________________
२४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/२ /२२ 'तस्साइपएस्साए०' इति तस्य-दक्षिणदिग्भाविनस्तृतीयस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'अभितरं तचंति सर्वाभ्यन्तरमण्डलमपेक्ष्य तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारंचरति,अत्रापितथाचारंचरति आदिप्रदेशादूर्ध्वंशनैः शनैरपरमण्डलाभिमुखं येन तस्याहोरात्रस्यपर्यन्ते तन्मण्डलगतानष्टाचत्वारिंशद्योजनैकषष्टिभागानपरे च द्वेयोजनेअपहाय चतुर्थस्योत्तरार्द्धमण्डलस्यसीमायामवतिष्ठते, ‘ता जयाण'मित्यादि, ततोयदाणमितिपूर्ववत् सर्वाभ्यन्तरान्मण्डलात्तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति तदा अष्टादशमुहूर्तो दिवसोभवति चतुर्भिर्मुहूर्तेकषष्टिभागैरूनो द्वादशमुहूर्तारात्रि चतुर्भिर्मुहूर्तेकषष्टिभागैरभ्यधिका, “एवं खलु' इत्यादि एवं-उक्तनीत्याखलु-निश्चितमेतेनोपायेन प्रत्यहोरात्रमष्टाचत्वारिंशद्योजनैकषष्टि-भागाभ्यधिकयोजनद्वयविकम्पनरूपेण निष्क्रमन् सूर्यस्तदनन्तरादर्द्धमण्डलात्तदनन्तरंतस्मिन् २ देशे-दक्षिणपूर्वभागे उत्तरपश्चिमभागेवातांतां-अर्द्धमण्डलसंस्थितिं सङ्कमन् २ द्वयशीत्यधिकशततमाहोरात्रपर्यन्ते गते दक्षिणस्मात्-दक्षिणदिग्भाविनोऽन्तरात् द्व्यशीत्यधिकशततममण्डलगताटाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भागात।
'तस्साइपएसाए'इति तस्य-सर्वबाह्यमण्डलगतस्योत्तरस्यार्द्धमण्डलादिप्रदेशमाश्रित्य सर्वबाह्यामुत्तरार्द्धमण्डलसंस्थितिमुपसंक्रङ्कम्य चारं चरति, स चादिप्रदेशादूर्ध्वं शनैः २ सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलाभिमुखंतथा कथंचनापिचरति येन तस्याहोरात्रस्यपर्यन्ते सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलसीमायां भवति, ततोयदा णमितिपूर्ववत् सूर्य सर्वबाह्यामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति, तत्र उत्तमकाष्ठा प्राप्ता उत्कर्षिका उत्कृष्टा अष्टादशमुहूर्ता रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तो दिवसः, ‘एस णमित्यादि, निगमनवाक्यं प्राग्वत् । ‘स पविसमाणे' इत्यादि, सूर्य सर्वबाह्योरार्द्धमण्डलादिप्रदेशादूर्ध्व शनैः शनैः सर्वबाह्यानन्तरद्वितीयदक्षिणार्द्धमण्डलाभिमुक सङ्क मन् तस्मिन्नेवाहोरात्रेऽतिक्रन्ते सति अभ्यन्तरं प्रविशद्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविसर्ववाह्य-मण्डलगतादन्तरात् सर्वबाह्यान्तरार्द्धमण्डलगताटाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तरार्वाग्भावियोजनद्वयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए' इति तस्य-दक्षिणदिग्भाविनः सर्वबाह्यानन्तरस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य ।
'बाहिरानंतरं'ति सर्ववाह्यस्य मण्डलस्यानन्तरामभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति, अत्रापि चार आदिप्रदेशादूर्ध्वं तथा कथंचनाप्यभ्यन्तराभिमुखं वर्तते येनाहोरात्रपर्यन्ते सर्वबाह्यान्मण्डलादभ्यन्तरस्य तृतीयार्द्धमण्डलस्य सीमायां भवति, ‘ता जया ण'मित्यादि, ततोयदा सूर्योवाह्यानन्तरां-सर्वबाह्यान्ण्डलादभ्यन्तरस्य तृतीयार्द्धमण्डलस्य सीमायां भवति, ताजयान'मित्यादि, ततोयदा सूर्यो वाह्यानन्तरां-सर्वबाह्यादनन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारंचरतितदा अष्टादशमुहूर्ता रात्रिीभ्यां मुहूर्तेकषष्टिभागाभ्यामूना भवति, द्वादशमुहूर्तप्रमाणो दिवसो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकः ।
‘से पविसमाणे' इत्यादि, ततस्तस्मिन्नहोरात्रेऽतिक्रान्ते सति सूर्योऽभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रेदक्षिणस्माद्भागादक्षिणदिग्भाविनोऽन्तराद्दक्षिणदिग्भाविसर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org