________________
प्राभृतं १२, प्राभृतप्राभृतं -
२४१
द्वाषष्टिभागैरेको मुहूर्ती लब्धः, स मुहूर्त्तराशौ प्रक्षिप्यते, जाताश्चत्वारो मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य एकोनत्रिंशद् द्वाषष्टिभागाः (एकस्य च द्वाषष्टिभागस्यैकचत्वारिंशत् सप्तषष्टिभागाः ) तत आगतं- रेवतीनक्षत्रं पञ्चविंसतौ मुहूर्तेषु एकस्य च मुहूर्त्तस्य द्वात्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षडविंशतौ सप्तषष्टिभागेषु शेषेषु चतुर्थी श्रावणमास भाविनीमावृत्तिं प्रवर्त्तयति ।
‘तं समयं च ण’मित्यादि सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद् भावनीयं, साम्प्रतं पञ्चमं श्रावणमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसिण' मित्यादि, सुगमं, भगवानाह - 'ता पुव्वाहिं फग्गुणीहिं' इत्यादि, ता इति पूर्ववत्, पूर्वाभ्यां फाल्गुनीभ्यां युक्तश्चन्द्रः पञ्चमीं श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च तस्य पूर्वफाल्गुनीनक्षत्रस्य द्वादश मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तचत्वारिंशत् द्वाषष्टिभागाः एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयोदश चूर्णिका भागाः शेषास्तथाहि
पञ्चमी श्रावणमासभाविन्यावृत्ति प्रागुपदर्शितक्रमापेक्षया नवमी ततस्तत्स्थाने नवको नियते स रूपोनः कार्य इति जाता अष्टौ तैः पार्गुक्तो ध्रुवराशि गुण्यते, जातानि पञ्चचत्वारिंशच्छतानि चतुरशीत्यधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां द्वे शते अष्टाशीत्यधिके एकस्य च द्वाषष्टिभागस्याष्टाचत्वारिंशत सप्तषष्टिभागाः तत एतेभ्यश्चत्वा - रिंशता मुहूर्त्तशतैः पञ्चनवत्यधिकैर्मुहूर्त्तगतानां च द्वाषष्टिभागानां विंशत्यधिकेन शतेन एकस्य च द्वाषष्टिभागस्य सत्कानां सप्तषष्टिभागानां त्रिंशदधिकैस्त्रीभि शतैः पञ्च नक्षत्रपर्यायाः शुद्धाः स्थितानि पश्चान्मुहूर्त्तानां चत्वारि शतानि एकोनवत्यधिकानि मुहूर्त्तगतानां च द्वाषष्टिभागानां शतं त्रिषष्टयधिक एकस्य चद्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागाः तत एतेभ्यो भूयस्त्रीभिः शतैर्नवत्यधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिता पश्चान्मुहूर्त्तानां नवति मुहूर्त्तगतानां द्वाषष्टिभागानामष्टात्रिंशदधिकं शतं एकस्य च द्वाषष्टि-भागस्य चतुःपञ्चाशत्सप्तषष्टिभागाः तत्र चतुर्विंशत्यधिकेन द्वाषष्टिभागशतेन द्वौ मुहूर्ती लब्धौ पश्चात् स्थिता द्वाषष्टिभागाः चतुर्द्दश, लब्धौ च मुहूर्तौ मुहूर्त्तराशौ प्रक्षिप्येते, जाता मुहूर्तानां द्विनवति तत्र पञ्चसप्तत्या मुहूतैः पुष्यादीनि मघापर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूर्त्ताः न चैतावता पूर्वफाल्गुनी शुद्धयति ।
तत आगतं - पूर्वफाल्गुनीनक्षत्रस्य द्वादशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी श्रावणमास भाविन्यावृत्ति प्रवर्त्तते, सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद्द्भावनीयं, तदेवं चन्द्रनक्षत्रयोगविषये सूर्यनक्षत्रयोगविषये च पञ्चापि वार्षिकीरावृत्तीः प्रतिपाद्य सम्प्रति हेमन्तीः प्रतिपिपादीयिषुस्तदगतप्रथमावृत्तिविषयं प्रश्नसूत्रमाह
मू. (१०५) ता एएसि णं पंचण्हं संवच्छराणं पढमं हेमंतिं आउट्टिं चंदे केणं नक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थस्स णं पंच मुहुत्ता पन्नासं च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिधा छेत्ता सट्ठिचुण्णिया भागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचण्हं संवच्छराणं दोच्चं हेमंति
12 16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org