SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१७० तारकाणांचमण्डलानयवस्थितानि ज्ञातव्यानि, किमुक्तं भवति?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च प्रत्येकं मण्डलमिति, न चेत्थमवस्थितमण्डलत्वोक्तावेवमाशङ्क्त्तीयं यथैतेषां गतिरेव न भवतीति, यत आह-'तेऽविय'इत्यादि, तान्यपि-नक्षत्राणितारकाणि च, सूत्रे पुंस्त्व-निर्देशःप्राकृतत्वात्, प्रदक्षिणावर्त्तमेव, इदंक्रयाविशेषणं, मेरुमनुलक्षीकृत्य चरन्ति, एतच्च मेरुं लक्षीकृत्य प्रदक्षिणावर्त तेषां चरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि । मू. (१७१) रयणिकरदिणकराणं उद्धं च अहे व संकमो नत्थि। मंडलसंकमणं पुण सम्भंतरबाहिरं तिरिए॥ वृ. 'रयणियरे' त्यादि, रजनिकरदिनकराणां-चन्द्रादित्यानामूर्ध्वमधश्चसङ्क्रमोन भवति, तथाजगत्स्वाभाव्यात्, तिर्यक् पुनर्मण्डलेषुसङ्क्रमणंभवति, किंविशिष्टमित्याह-साभ्यन्तरबाह्यंअभ्यन्तरं च बाह्यं च अभ्यन्तरबाह्यं सहाभ्यन्तरबाह्येन वर्तते इति साभ्यन्तरबाह्यं, एतदुक्तं भवतिसर्वाभ्यन्तरान्मण्डलात्परतः तावन्मण्डलेषु सङ्क्रमणं यावत् सर्वबाह्यमण्डलं सर्वबाह्याच्च मण्डलादाक् तावन्मण्डलेषु सङ्क मणं यावत् सर्वाभ्यन्तरमिति । मू. (१७२) रयणिकरदिनकराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविधी मणुस्साणं॥ वृ. 'रयणियरे'त्यादि, रजनिकरदिनकराणां-चन्द्रादित्यानां नक्षत्राणां च महाग्रहाणांच चारविशेषेण-तेन तेन चारेण सुखदुःखविधयो मनुष्याणां भवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणांकमणि, तद्यथा-शुभवेद्यानिअशुभवेद्यानि च,कर्मणांच सामान्यतो विपाकहेतवः पञ्च, तद्यथा-द्रव्यं क्षेत्रं कालो भावो भवश्च, उक्तं च॥१॥ "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। दव्वं च खेत्तं कालं भवंच भावंच संपप्प ॥" शुभकर्मणां प्रायःशुभवेद्यानांच कर्मणांशुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुरशुभवेद्यानामशुभद्रव्यक्षेत्रादिसामग्री, ततो यद येषां जन्मनक्षत्रादिविरोधी चन्द्रसूर्यादीनां चारो भवति तदा तेषांप्रायो यान्यशुभवेद्यानिकर्माणितानितांतथाविधां विपाकसामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानिच शरीररोगोत्पादनेनधनहानिकरणतोवाप्रियविप्रयोगजननेन वा कलहसंपादनतो वा दुःखमुत्पादयन्ति, यदाच येषांचन्मनक्षत्राद्यनुकूलः चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानिकर्माणितानितांतथाविधां विपाकसामग्रीमधिगम्य विपाकंप्रतिपद्यन्ते, प्रपन्नविपाकानि चतानि शरीरनीरोगतासम्पादनतोधनवृद्धिकरणेन वा वैरोपशमनतः प्रियसम्प्रयोगसम्पादनतो वायदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभन्तेन तुयथाकथंचन, अतएव जिनानामप्याज्ञा प्रव्राजनादिकमधिकृत्येस्थमवर्त्तिष्टयथा शुभक्षेत्रे शुभांदिशमभिमुकीकृत्य शुभेतिथिनक्षत्रमुहूर्तादौ प्रव्राजनव्रतारोपणादि कर्त्तव्य, नान्यथा, तथा चोक्तं पञ्चवस्तुके॥१॥ "साजिणाणमाणा खित्ताईया य कम्मणो भणिया। उदयाइकारणं जं तम्हा सव्वत्थ जइयव्वं ॥" अस्या अक्षरगमनिका-एषा जिनानामाज्ञा शुभे क्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy