________________
२६०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/१११
,
लब्धे द्वे रात्रिन्दिवे, शेषं तिष्ठति चतुर्विंशत्यधिकं शतं तत्रैकैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि तेषां सप्तदशभिः शतैरष्टषष्ट्यधिकैः भागे हृते लब्धौ द्वौ मुहूर्त्ती, ततः शेषच्छेद्यराशिच्छेदकराश्योरष्टकेनापवर्त्तना जातश्छेद्यो राशिस्त्रयोविंशति छेदक- राशिर्द्वे शते एकविंशत्यधिके, आगतं मुहूर्त्तस्यैकविंशत्यधिकशतद्वयभागास्त्रयोविंशति ।
एतावता कालेन द्वे अर्द्धमण्डले परिपूर्णे चरति, किमुक्तं भवति ? - तावता कालेन परिपूर्णमेकं मण्डलं चन्द्रश्चरति, तदेवं मण्डलकालपरिज्ञानं कृतं, साम्प्रतमेतदनुसारेण मुहूर्त्तगतिपरिमाणं चिन्त्यते-तत्र ये द्वे रात्रिन्दिवे ते मुहूर्त्तकरणार्थं त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्त्ताः, तत उपरितनौ द्वौ मुहूर्तौ प्रक्षिप्तौ जाता द्वाषष्टिः, एषा सवर्णनार्थं द्वाभ्यां शताभ्याम- कविंशत्यधिकाभ्यां गुण्यते गुणयित्वा चोपरितना त्रयोविंशति क्षिप्यते जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि, एतत् एकमण्डलकालगतमुहूर्त्तसत्कैकविंशत्यधिकशतद्वयभागानां परिमाणं ।
?
ततस्त्रैराशिककर्म्मावसरो - यदि त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मण्डलभागा एकं शतसहस्रमष्टानवतिः शतानि लभ्यन्ते त एकेन मुहूर्तेन किं लभामहे ? इहाद्यो राशिर्मुहूर्त - गतैकविंशत्यधिकशतद्वय भागरूपस्ततः सवर्णनार्थमन्त्यो राशिरेककलक्षणो द्वाभ्यां शता- भ्यामेकविंशत्यधिकाभ्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके, ताभ्यां मध्यो राशिर्गुण्यते, जाते द्वे कोट्यौ द्विचत्वारिंशल्लक्षाः पञ्चषष्टि सहस्राण्यष्टौ शतानि तेषां त्रयोदशभिः सहस्रै सप्तभि शतैः पञ्चविंशत्यधिकैर्भागो हियते लब्धानि सप्तदश शतानि अष्टषष्ट्यधिकान, एतावतो भागान् यत्र तत्र वा मण्डले चन्द्रो मुहूर्त्तेन गच्छति । 'ता एगमेगेणे' त्यादि, ता इति पूर्ववत्, एकैकेन मुहूर्त्तेन सूर्य कियन्ति भागशतानि गच्छति भगवानाह -‘ताजं ज’मित्यादि, यत् यत् मण्डलमुपसङ्क्रम्य सूर्यश्चारं चरति तस्य तस्य मण्डलसम्भन्धघिनःपरिक्षेपस्य-परिधेरष्टादश भागशतानि त्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैश्छित्वा कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकवलात्, तथाहि - यदि षष्ट्या मुहूर्तेरेकं शतसहस्रमष्टानवति शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन कति भागान् लभामहे ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं जातः स तावानेव, 'एकेन गुणितं तदेव भवती 'ति वचनात्, ततस्तस्याद्येन राशिना षष्टिलक्षणेन भागो हियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि, एतावतो भागान् मण्डलस्य सूर्यएकैकेन मुहूर्त्तेन गच्छति । 'ता एगमेगेण 'मित्यादि, ता इति पूर्ववत्, एकैकेन मुहूर्त्तेन कियतो भागान् मण्डलस्य नक्षत्रं गच्छति ?, भगवानाह - 'ता जंज' मित्यादि, यत् यत् आत्मीयमाकालप्रतिनियतं मण्डलमुपसङ्क्रम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य- परिधेरष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्याच शतैश्छित्वा, इहापि प्रथमतो मण्डलकालो निरूपणीयः यतस्तदनुसारेणैव मुहूर्ततगतिपरमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिकं - यद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकैः सकलयुगभाविभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां एकैकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org