ईशाने कोणे इत्यर्थः 'चतुर्भागमण्डले' तस्य तस्य मण्डलस्य चतुर्थे भागे तेषामेव द्वितीयानां षण्मासानां मध्ये एरावतस्य सूर्यस्य द्विनवतिसूर्यमतानि द्विनवतिसवयान्यैरावतेन सूर्येण पूर्वं निष्क्रमणकाले मतीकृतानि प्रतिचरति । एतदेव व्यक्तीकरोति - 'जाई सूरिए परस्स चिण्णाई पडिचरइ' यानि सूर्यो भारतः 'परस्स चिन्नाई' इत्यत्र षष्ठी तृतीयार्थे परेणएरावतेन सूर्येण निष्क्रमणकाले चीर्णानि प्रतिचरति, दक्षिणपश्चिमे च मण्डलचतुर्भागे एकनवतिं - एकनवतिसङ्ख्यानि एरावतस्य सूर्यस्येत्यत्रापि सम्बध्यते, ततोऽयमर्थ - ऐरावतस्य सूर्यस्य सम्बन्धीनि सूर्यमतानि, किमुक्तं भवति ? - ऐरावतेन सूर्येण पूर्वं निष्क्रमणकाले मतीकृतानि प्रतिचरति, एतदेवाह - 'जाइं सूरिए परस्स चिण्णाई पडियरइ' एतत्पूर्ववद् व्याख्येयं, अत्राप्येकस्मिन् विभागे द्विनवतिरेकस्मिन् भागे एकनवतिरित्यत्र भावना प्रागिव भावनीया, तदेवं भारतः सूर्यो दक्षिणपूर्वे द्विनवतिसङ्ख्यानि उत्तरपश्चिमे एकनवतिसङ्ख्यानि स्वयं चीर्णानि उत्तरपूर्वे द्विनवतिसङ्ख्यानि दक्षिणपश्चिमे एकनवतिसङ्ख्यान्यैरावतसूर्यचीर्णानि प्रतिचरतीत्यापपादितं सम्प्रति ऐरावतः सूर्य उत्तरपश्चिमदिग्भागे द्विनवतिसङ्ख्यानि मण्डलानि दक्षिणपूर्वे एकनवतिसङ्ख्यानि स्वयं चीर्णानि दक्षिणपश्चिमे द्विनवतिसङ्ख्यान्युत्तरपूर्वे एकनवतिसङ्ख्यानि भारतूर्यचीर्णानि प्रतिचरतीत्येतत्प्रति- पादयति- 'तत्थ अयं एरवए सूरिए’इत्यादि, एतच्च सकलमपि प्रागुक्तसूत्रव्याख्यानुसारेण स्वयं व्याख्येयं । सम्प्रत्युपसंहारमाह-'ता निक्खममाणा खलु' इत्यादि, अस्यायं भावार्थ-इह भारतः सूर्योऽभ्यन्तरं प्रविशन् प्रतिमण्डलं द्वौ चतुर्भागौ स्वयं चीर्णौ प्रतिचरति द्वौ तु परचीर्णौ ऐरावतोऽप्यभ्यन्तरं प्रविशन् प्रतिमण्डं द्वौ चतुर्भागी स्वचीर्णी प्रतिचरति द्वौ तु परचीर्णाविति सर्वसङ्घयया प्रतिमण्डलमेकैकेनाहोरात्रद्वयेन उभयसूर्यचीर्णप्रतिचरणविवक्षायामष्टौ चतुर्भागाः प्रतिचीर्णा प्राप्यन्ते, ते च चतुर्भागाश्चतर्विंशत्यधिकशतसत्काष्टादशभागप्रमिताः, एतच्च प्रागेव भावितं, ततोऽष्टादशभिर्गुणिताश्चतुश्चत्वारिंशदधिकं शतं भागानां भवति, तत एतदुक्तं भवति 'पविसमाणा खलु एए दुवे सूरिया अन्नमन्नस्स चिन्नं पडियरंति, तंजहा-सयमेगं चोयाल’मिति, ‘गाहाओ’त्ति, अत्राप्येतदर्थप्रतिपादिकाः काञ्चनापि सुप्रसिद्धा गाथा वर्त्तन्ते, ताश्च व्यवच्छिन्ना इति कथयितुं न शक्यन्ते, यो वा यथा सम्प्रयादवगच्छति तेन तथा वक्तव्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy