________________
२५२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०९ अवराइं खलु दुवे तेरसगाई जाइं चंदे केणइ अस्सामन्नगाई सयमेव पविट्टित्ता २ चारं चरति, इच्चेसो चंदमासोऽभिगमणनिक्खमणवुद्धिणिबुड्डिअनवट्टितसंठाणसंटितीविउव्वणगिड्डिपत्ते रूवी चंदे देवे २ आहितेति वदेजा ।।
वृ. ‘ता चंदेणअद्धमासेण'मित्यादि ताइति' पूर्ववत् चान्द्रेणअर्द्धमासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानि चरति?, भगवानाह-'ता चोद्दसे'त्यादि चतुर्दश सचतुर्भागमण्डलानिपञ्चदशस्य मण्डलस्य चतुर्भागसहितानि मण्डलानि चरति, एकंच चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति? -परिपूर्णानिचतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकशतसत्कैकत्रिंशद्भागप्रमाणमेकंचचतुर्विंशशतभागं मण्डलस्य, सर्वसङ्ख्यया द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् चरतीति, कथमेतदवसीयते इति चेत्, उच्यते त्रैराशिकबलात्, तथाहि- यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तदश शतान्यष्टषट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते?, अत्रान्त्वेन राशिना मध्यराशि ण्यते स च तावानेव जातः, तत्राद्येन राशिना भागहरणं लब्धाश्चतुर्दश शेषास्तिष्ठन्ति द्वात्रिंशत् तत्र छेद्यच्छेदकराश्योढिकेनापवर्तना क्रियते, तत इदमागच्छति-चतुर्दश मण्डलानि पञ्चदशस्य मण्डलस्य षोडश द्वाषष्टिभागाः । उक्तं चैतदन्यत्रापि॥१॥ “चोद्दस य मंडलाइं विसट्ठिभागा य सोलस हविजा ।
मासद्धेण उडुवई एत्तियमित्तं चरइ खित्तं ॥" "ता आइच्चेण मित्यादि, आदित्येनार्द्धमासेन चन्द्रः कतिमण्डलानि चरति?, भगवानाह'ता सोलसे'त्यादि, षोडश मण्डलानि चरति, षोडशमण्डलचारी च तदा अपरे खलु द्वे अष्टकेचतुर्विंशत्यधिकशतसत्कभागाष्टकममाणे ये केनाप्यसामान्ये-केनाप्यनाचीर्णपूर्वेचन्द्रः स्वयमेव प्रविश्य चारं चरति । ‘कयराइं खतु'टुवे इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-इमाई खलु'एते खलु द्वे अष्टके ये केनाप्यनाचीर्णपूर्वे चन्द्रः स्वमेव प्रविश्य चारं चरति, तद्यथा-सर्वाभ्यन्तरामण्डलारहि-निष्कामन्नेवामावास्यान्ते एकमष्टकं केनाप्यनाचीर्णं चन्द्रः प्रविश्य चारं चरति, सर्ववाह्यात्मण्डला-दभ्यन्तरं प्रविशव पौर्णमास्यन्ते द्वितीयमष्टकं केनाप्यनाचीर्णं चन्द्रः प्रविश्य चारं चरति, ‘एयाइं खलु दुवे अहगाई' इत्यादि उपसंहारवाक्यं सुगमं, इह परमार्थतो द्वौ चन्द्रौ एकेन चान्द्रेणार्द्धमासेन चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधि कशतभागान् भ्रमणेन पूरयतः परं लोकरूढया व्यक्तिभेदमनपेक्ष्य जातिभेदमेव केवलमाश्रित्य चन्द्रश्चतुर्दशमण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतंचतुर्विंशत्यधिकशतभागान्चरतीत्युक्त।
अधुना एकश्चन्द्रमा एकस्मिन्नयने कति अर्द्धमण्डलानि दक्षिणभागे कत्युत्तरभागे भ्रम्या पूरयतीति प्रतिपिपादयिपुर्भगदानाह–'ता पढमायणगए चंदे' इत्यादि, ता इति पूर्ववत्, प्रथमायनगते-प्रथममयनंप्रविष्टे चन्द्रे दक्षिणस्माद्मागादभ्यन्तरं प्रविशति सप्त अर्द्धमण्डलानि भवन्ति यानि चन्द्रो दक्षिणस्माद् भागादभ्यन्तरं प्रविशन्नाकम्य चारं चरति ।
कयराइं खलु'इत्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'इमाइं खलु इत्यादि, इमानि खलु सप्तार्द्धमण्डलानि यानि चन्द्रो दक्षिणास्माद्भागादभ्यन्तरं प्रविशन्नाक्रम्य चारं चरति, तद्यथाद्वितीयमर्द्धमण्डलमित्यादि, सुगमं, नवरमियमत्र भावना-सर्ववाद्ये पञ्चदशे मण्डले परिभ्रमणेन पूरणमधिकृत्य परिपूर्णेपाश्चात्ययुगपरिसमाप्तिर्भवति, ततोऽपरयुगप्रथमायनप्रवृत्तौ प्रथमेऽहोरात्रे
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org