SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १९, प्राभृतप्राभृतं पंचविहा जोतिसिया चंदा सूरा गहगणा य ॥ वृ. ‘अंतो’इत्यादि, अन्तः–मध्ये मनुष्यक्षेत्रे - मनुष्यस्य क्षेत्रस्य पञ्चविधा ज्योतिष्काः, तद्यथा-चन्द्राः सूर्या ग्रहगणाश्चशब्दान्नक्षत्राणि तारकाश्च भवन्ति, चारोपगाः- चारयुक्ताः । सू. (१८१) तेण परं जे सेसा चंदादिच्चगहतारनक्खत्ता । नत्थि गती नवि चारो अवट्टिता ते मुणेयव्वा ॥ वृ. 'तेण पर 'मित्यादि, तेनेति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततो- मनुष्यक्षेत्रात् परं यानि शेषाणि चन्द्रादित्यग्रहतारानक्षत्राणि - चन्द्रादित्यग्रहतारानक्षत्रविमानानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, तेषां नास्ति गति - न स्वस्मात् स्थानाञ्च्चलनं नापि चारो - मण्डलगत्या परिभ्रमणं किन्त्ववस्थितान्येव तानि ज्ञातव्यानि । यू. (१८२) एवं जंबुद्दीवे दुगुणा लवणे चउग्गुणा हुंति । लावणगा य तिगुणिता ससिसूरा धायइसंडे ॥ वृ. 'एवं जंबुद्दीवे' इत्यादि, एवं सति एकैकौ चन्द्रसूर्यौ जम्बूद्वीपे द्विगुणौ भवतः, किमुक्तं भवति ? - द्वौ चन्द्रमसौ द्वौ सूर्यौ जम्बूद्वीपे, लवणसमुद्रे तावेकौ सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारश्चन्द्राश्चत्वारश्च सूर्या लवणसमुद्रे भवन्तीति भावः, लावणिका - लवणसमुद्रभवा राशिसूरास्त्रिगुणिता धातकीखण्डे भवन्ति, द्वादश चन्द्रा द्वादश सूर्या धातकीखण्डे भवन्तीत्यर्थः । दो चंदा इह दीवे चत्तारि य सायरे लवणतोए । धायइसंडे दीवे बारस चंदा य सूराय ॥ मू. (१८३) वृ. 'दो चंदा' इत्यादि सुगमं । मू. (१८४) २९२ धातइसंडप्पभितिसु उद्दिट्ठा तिगुणिता भवे चंदा । आदिल्लचंदसहिता अनंतरानंतरे खेत्ते ॥ वृ. ‘धायइसंडे’इत्यादि, धातकीखण्डः प्रभृति - आदिर्येषां ते धातकीखण्डप्रभृतयस्तेषु धातकीखण्डप्रभृतिषु द्वीपेषु समुद्रेषु च य उद्दिष्टाश्चन्द्रा द्वादशादय उपलक्षणमेतत् सूर्या वा ते त्रिगुणिताः - त्रिगुणीकृताः सन्तः 'आइल्लचंदसहिय' त्ति उद्दिष्टचन्द्रयुक्तात् द्वीपात् समुद्राद्वा प्राक् जम्बूद्वीपमादिं कृत्वा ये प्राक्तनाश्चन्द्रास्ते आदिमचन्द्रास्तैरादिमचन्द्रैरुपलक्षणमेतदादिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरे - कालोदादौ भवन्ति । तत्र धातकीखण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः षटूत्रिंशत्, आदिम - चन्द्राः षट्, तद्यथा द्वौ चन्द्र जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमैश्चन्द्रैः सहिता द्वाचत्वारिंशद् भवन्ति, एतावन्तः कालोदे समुद्रे चन्द्राः, एष एव करणविधि सूर्याणामपि तेन सूर्या अपि तत्रैतावन्तो वेदितव्याः, तथा कालोदसमुद्रे द्विचत्वारिंशच्चन्द्रमस उद्दिष्टास्ते त्रिगुणाः क्रियन्ते, जातं षड्विंशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा - द्वौ जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे एतैरादिमचन्द्रैः सहितं षड्विंशं शतं जातं चतुश्चत्वारिंशं शतं एतावन्तः पुष्करवरद्वीपे चन्द्रा एतावन्त एव सूर्या, एवं सर्वेष्वपि द्वीपसमुद्रेषु एतत्करणवशाच्चन्द्रसङ्ख्या प्रतिपत्तव्या । रिक्खग्गहतारग्गं दीवसमुद्दे जहिच्छसी नाउं । तस्ससीहिं तग्गुणितं रिक्खग्गहतारगग्गं तु ।। मू. (१८५) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy