________________
प्राभृतं १४, प्राभृतप्राभृतं -
२५९
ता इति पूर्ववत् कियती ज्योत्स्नापक्षे ज्योत्स्ना आख्याता इति वदेत् ?, भगवानाह - परीत्ता:परिमिताश्च असङ्ख्येया भागा निर्विभागाः । एवमन्धकारसूत्राण्यप्युक्तानुसारेण भावनीयानि, नवरमन्धकारपक्षेऽमावास्यायां योऽन्धकारः स ज्योतस्नापक्षादधिक इति ज्योत्स्नापक्षादन्धकारपक्षेऽन्धकारः प्रभूत आख्यात इति वदेत् ॥
प्राभृतं - १४ समाप्तम्
प्राभूतं - १५
बृ. तदेवमुक्तं चतुर्द्दशं प्राभृतं, सम्प्रति पञ्चदशमारभ्यते-तस्य चायमर्थाधिकारो यथा- 'कः शीघ्रगतिर्भगवन्! आख्यात' इति ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (999 ) ता कहं ते सिग्घगती वत्थू आहितेति वदेज्जा ?, ता एतेसि णं चंदिमसूरियगहगणनक्खत्ततारारूवाणं चंदेहिंतो सूरे सिग्घगती सूरेहिंतो गहा सिग्घगती गहेहिंतो नक्खत्ता सिग्घगती नक्खत्तेहिंतो तारा सिग्घगत, सव्वप्पगती चंदा सव्वसिग्घगती तारा ।
ता एगमेगेणं मुहुत्तेणं चंदे केवतियाई भागसताइं गच्छति ?, ताजं जं मंडलं उवसंकमित्ता चारं चरति तस्स २ मंडलपरिक्खेवस्स सत्तरस अडसट्ठि भागसते गच्छति, मंडलं सतसहस्सेणं अट्टानउतीसतेहिं छेत्ता, ता एगमेगेणं मुहुत्तेणं सूरिए केवतियाई भागसयाई गच्छति, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स २ मंडलपरिक्खेवस्स अट्ठारस तीसे भागसते गच्छति, मंडल सतसहस्सेणं अट्ठानउतीसतेहिं छेत्ता । ता एगमेगेणं मुहुत्तेणं नक्खत्ते केवतियाइं भागसताई गच्छति ?, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स २ मंडलस्स परिक्खेवस्स अट्ठारस पणतीसे भागसते गच्छति, मंडलं सतसहस्सेणं अट्ठानउतीसतेहिं छेत्ता ।।
वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं भगवन् ! त्वया चन्द्रसूर्यादिकं वस्तु शीघ्रगति आख्यातं इति वदेत् ? भगवानाह - 'ता एएसि ण 'मित्यादि, एतेषां - चन्द्रसूर्यग्रहनक्षत्रतारकाणां पञ्चानां मध्ये चन्द्रेभ्यः सूर्या शीघ्रगतयः, सूर्येभ्योऽपि ग्रहाः शीघ्रगतयो ग्रहेभ्योऽपि नक्षत्राणि शीघ्रगतीनि नक्षत्रेभ्योऽपि ताराः शीघ्रगतयः, अत एवैतेषां पञ्चानां मध्ये सर्वाल्पगतयश्चन्द्राः सर्वशीघ्रगतयस्ताराः ।
एतस्यैवार्थस्य सविशेषपरिज्ञानाय प्रश्नं करोति - 'ता एगमेगेण' मित्यादि, ता इति पूर्ववत्, एकैकेन मुहूर्त्तेन चन्द्रः कियन्ति मण्डलस्य भागशतानि गच्छति ?, भगवानाह - 'ताजं ज' मित्यादि, यत् यत् मण्डलमुपसङक्रम्य चन्द्रश्चारं चरति तस्य तस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेः सप्तदश शतान्यष्टषष्ट्यधिकानि भागानां गच्छति, मण्डलं-मण्डलपरिक्षेपमेकेन शतसहस्रणाधनवत्या च शतैश्चित्वा-विभज्य, इयमत्र भावनाइह प्रथमतश्चन्द्रमसो मण्डलकालो निरूपणीयः तदनन्तरं तदनुसारेण मुहूर्त्तगतिपरिमाणं परिभावनीयं, तत्र मण्डलकालनिरूपणार्थमिदं त्रैराशिकंयदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवर्त्तिभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां-
एकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेर्गुणनं, जातानि षट्त्रिंशत्सहस्राणि षष्ट्यधिकानि तेषामाद्येन राशिना भागहरणं,
Jain Education International
www.jainelibrary.org
"
For Private & Personal Use Only