________________
२९१
प्राभृतं १९, प्राभृतप्राभृतं - पङ्क्तिर्भवति षट्षष्टिः-षट्षष्टिनक्षत्रप्रमाणा इत्यर्थः, तथाहि-अस्मिन् किल जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य राशिनः परिवारभूतानि अभिजिदादीन्यष्टाविंशतिनक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूतानि अष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येवनक्ष-त्राणिक्रमेणव्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यदभिजिन्नक्षत्रतत्समश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रेलवणसमुद्रे षट्यातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्करा॰इति सर्वसङ्ख्ययाषष्टिरभिजिन्नक्षत्राणिपङ्कत्याव्यवस्थितानि, एवं श्रवणादीन्यपि दक्षिण-तोऽर्द्धभागेपङ्क्त्या व्यवस्थितानिषट्षष्टिसङ्ख्याकानि भावनीयानि, उत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते उत्तरभागे एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रेषट्घातकीखण्डे एकविंशतिकालोदेषट्त्रिंशत् पुष्कराः, एवं श्रवणादिपङक्तयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशनक्षत्राणां पङ्क्त्यः , एकैका च पङ्क्तिषट्षष्टिसङ्खयेति 'छावट्ठी'त्यादि। मू. (१६८) छावत्तरंगहाणं पंतिसयं हवति मणुयलोयंमि।
छावडिं २ हवइ य एक्केकया पंती॥ वृ.ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोकेषट्सप्तत्यधिकंपङ्क्तिशतं एकैका चपङ्क्तिर्भवति षट्षष्टि-षट्षष्टिग्रहसङ्ख्या, अत्रापीयंभावना-इह जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य राशिनः परिवारभूता अङ्गारकप्रभृतयोऽष्टाशीतिर्ग्रहाः, उत्तरोऽर्द्धभागे द्वितीयस्य राशिनः परिवारभूता अङ्गारकप्रभृतय एवाष्टाशीति, तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभागे एव द्वावङ्गारकौ लवणसमुद्रे षट्घातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे इतिषट्षष्टि-एवं शेषाअपि सप्ताशीतिर्ग्रहाः पङ्क्त्या व्यवस्थिताःः प्रत्येकंषट्ष,ष्टिर्वेदितव्याः, एवमुत्तरतोऽप्यर्द्धभागेअङ्गारकप्रभृतीनामष्टाशीतेर्ग्रहाणांपङ्क्त्यः प्रत्येकं षट्षष्टिसङ्ख्याका भावनीया इति भवतिसर्वसङ्ख्यया ग्रहाणांषट्सप्ततंपङ्क्तिशतमेकैका च पङ्क्तिषट्षष्टिसङ्ख्याकेति। मू. (१६९) ते मेरुयणुचरंता पदाहिणावत्तमंडला सव्वे।
अणयवट्ठियजोगेहिं चंदा सूरा गहगणा य ।। वृ. 'ते मेरुमनुचरंती'त्यादि, ते मनुष्यलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्या सर्वे च ग्रहगणा अनवस्थितैः यथायोगमन्यैरन्यैर्रनक्षत्रेणसहयोगैरुपलक्षिताः ‘पयाहिणावत्तमंडला' इतिप्रकर्षणसर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षइण एव मेरुर्भवति यस्मिन्नावर्त्तने- मण्डलपरिभ्रमणरूपेसप्रदक्षिणः प्रदक्षिणावर्तो येषां मण्डलानांतानितथा प्रदक्षिणावर्तानिमण्डलानि येषांते तथा, मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ताअपिमनुष्यलोकवर्तिनः प्रदक्षिणावर्तमण्डलगत्यापरिभ्रमन्तीति,इहचन्द्रादित्यग्रहाणांमण्डलानि अनवस्थितानि, यथायोगमन्यस्मिन् अन्यस्मिन् मण्डले येषां सञ्चारित्वात्। मू. (१७०) नखत्ततारगाणं अवहिता मंडला मुणेयव्वा।
तेऽविय पदाहिणावत्तमेव मेरुं अनुचरंति ॥ वृ. नक्षत्रताराणां तु मण्डलान्यवस्थितान्येव, तथा चाह-'नक्खत्ते'त्यादि, नक्षत्राणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org