SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २९६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१८५ वृ. सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं च ग्रहनक्षत्रतारापिरमाणपरिज्ञानोपायमाह'रिक्खग्गहतारग्ग'मित्यादि, अनाग्रशब्दः परिणामवाची यत्रद्वीपेसमुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणंतारापरिमाणं वाज्ञातुमिच्छसितस्य द्वीपस्यसमुद्रस्य वा सम्बन्धिभि राशिभिरेकस्य शशिनः परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणंच गुणितं सत् यावद् भवति तावप्रमाणं तत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणमिति, यथा लवणसमुद्रे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्टं लवणसमुद्रे च राशिनश्चत्वारस्तत एकस्य राशिनः परिवारभूतानि यान्यष्टाविंशतिर्नक्षत्राणि तानि चतुर्भिर्गुण्यन्ते जातं द्वादशोत्तरं शतं एतावन्ति लवणसमुद्रे नक्षत्राणि,तथाअष्टाशीतिहा एकस्य राशिनः परिवारभूतास्तेचतुर्भिर्गुण्यन्ते जातानि त्रीणि शतानि द्विपञ्चशदधिकानि ३५२ एतावन्तो लवणसमुद्रे ग्रहाः, तथा एकस्य राशिनः परिवारभूतानि तारागणकोटीकोटीनां षट्षष्टि सहस्राणि नवशतानि पञ्चसप्तत्यधिकानि तानि चतुर्भिर्गुण्यन्ते जातानि कोटिकोटीनां वे लक्षे सप्तषष्टि सहस्राणि नव शतानि एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः, एवंरूपा च नक्षत्रादीनां सङ्खया प्रागेवोक्ता, एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्षत्रादिसङ्ख्यापरिमाणं परिभावनीयं । मू. (१८६) बहिता तु माणुसनगस्स चंदसूराणऽवहिता जोहा। चंदा अभीयीजुत्ता सूरा पुण हुंति पुस्सेहिं ।। वृ. 'बहिया' इत्यादि, मानुषनगस्य-मानुषोत्तरस्य पर्वतस्य बहिश्चन्द्रसूर्याणां तेजांसि अवस्थितानि भवन्ति, किमुक्तं भवति?-सूर्या सदैवानत्युष्णतेजसो नतु जातुचिदपि मनुष्यलोके ग्रीष्मकाल इवात्युष्णतेजसः, चन्द्रमसोऽपि सर्वदेवानविशीतलेश्याका नतु कदाचनाप्यन्तर्मनुष्यक्षेत्रस्य शिशिरकाल इवातिशीततेजसः, तथा मनुष्यक्षेत्राद्वहिः सर्वेऽपि चन्द्राः सर्वदेवाभिजिता नक्षत्रेण युक्ताः सूर्या पुनर्भवन्ति पुष्यैर्युक्ता इति । मू. (१८७) चंदातो सूरस्स य सूरा चंदस्स अंतर होइ। पन्नाससहस्साइंतु जोयणाणं अणूणाई॥ वृ. 'चंदाओ'इत्यादि, मनुष्यक्षेत्राबहिश्चन्द्रात् सूर्यस्य सूर्याच्च चन्द्रस्यान्तरं भवति अन्यूनानि-परिपूर्णानि योजनाना पञ्चाशत्सहस्राणि।तदेवंसूर्यस्य चन्द्रस्यचपरस्परमन्तरमुक्तं, सम्प्रति चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरमाहमू. (१८८) सूरस्स य २ ससिणो २ य अंतरं होइ। बाहिं तु माणुसनगस्स जोयणाणं सतसहस्सं॥ वृ. 'सूरस्सयसूरस्सय'इत्यादि, मानुषनगस्य–मानुषोत्तरपर्वतस्य बहि सूर्यस्य २ परस्परं चन्द्रस्य २ च परस्परमन्तरं भवति योजनानां शतसहनं-लक्षं, तथाहि-चन्द्रान्तरिताः सूर्या सूर्यान्तरिताश्चन्द्राःव्यवस्थिताः चन्द्रसूर्याणांचपरस्परमन्तरंपञ्चाशत् योजनसहस्राणि ततश्चन्द्रस्य सूर्यस्य चपरस्परमन्तरंयोजनानां लक्षं भवतीति।सम्प्रति बहिस्चन्द्रसूर्याणांपङ्क्ताव-वस्थानमाहमू. (१८९) सूरंतरिया चंदा चंदंतरिया य दिनयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य॥ वृ. 'सूरंतरिया' इत्यादि, नृलोकाहि पङ्क्त्या स्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy