SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०४ विशाखाभिः - विशाखानक्षत्रेण युक्तः सन् चन्द्रमास्तृतीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च - तृतीयावृत्तिप्रवर्त्तनसमये विशाखानां विशाखानक्षत्रस्य त्रयोदश मुहूर्ता एकस्य च मुहूर्त्तस्य चतुःपञ्चाशद् द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काश्चत्वारिंशचूर्णिका भागाः शेषाः तथाहि " २४० तृतीया श्रावणमासभाविन्यावृत्ति पूर्वप्रदर्शितक्रमापेक्षया पञ्चमी, ततस्त्सथाने पञ्चको ध्रियते, सरूपोनः कार्य इति जातश्चतुष्कस्तेन प्राक्तनो ध्रुवराशि । गुण्यते, जातानि द्वाविंशति शतानि द्विनवत्यधिकानि मुहूर्त्तानां चतुश्चत्वारिंशं शतं मुहूर्त्तगतानां द्वाषष्टिभागानामेकस्य च द्वाषष्टिभागस्य चतुर्विंशति सप्तषष्टिभागाः । तत एतेभ्यः षोडशभिर्मुहूर्त्त शतैरष्टात्रिं - शदधिकैर ष्टाचत्वारिंशता च द्वाषष्टिभागैर्मुहूर्तस्य द्वाषष्टिभागगतानां च सप्तषष्टिभागानां द्वात्रिंशेन शतेन 1 परिपूर्णी नक्षत्रपर्याय शुद्ध, स्थितानि पश्चात् षट् शतानि चतुःपञ्चाशदधिकानि मुहूर्तानां च द्वाषष्टिभागानां चतुर्नवतिरेकस्य च द्वाषष्टिभागस्य षड्विंशति सप्तषष्टिभागाः, तत एतेभ्यः पञ्चभिः शतैरेकोनपञ्चाशदधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभा गैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, स्थितं पश्चात्पञ्चोत्तरं मुहूर्त्त शतं मुहूर्त्तगतानां च द्वाषष्टिभागानामेकोनसप्ततिरेकस्य च द्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः, तत्र द्वाषष्ट्या द्वाषष्टिभागैरेको मुहूर्तो लब्धः, स्थिताः पश्चात् सप्त द्वाषष्टिभागाः, लब्धश्च मुहूर्तो मुहूर्त्तराशो प्रक्षिप्यते, जातं षडुत्तरं मुहूर्त्तशतं ततः पञ्चसप्तत्या मुहूर्ते हस्तादीनि स्वातिपर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः शेषा एकत्रिंशत् मुहूर्त्ताः, आगतं विशाखानक्षत्रस्य त्रयोदशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य चतुःपञ्चाशति द्वाषष्टि-भागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु चन्द्रस्तृतीयां श्रावणमासभावि-नीमावृत्ति प्रवर्त्तयति । सम्प्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह - 'तं समयं च ण' मित्यादि, सुगमं । अधुना चतुर्थ्यावृत्तिविषये प्रश्नसूत्रमाह- 'ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'तारेवईहिं'इत्यादि, रेवत्या युक्तश्चन्द्रश्चतुर्थी श्रावणमासभाविनीमावृत्ति प्रवर्त्तयति, तदानीं च रेवतीनक्षत्रस्य पञ्चविंशतिर्मुहूर्ता द्वात्रिंशत् द्वाषष्टिभागा मुहूर्त्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का षड्विंशतिश्चूर्णिका भागाः शेषाः, तथाहि प्रागुपदर्शितक्रमापेक्षया श्रावणमासभाविनी चतुर्थ्यावृत्ति सप्तमी ततः सप्तको ध्रियते, स रूपोनः कार्य इति जातः षट्कः, तेन प्राक्तनो ध्रुवराशि गुण्यते, जातानि चतुस्त्रिंशच्छतानि अष्टात्रिंशदधिकानि मुहूर्त्तानां, मुहूर्त्तगतानां च द्वाषष्टिभागानां द्वे शते षोडशोत्तरे, एकस्य च द्वाषष्टिभागस्य षट्त्रिं- शत्सप्तषष्टिभागाः, तत एतेभ्यो द्वात्रिंशता शतैः षट्सप्तत्यधिकैर्मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां षन्नवत्या द्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यां चतुः षष्टिसहिताभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः स्थितं पश्चादेकं द्वाषष्ट्यधिकं मुहूर्त्तशतं मुहूर्त्तगतानां च द्वाषष्टिभागानां षोडशोत्तरं शतं एकस्य च द्वाषष्टिभागस्य चत्वारिंशत् सप्तषष्टिभागाः तत एकोनषष्ट्यधिकेन मुहूर्त्तशतेन एकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैः अभिजिदादीनि उत्तरभाद्रपदापर्यन्तानि नक्षत्राणि भूयः शुद्धानि, स्थिताः पश्चात्रयो मुहूर्त्ताः मुहूर्तगतानां च द्वाषष्टिभागानामेकनवतिरेकस्य च द्वाषष्टिभागस्यैकचत्वारिंशत् सप्तषष्टिभागाः, द्वाषष्ट्या च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy