SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १९, प्राभृतप्राभृतं ३०१ समुद्रः तदनन्तरंरुचकवरावभासोद्वीपोरुचकवरावभासः समुद्रः, तत्र रुचके द्वीपे सर्वार्थमनोरमौ देवी रुचकसमुद्रे सुमनःसौमनसौ रुचकवरे द्वीपेरुचकवरभद्ररुचकवरमहाभद्रौ रुचकवरे समुद्रे रुचकवररुचकमहावरौ रुचकवरावभासे द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्रौ रुचकवरावभासे समुद्रे रुचकवरावभासवररुचकवरावभासमहावरौ । कियन्तो नाम नामग्रहं द्वीपसमुद्रा वक्तुं शक्यन्ते? ततो यानि कानिचिदाभरणनामानिहारार्द्धहारकनकावलिरत्नावलिप्रभृतीनि यानिच वस्त्रनामानि यानिचगन्धनामानि कोष्ठपुटादीनि यानि चोत्पलनामानि-जलरुहचन्द्रोद्योतप्रमुखाणि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि-पृथिवीशर्करावालुकेत्यादीनि यानिच नवानां निधीनांचतुर्दशानां चक्रवर्तिरलानां क्षुल्लहिमवदादीनां वर्षधरपर्वतानां पद्मादीनां हदानां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां शक्रदीनामिन्द्राणां देवकुरुत्तरमन्दराणामावासानां शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नानांगजदन्तानांकूढादीनां क्षुल्लहिमवदादिसम्बन्धिनां नक्षत्राणां-कृत्तिकादीनांचन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि, तद्यथा__-हारोद्वीपोहारः समुद्रो हारवरोद्वीपो हारवरःसमुद्रोहारवरावभासोद्वीपोहारवरावभासः समुद्र इत्यादि, एतेऽ समस्तद्वीपसमुद्रेषु सङ्घयेययोजनशतसहस्रप्रमाणो विष्कम्भः सङ्खयेययोजनशतसहस्रप्रमाणः परिक्षेपः सङ्खयेयाश्च चन्द्रादयस्तावद् वक्तव्याः यावदन्यः कुण्डलवरावभासः समुद्रः, तथाचाह-सव्वेसिमित्यादि, सर्वेषामुक्तस्वरूपाणां द्वीपसमुद्राणामन्यकुण्डलवरावभासमुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिषाणिपुष्करोदसागरसहशानि वक्तव्यानि-सङ्खयेययोजनप्रमाणो विष्कम्भः सङ्खयेययोजनप्रमाणः परिक्षेपः सङ्खयेयाश्चन्द्रादय वक्तव्या इत्यर्थः । -ततस्तदनन्तरंयोऽन्यो रुचकनामा द्वीपस्तप्रभृतिषु रुचकसमुद्ररुचकवरद्वीपरुचकवरसमुद्ररुचकवरावभासद्वीपरुचकवरावभाससमुद्रादिष्वपि सङ्खयेययोजनप्रमाणो विष्कम्भोऽसङ्घयेययोजनप्रमाणः परिक्षेपोऽसङ्खयेयाश्चन्द्रादयो वक्तव्याः, तथा चाह 'ता कुंडलवरावभासण्णं'इत्यादि, ‘एवं रुयगे समुद्दे' इत्यादि, ‘एवं तिपडोयारा इत्यादि, एवमुक्तेनप्रकारेण रुचकवरावभासात्समुद्रात्परतो द्वीपसमुद्राश्च त्रिप्रत्यवतारास्तावत् ज्ञातव्या यावत् सूर्यो द्वीपः सूर्यसमुद्रः सूर्यवरोद्वीपः सूर्यवरः समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, उक्तं च जीवाभिगमचूर्णी-“अरुणाई दीवसमुद्दा तिपडोयारा यावत्सूर्यवरावभासः समुद्रः" इति, 'सव्वेसि'मित्यादि, सर्वेषां रुचकसमुद्रादीनां सूर्यवरावभाससमुद्रपर्यन्तानां विकम्भपरिक्षेपज्योतिषाणि रुचकद्वीपसध्शानि वक्तव्यानि असङ्खयेययोजनप्रमाणो विष्कम्भोऽसङ्खयेययोजनप्रमाणः परिक्षेपोऽसङ्खयेयाः प्रत्येकं चन्द्रसूर्यग्रहनक्षत्रतारका वक्तव्या इति भावः, 'सूरवरावभासोदण्णं समुदं' इत्यादिसुगम, नवरमेतेपञ्चदेवादयोद्वीपाः पञ्चदेवादयः समुद्राः प्रत्येकमेकरूपा न पुनरेषां त्रिप्रत्यवतारः, उक्तं च जीवाभिगमचूर्णी-“अंतो पंच द्वीपा पंच समुद्दा एकप्रकारा" इति, जीवाभिगमसूत्रेऽप्युक्तम्-“देवेनागेजक्खे भूयेय सयंभुरमणेय। एक्कक्के चेव भाणियव्वे, तिपडोयारं नस्थित्ति, तत्र देवे द्वीपे द्वौ देवी देवभद्रदेवमहाभद्रौ देवे समुद्रे देववरदेवमहावरौ नागे द्वीपे नागभद्रनागमहाभद्रौ नागे समुद्रे नागवरनागमहावरौ Jain Education International For Private & Personal Use Only For Private & www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy