________________
२३९
प्राभृतं १२, प्राभृतप्राभृतं -
'ता एएसि ण मित्यादि, ता इति पूर्ववत्, एतेषां-अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणांमध्ये द्वितीयां वार्षिकी श्रावणमासभाविनीमावृत्तिचन्द्रः केन नक्षत्रेण युनक्ति-केन नक्षत्रेण युक्तः सन् चन्द्रो द्वितीया- मावृत्ति प्रारम्भयति?, एवं प्रश्ने कृते सति भगवानाह-'ता संठाणाहिं' इत्यादि, ता इति पूर्ववत्, संस्थानाभि-संस्थानाशब्देन मृगशिरोनक्षत्रमभिधीयते, तथा प्रवचने प्रसिद्धेः, ततो मृगशिरोनक्षत्रेण युक्तश्चन्द्रमा द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्तयति, तदानीं च मृगशिरोनक्षत्रस्य एकादश मुहूर्ता एकस्य च मुहूर्तस्य एकोनचत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागाः शेषाः, तथाहि
इह या द्वितीया श्रावणमासभाविन्यावृत्ति साप्राक्प्रदर्शितक्रमापेक्षया तृतीया ततस्तत्स्थाने रिको ध्रियते, सरूपोनः कार्य इति जातोद्विकस्तेन प्राक्तनोध्रुवराशि पञ्चशनानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य षट्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट् सप्तषष्टिभागाः इत्येवंप्रमाणो गुण्यते, जातान्येकादश शतानि षट्चत्वारिंशदधिकानि मुहूर्तानां द्वासप्ततिरेकस्य मुहूर्तस्य सत्का द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः तत एतेभ्यो मुहूर्तानामष्टभिः शतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरेकः परिपूर्णो नक्षत्रपर्यायः शुद्धः, स्थितनिपश्चान्मुहूर्तानां शतानि त्रीणि सप्तविंशत्यधिकानि एकस्य च मुहूर्तस्य सप्तचत्वारिंशत् द्वाषष्टिभागा एकस्यच द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः । तत एतेभ्यस्त्रीभिर्मुहूर्तशतै-नवोत्तरैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेस्य च द्वाषष्टिभागस्य षषष्ट्या सप्तषष्टिभागैर- भिजिदादीनि रोहिणिकापर्यन्तानि नक्षत्राणिशुद्धानि, 'तेसुचेव नवोत्तरेसु रोहिणिया' इत्यादिप्रागु-क्तवचनात्, ततः स्थिताः पश्चादष्टादशमुहूर्ताएकस्य च मुहूर्तस्य द्वाविंसतिषिष्टिभागाएकस्यच द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः । एतावता मृगशिरो न शुद्धयति, तत आगतं मृगशिरो नक्षत्रं एकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनचत्वारिंशतिद्वाषष्टिभागेषुएकस्यच द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु शेषेषु द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्तयति
(संप्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह) 'तं समयं च णमित्यादि, तस्मिंश्च समये सूर्य केन नक्षत्रेण सह योगमुपागतः तां द्वितीयांवार्षिकीमावृत्तिं युनक्ति?, भगवानाह-'ता पूसेण'मित्यादि, ता इतिपूर्ववत्, पुष्येणयुक्तः, 'तंचेव'त्ति वचनसामथ्यार्दिदं द्रष्टव्यं-'पुस्सस्स एगूणवीसंमुहुत्ता तेयालीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागंच सत्तहिहाछेत्ता तेत्तीसंचुण्णिया भागासेसा' इति, इह सूर्यस्य दशभिरयनैः पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, द्वाभ्यां चायनाभ्यामेकः, तत्रोत्तरायणं कुर्वन् सर्वदैवाभिजिता नक्षत्रेण सह योगमुपागच्छति, दक्षिणायनं कुर्वन् पुष्येण, तस्य च पुष्यस्य एकोनविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु, तथा चोक्तम्॥१॥
“अभितराहिं नितो आइच्चो पुस्सजोगमुवगयस्स ।
सव्वा आउट्टीओ करेइ से सावणे मासे ।।" इत्यादि, ततः ‘पुस्सेणं मियादि उक्तं, सम्प्रति तृतीयश्रावणमासभाव्यावृत्तिविषयंप्रश्नसूत्रमाह-'ता एएसिण मित्यादि, सुगम, भगवानाह–'ता विसाहाहिं' इत्यादि, ता इति पूर्ववत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org