SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ३०२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१९३ यक्षे द्वीपे यक्षभद्रयक्षमहाभद्री यक्षे समुद्रे यक्षवरयक्षमहावरौ भूते द्वीपे भूतभद्रभूतमहाभद्रौ भूते समुद्रे भूतवरभूतमहावरौ स्वयंभूरमणे द्वीपे स्वयम्भूभद्रस्वयम्भूमहाभद्री स्वम्भूरमणे समुद्रे स्वम्भूवरस्वयम्भूमहावरौ, इह नन्दीश्वरादयः सर्वे समुद्रा भूतसमुद्रपर्यवसाना इक्षुरसोदसमुद्रसशोदकाः प्रतिपत्तव्याः, स्वयम्भूरमणसमुद्रस्य तूदकं पुष्करोदसमुद्रोदकसध्क्षं । तथा जम्बूद्वीप इति नाम्ना असङ्ख्येया द्वीपा लवण इति नाम्ना असङ्घयेयाः समुद्राः एवं तावत् वाच्यं यावत्सूर्यवरावभास इति नाम्ना असङ्घयेयाः समुद्राः, ये तु पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्रास्ते एकैका एळ प्रतिपत्तव्याः, नैतेषां नामभिरन्ये द्वीपसमुद्राः, उक्तं च जीवाभिगमे'केवइयाणं भंते! जंबुद्दीवा दीवा पन्नत्ता ?, गोयमा ! असंखेज्जा पन्नत्ता, केवइया णं भंते! देवदीवा पन्नत्ता ?, गोयमा ! एगे देवदीवे पन्नत्ते, दसवि एगागारा' इति ॥ प्राभृतं -१९ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे एकोनविंशतितमप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । प्राभृतं - २० वृ. तदेवमुक्तमेकोनविंशतितमं प्राभृतं, सम्प्रति विंशतितममारभ्यते - तस्य चायमर्थाधिकारो यथा 'कीद्दशश्चन्द्रादीनामनुभाव' इति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (१९४) ता कहं ते अनुभावे आहितेति वदेज्जा ?, तत्थ खलु इमाओ दो पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु ता चंदिमसूरिया णं नो जीवा अजीवा नो घणा झुसिरा नो बादरबोदिंधरा कलेवरा नत्थि णं तेसिं उट्ठाणेति वा कम्मेति वा बलेति वा विरिएति वा पुरिसकारपरक्कमेति वा ते नो विज्जू लवंति नो असणिं लवंति नो धणितं लवंति, अहे य णं बादरे वाउकाए संमुच्छति अहे य णं बादरे वाउकाए संमुच्छित्ता विज्जुंपि लवंति असगिंपि लवंति थणितंपि लवंति एगे एव० । एगे पुण एवमाहंसु, ता चंदिमसूरियाणं जीवा नो अजीवा घणा नो झुसिरा बादरबुंदिधरा नो कलेवरा अत्थि णं तेसिं उट्ठाणेति वा० ते विज्जुंपि लवंति ३ । एगे एवमाहंसु । वयं पुण एवं वदामो-ता चंदिमसूरया णं देवा णं महिड्डिया जाव महानुभागा वरवत्थधरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयदृताए अन्ने चयंति अन्ने उववज्रंति ॥ वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण चन्द्रादीनामनुभावः-स्वरूपविशेष आख्यात इति वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे प्रतिपत्ती ये उपदर्शयति- 'तत्थ खलु' इत्यादि, तत्र - चन्द्रादीनामनुभावविषये खल्विमे द्वे प्रतिपत्ती - परतीर्थिकाभ्युपगमरूपे प्रज्ञप्ते, तद्यथा-'तत्थेगे' इत्यादि, तत्र - तेषां द्वयानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः, 'ता' इति तेषां परतीर्थिकानां प्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थ, चन्द्रसूर्या णमिति वाक्यालङ्क्तरे नो जीवा - जीवरूपाः किन्त्वजीवाः, तथा नो घना - निबिडप्रदेशोपचयाः किन्तु शुषिराः, तथा न वरबोन्दिधराः - प्रधानसजीवसुव्यक्तावयवशरीरोपेताः किन्तु कलेवराःकलेवरमात्राः तता नास्ति णमिति वाक्यालङ्कारे तेषां चन्द्रादीनामुत्थानं - ऊर्ध्वभवनमितिरुपदर्शने वाशब्दो विकल्पे समुच्चये वा कर्म्म-उत्क्षेपणावक्षेपणादि बलं - शारीरः प्राणो वीर्य - आन्तरोत्साहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy