________________
२९४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१७६ चतुरंगुलमसंपत्तं हिचा चंदस्स तं चरति ॥ वृ. 'किण्ह'मित्यादि, इह द्विविधो राहुस्तद्यथा-पर्वराहुः नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानंच अन्तरितं करोति, अन्तरितेच कृते लोके ग्रहणमिति प्रसिद्धि, स इह न गृह्यते, यस् नित्यराहुस्तस्य विमानं कृष्णं, तच्च तथा- जगत्स्वाभाव्यात् चन्द्रेण सह नित्यं-सर्वकालमविरहितं तथा चतुरङ्गुलेन-चतुर्भिरगुलैरप्राप्तं सत्चन्द्रविमानस्याधस्ताच्चरति, तच्चैवंचरत् शुक्लपक्षे शनैः शनैःप्रकटीकरोतिचन्द्रमसं कृष्णपक्षे च शनै, शनैरावृणोति, तथा चाहमू. (१७७) बावडिं २ दिवसे २ तु सुक्कपक्खस्स।
जं परिवहति चंदो खवेइतं चेव कालेणं। वृ. 'बावहिमित्यादि, इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौभागावुपरितनावपाकृत्य शेषस्य पञ्चदशभिर्भागेहते ये चत्वारोभागा लभ्यन्ते तेद्वाषष्टिशब्देनोच्यन्ते, 'अवयवेसमुदायोपचारात्', एतच्च व्याख्यान् जीवाभिगमचूण्यार्दिदर्शनतः कृतं, नपुनः स्वमनीषिकया,तथाचास्या एव गाथाया व्याख्याने जीवाभिगमचूर्णि-"चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भायो ह्रियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, शेषौ द्वौ भागौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणामुच्यते" इत्यादि, एवंच सतियत् समवायाङ्गसूत्र-'सुक्कपक्खस्स दिवसे २ चंदो बावडिं भागे परिवड्डइत्ति तदप्येवमेव व्याख्येयं, सम्प्रदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत्-यस्मात्कारणात् चन्द्रो द्वाषष्टि :२ भागान्-द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, 'कालेन' कृष्णपक्षेनपुनर्दिवसेदिवसेतानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरोभागान्क्षपयति-परिहापयति मू. (१७८) पन्नरसइभागेण य चंदं पन्नरसमेव तं वरति ।
. पन्नरसतिभागेण य पुणोवितंचेव वक्कमति ॥
वृ.एतदेवव्याचष्टे-‘पन्नरस'इत्यादि, कृष्णपक्षेप्रतिदिवसराहुविमानस्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति-आच्छादयति, शुक्लपक्षेतु पुनस्तमेव प्रतिदिवसं पञ्चदशभागंआत्मीयेन पञ्चदशभागेन व्यतिक्रमति-मुञ्चति, किमुक्तंभवति?-कृष्णपक्षेप्रतिपद आरभ्यात्मीयेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । मू. (१७९) एवं वड्डति चंदो परिहाणी एव होइ चंदस्स।
कालो वा जुण्हो वा एवऽनुभावेण चंदस्स। वृ.तथाचाह-‘एवं वड्डइ'इत्यादि, एवं-राहुविमानेन प्रतिदिवसंक्रमेणानावरणकरणतो वर्द्धते-वर्द्धमानःप्रतिभासते चन्द्रः, एवं-राहुविमानेन प्रतिदिवसंक्रमणावरणकरणतःप्रतिहानिप्रतिहानिप्रतिभासो भवतिचन्द्रस्य विषये, एतेनैवानुभावेन-कारणन एकः पक्षः-कृष्णो भवति, यत्र चन्द्रस्य परिहानि प्रतिभासते, एकस्तु ज्योत्स्नः-शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः ।
मू. (१८०) अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org