SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं -२ णं दोच्चे छम्मासे, एस णं दोच्चस्स छमासस्स पञ्जवसाणे, एस णं आदिच्चे संवच्छरे, एस णं आदिच्चसंवच्छरस्स पज्जवसाणे। वृ. ‘ता कहं ते' इत्यादि, 'ता' इति क्रमार्थ, पूर्ववभावनीयः, कथं' केन प्रकारेण भगवन् 'ते' तव मते 'अर्द्धमण्डलसंस्थिति' अर्द्धमण्डलव्यवस्था आख्यातेति वदेत्, पृच्छतश्चायमभिप्रायः-इह एकैकः सूर्य एकैकेनाहोरात्रेणैकैकस्य मण्डलस्यार्द्धमेव भ्रमणेन पूरयति, ततः संशयः-कथमेकैकस्य सूर्यस्य प्रत्यहोरात्रमेकैकार्द्धमण्डलपरिभ्रमणव्यवस्थेति पृच्छति, अत्र भगवान्प्रत्युत्तरमाह-'ता खलु'इत्यादि, 'ता'इति तत्रार्द्धमण्डलव्यवस्थाविचारेखलु-निश्चितमिमे द्वे अर्द्धमण्डलसंस्थिती मया प्रज्ञप्ते, तद्यथा-एका दक्षिणा चैव-दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थिति-अर्द्धमण्डलव्यवस्था द्वितीया उत्तरा चैव-उत्तरदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थिति, एवमुक्तेऽपि भूयः पृच्छति 'ता कहं ते' इत्यादि, इह द्वे अपिअर्द्धमण्डलसंस्थिती ज्ञातव्ये तत्रेदं तावत्पृच्छामि-कथं त्वया भगवन् ‘दक्षिणा'दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थितिराख्याता इति वदेत् ?, भगवानाह-'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं प्रागिव स्वयं परिपूर्ण परिभावनीयम्, 'ताजयाण मित्यादि, तत्र यदा, णमितिवाक्यालङ्कारे, सूर्य सर्वाभ्यन्तरां-सर्वाभ्यन्तरमण्डलगतां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति तदा णमिति पूर्ववत्, उत्तमकाष्ठाप्राप्तःपरमप्रकर्षप्राप्तः, उत्कर्षक-उत्कृष्टोऽष्टादशमुहूर्तो दिवसोभवति, जघन्याच द्वादशमुहूर्ता रात्रि, इह सर्वाभ्यन्तरे मण्डले प्रविष्टः सन् प्रथमक्षणादूर्ध्वं शनैः शनैः सर्वाभ्यन्तरानन्तरद्वितीयमण्डलाभिमुखं तथा कथंचनापि मण्डलगत्या परिभ्रमति येनाहोरात्रपर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशदेकषष्टिभागानपरेचद्वे योजने अतिक्रम्यसर्वाभ्यन्तरानन्तरद्वितीयोत्तरार्द्धमण्डलसीमायां वर्तते, तथा चाह_ 'सेनिक्खममाणे' इत्यादि ससूर्यः सर्वाभ्यन्तरगतात्प्रथमक्षणादूर्ध्वं शनैः शनैर्निष्क्रमन् अहोरात्रेऽतिक्रान्ते सति नवम्-अभिनवं संवत्सरमाददानो नवस्य प्रथमेऽहोरात्रे दक्षिणस्माद्-दक्षिणदिग्भाविनोऽन्तरात्-सर्वाभ्यन्तरमण्डलगताटाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकयोजनद्वयप्रमाणापान्तालरूपाद्विनिर्गत्य 'तस्सादिपएसाए'इतितस्य-सर्वाभ्यन्तरानन्तरस्योत्तरार्द्धमण्डलस्यादिप्रदेशमाश्रित्याभ्यन्तरानन्तरां-सर्वाभ्यन्तरमण्डलानन्तरामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्कम्यचारंचरति, सचादिप्रदेशादूर्ध्वंशनैः शनैरपरमण्डलाभिमुखमत्रापि तथा कथञ्चनापिचरतियेन तस्याहोरात्रस्य पर्यन्तेतदपिमण्डलमन्येच द्वेयोजने परित्यज्य दक्षिणदिग्भाविनस्तृतीयस्य मण्डलस्य सीमायां भवति, ‘ता जया ण'मित्यादि, ततो यदा सूर्य सर्वाभ्यन्तरानन्तरां द्वितीयामुत्तरामर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति तदा दिवसोऽष्टादशमुहूर्तों द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनो भवति, जघन्या च द्वादशमुहूर्ता रात्रि द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामभ्यधिका, ततस्तस्या अपि द्वितीयस्या उत्तरार्द्धमण्डलसंस्थितेरुक्तप्रकारेण स सूर्यो निष्क्रमन् अभिनवस्य सूर्यसंवत्सरस्य द्वितीयेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविनोऽन्तराद् द्वितीयोत्तरार्द्धमण्डलगताष्टाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद् विनिसृत्य। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy