SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं - २ वाह्या - नन्तर द्वितीय मण्डलगताष्टाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तरार्वाम्भावियोजनद्वयप्रमाणादपान्तरा-लरूपाद्भागाद्विनिसृत्य 'तस्साइपएसाए' इति तस्य - सर्वबाह्यादभ्यन्तरस्य तृतीयस्योत्तरार्द्धमण्डलस्यादिप्रदेशात्-आदिप्रदेशमाश्रित्य बाह्यतृतीयां सर्वबाह्याया अर्द्धमण्डलसंस्थितेस्तृतीयामुत्तरामर्द्धमण्डलसंस्थितिमुपसंक म्य चारं चरति, अत्राप चार आदिप्रदेशादारभ्य शनैः शनैरपरार्द्धमण्डलाभिमुखं तथा कथंचनापि प्रवर्त्तमानो द्रष्टव्यो येन तदहोरात्रपर्यन्ते सर्वबाह्यादर्द्धमण्डलात्त तीयामर्वाक्तनीमर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्त्ता रात्रिश्चतुर्भिर्मुहूर्तेकषष्टिभागैरुना भवति, द्वादशमुहूर्त्तश्च दिवसश्चतुर्भिर्मुहूर्तेकषष्टिभागैरभ्यधिकः २५ 'एव' मित्यादि, एवम् उक्तप्रकारेण खलु निश्चितेतेनोपायेन - प्रत्योहार्त्रमभ्यन्तरमष्टाचत्वारिंशद्योजनैकषष्टिभागयोजनद्वयविकम्पनरूपेण शनैः शनैरभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराद् अर्द्धमण्डलात् तदनन्तरां तस्मिन् २ प्रदेशे दक्षिणपूर्वभागे उत्तरापरभागे वा तां तामर्द्धमण्डलसंस्थितिं सङ्क्रमन् द्वितीयस्य षण्मासस्य द्व्यशीत्यधिकशततमाहोरात्रपर्यन्ते गते उत्तरस्मादुत्तरदिग्भाविनोऽन्तरात्सर्वबाह्यमण्डलमपेक्ष्य यद् द्व्यशीत्यधिकशततमं मण्डलं तद्गताष्टाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तराभ्यन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए' इति तस्य - सर्वाभ्यन्तरमण्डलगतस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क भ्य चारं चरति, स चादिप्रदेशादूर्ध्वं शनैः शनैः सर्वाभ्यन्तरानन्तर बाह्येोत्तरार्द्धमण्डलाभिमुखं तथा कथञ्चनापि चारं प्रतिपद्यसे येन तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति, 'ता जया 'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क ग्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकः - उत्कृष्टः अष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, सर्वजघन्या च द्वादशमुहूर्त्ता रात्रि, 'एसण' मि० निगमनवाक्यं प्राग्वत्, तदेवमुक्ता दक्षिणा अर्द्धमण्डलसंस्थिति मू. (२३) ता कहं ते उत्तरा अद्धमंडलसंठिती हितातिवदेज्जा ?, ता अयं णं जंबुद्दीवे दीवे सव्वदीवजावपरिक्खेवेणं । ता जता णं सूरिए सव्वब्भंतरे उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उक्कसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेव णवरं उत्तरट्ठिओ अब्भितरानंतरं दाहिणं उवसंकमइ, दाहिणातो अब्भितरं तच्चं उत्तरं उवसंकमति । एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति २ त्ता दाहिणाओ बाहिरानंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तच्चं दाहिणं तच्चातो दाहिणातो संकममाणे २ जाव सव्वब्भंतरं उवसंकमति, तहेव । एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे, एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे गाहाओ । वृ. साम्प्रतमुत्तरामर्द्धमण्डलसंस्थितिं जिज्ञासुः प्रश्नयति 'ता कहं ते' इत्यादि, एतव्प्राग्वद् व्याख्येयं, 'ताजया ण' मित्यादि, ततो यदा सूर्य सर्वाभ्यन्तरामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्ती दिवसो भवति, जघन्या च द्वादशमुहूर्त्ता रात्रि, 'जहा दाहिणा तह चेत्ति यथा दक्षिणा अर्द्धमंण्डले व्यवस्थिति प्रागभिहिता तथा चैव तेनैव For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy