SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्राकृतं १३, प्राभृतप्राभृतं २५३ एकश्चन्द्रमा दक्षिणभागादभ्यन्तरं प्रविशन् द्वितीयमण्डलमाक्रम्य चारं चरति, सच पाश्चात्ययुगपरिसमाप्तिदिवसे उत्तरस्यां दिशि चारं चरति - चारं चरितवान् स वेदितव्यः । ततः स तस्मात् द्वितीयात् मण्डलात् शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयेऽहोरात्रे उत्तरस्यां दिशि सर्वदाह्यान्मण्डलादभ्यन्तरं तृतीयमर्द्धमण्डलमाक्रम्य चारं चरति, तृतीये अहोरात्रे दक्षिणस्यां दिशि चतुर्धमर्द्धमण्डलं चतुर्थे अहोरात्रे उत्तरस्यां दिशि पञ्चममर्द्धमण्डलं पञ्चमे अहोरात्रे दक्षिणस्यां दिशि पटमर्द्धमण्डलं षष्ठे अहोरात्रे उत्तरस्यां दिशि सप्तममर्द्धमण्डलं सप्तमे अहोरात्रे दक्षिणस्यां दिशि अष्टममर्द्धमण्डलमष्टमेऽहोरात्र उत्तरस्यां दिशि नवममर्द्धमण्डलं नवमे अहोरात्रे दक्षिणस्यां दिशि दशममर्द्धमण्डलं दशमे अहोरात्रे उत्तरस्यां दिशि एकादशममर्द्धमण्डलमेकादशे अहोरात्रे दक्षिणस्यां दिशि द्वादशमर्द्धमण्डलं द्वादशे अहोरात्रे उत्तरस्यां दिशि त्रयोदशमर्द्धमण्डलं त्रयोदशेऽहोरात्रे दक्षिणस्यां दिशि चतुर्द्दशमर्द्धमण्डलं चतुर्द्दशे अहोरात्रे उत्तरस्यां दिशि पञ्चदशस्यार्द्धमण्डलं त्रयोदशेऽहोरात्रे दक्षिणस्यां दिशि चतुर्द्दशमर्द्धमण्डलं चतुर्द्दशे अहोरात्रे उत्तरस्यां दिशि पञ्चदशस्यार्द्धमण्डस्य त्रयोदशसप्तषष्टिभागानाक्रम्य चारं चरति, एतावता च कालेन चन्द्रस्यायनं परिसमाप्तं । चन्द्रायनं हि नक्षत्रार्द्धमासप्रमाणं तेन च नक्षत्रर्द्धमासेन चन्द्रचारे सामान्यतस्त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा लभ्यन्ते, तथाहि यदि चतुस्त्रिंशदधिकेना-यनशतेन सप्तदश शतान्यष्टषष्टिसहितानि मण्डलानां लभ्यन्ते तत एकेनायनेन किं लभामहे ?, राशित्रयस्थापना अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिर्गुण्यते जातः स तावानेव ततस्तस्याद्येन राशिना चतुस्त्रिंशदधिकशतरूपेण भागहरणं लब्धास्त्रयोदश शेषास्तिष्ठन्ति षड्विंशति तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना लब्धास्त्रयोदश सप्तषषष्टिभागा इति उक्तं च"तेरस य मंडलाणि य तेरस सत्तट्ठि चैव भागा य । 119 11 अयणेण चरइ सोमो नक्खत्तेणद्धमासेणं ।।" एतच्च सामान्यत उक्तं, विशेषचिन्तायां त्वेकस्य चन्द्रमसो युगस्य प्रथमे अयने यथोक्तेन प्रकारेण दक्षिणभागादभ्यन्तरं प्रवेशे द्वितीयादीन्येकान्तरितानि चतुर्द्दशपर्यन्तानि सप्तार्द्धमण्डलानि लभ्यन्ते, उत्तरभागादभ्यन्तरप्रवेशे तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षट् परिपूर्णान्यर्द्धमण्डलानि सप्तमस्य तुपञ्चदशमण्डलगतस्यार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाः, एतावता चयद्वक्ष्यति उत्तरभागादभ्यन्तरप्रवेशचिन्तायां 'तईए अद्धमंडले' इत्यादि सूत्रं तदपि भावितमेव, सम्प्रति दक्षिणभागादभ्यन्तरप्रवेशे यानि सप्तार्धमण्डलान्युक्तानि तदुपसंहारमाह 'एयाई' इत्यादि सुगमं । अधुना तस्यैव चन्द्रमसस्तस्मिन्नेव प्रथमेऽयने उत्तरभादादभ्यन्तरप्रवेशे यावन्त्यर्द्धमण्डलानि भवन्ति तावन्ति विवक्षुराह - 'ता पढमायणगए' इत्यादि, ता इति पूर्ववत्, प्रथमायनगते– युगस्यादौ प्रथममयनं प्रविष्टे चन्द्रे उत्तरभागादभ्यन्तरं प्रविशति षट् अर्द्धमण्डलानि भवन्ति सप्तमस्य चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागा यानि चन्द्र उत्तरभागादभ्यन्तरं प्रविशन् आक्रम्य चारं चरति । 'कयराई खलु' इत्यादि प्रश्नसूत्रं सुगमं 'इमाई खलु' इत्यादि निर्वचनसूत्रं एतच्च प्रागेव भावितं, 'एयाइं खलु’इत्यादि, निगमनवाक्यं निगदसिद्धं, 'एतावता' इत्यादि एतावता कालेन प्रथमं चन्द्रस्यायनं समाप्तं भवति, एतदपि प्राग्भावितं, तदेवं पाश्चात्ययुगपरिसमाप्तिचरमदिवसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy