SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०९ य उत्तरस्यां दिशि चारं चरतिवान् तस्याभिनवयुगपक्षे प्रथमेऽयने यावन्ति दक्षिणभागादभ्यन्तरप्रवेशेऽर्द्धमण्डलानि यावन्ति चोत्तरभागादभ्यन्तरप्रवेशेऽर्द्धमण्डलानि तावन्ति साक्षादुक्तानि, एतदनुसारेण द्वितीयस्यापि चन्द्रमसस्तस्मिन्नेव प्रथमे चन्द्रायणेऽर्द्धमण्डलानि वक्तव्यानि तानि चैवम् - स पाश्चत्ययुगपरिसमाप्तिचरमदिवसे दक्षिणदिग्भागे सर्वबाह्यमण्डले चारं चरित्वा अभिनवस्य युगस्य प्रथमेऽयने प्रथमेऽहोरात्रे उत्तरस्यां दिशि द्वितीयमर्द्धमण्डलं प्रविश्य चारं चरति, द्वितीयेऽहोरात्रे दक्षिणस्यां दिशि सर्वबाह्यात् तृतीयमर्द्धमण्डलं प्रविश्य चारं चरति तृतीयेऽहोरात्रे उत्तरस्यां दिशि चतुर्थमर्द्धमण्डलमित्यादि प्रागुक्तानुसरेण सकलमपि वक्तव्यं, तदेवमस्य चन्द्रमसः प्रथमेऽयने उत्तरभागादभ्यन्तरप्रवेशचिन्तायां द्वितीयादीन्येकान्तरितानि चतुर्द्दशपर्यन्तानि सप्तार्द्धमण्डलानि भवन्ति, दक्षिणभागादभ्यन्तरप्रवेशचिन्तायां तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षट् अर्द्धमण्डलानि भवन्ति, पञ्चदशस्य चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाः, एवं च सति यावान् चन्द्रस्यार्द्धमासस्तावान् नक्षत्रस्यार्द्धमासो न भवन्ति, किन्तु ततो न्यून इति सामर्थ्यात् द्रष्टव्यं, तथा चाह 'ता नक्खत्ते' इत्यादि, यद्येवमेकस्मिन्नयने नक्षत्रार्द्धमासरूपे सामान्यतश्चन्द्रमसस्त्रयोदश मण्डलानि चतुर्द्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाः 'ता' इति ततो नात्रोऽर्द्धमासञ्चान्द्रोऽर्धमासो न भवति, चान्द्रेऽर्द्धमासे चतुर्द्दशानां मण्डलानां पञ्चदशस्य च मण्डलस्य द्वात्रिंशतश्चतुर्विंशत्यधिकशतभागानां प्राप्यमाणत्वात्, इह नाक्षत्रोऽर्धमासश्चान्द्रोऽर्धमासो न भवतीत्युक्तौ नाक्षत्रोऽर्द्धमासश्चान्द्रोऽर्धमासो न भवति, यस्तु चान्द्रोऽर्धमासः स कदाचित् नाक्षत्रोऽप्यर्द्धमासः स्यात्, यथा ‘परमाणुरप्रदेश' इत्युक्तौ परमाणुरप्रदेश एव यस्तु अप्रदेशः स परमाणुरपि भवत्यपरमाणुश्च क्षेत्र प्रदेशादिरिति शङ्क्त स्यात् ततस्तदपनोदार्थमाह- चान्द्रोऽर्द्धमासोनाक्षत्रोऽर्धभासो न भवति, एवमुक्ते भगवान् गौतमो नाक्षत्रार्द्धमासचान्द्रार्द्धमासयोर्विशेषपरिज्ञानार्थमाह 'ता नक्खत्ताओ अद्धमासाओ' इत्यादि, 'ता' इति पूर्ववत्, नाक्षत्रात् अर्द्धमासात् ते - तव मतेन भगवन्! चन्द्रश्चान्द्रेणार्द्धमासेन किमधिकं चरति ?, भगवानाह - 'ता एग 'मित्यादि, एकमर्द्धमण्डलं द्वितीयस्य चार्द्धमण्डलस्य चतुरः सप्तषष्टिभागानेकस्य च सप्तषषटिभागस्य एकत्रिंशदधा विभक्तस्य सत्कान् नव भागानधिकं चरति, कथमेतदवसीयते इति चेत् !, उच्यते, त्रैराशिकवलात्, तथाहि--यदि चतुर्विंशत्यधिकेन शतेन सप्तदश शतानि अष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्व्वणा किं लभामहे ?, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते जातः स तावानेव तत आद्येन चतुर्विंशत्यधिकशतरूपेण राशिना भागहरणं छेद्यच्छेदकराश्योश्चतुष्केनापवर्त्तना लब्धानि चतुर्द्दश मण्डलानि अष्टौ च एकत्रिंशद् भागाः, एतस्मान्नक्षत्रार्द्धमासगम्यं क्षेत्रं त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा इत्येवंप्रमाणं शोध्यते, तत्र चतुर्द्दशभ्यस्त्रयोदश मण्डलानि शुद्धानि एकमवशिष्टं सम्प्रत्यष्टभ्य एकत्रिंशद्भागेभ्यस्त्रयोदश सप्तषष्टिभागाः शोध्याः, तत्र सप्तषष्टिरष्टभिर्गुणिता जातानि पञ्च शतानि षट्त्रिंशदधिकानि एकत्रिंशता त्रयोदश गुणिता जातानि चत्वारि शतानि च्युत्तराणि एतानि पञ्चभ्यः शतेभ्यः षट्त्रिंशदधिकेभ्यः शोध्यन्ते स्थितं शेषं त्रयस्त्रिंशदधिकं शतं तत एतत् सप्तषष्टिभागानयनार्थं सप्तषष्ट्या गुण्यते जातानि नवाशीतिः शतान्येकादशाधिकानि छेदराशिर्मोल एकत्रिंशत् सा सप्तषष्ट्या गुण्यते जाते द्वे सहस्रे सप्तसप्तत्यधिके For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy