SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १२, प्राभृतप्राभृतं - २३१ ॥२॥ सेसासु चेव काहिइ तिहीसु ववहारगणियदिठ्ठासु। सुहुमेण परिल्लतिही संजायइ कमि पव्वंमि ।। ॥३॥ रूवाहिगा ऊऊया बिगुणा पव्वा हवंति कायव्वा । एमेव हवइ जुम्मे एकत्तीसा जुया पव्वा ।।। एतासां व्याख्या-इह प्रतिपद आरभ्य यावत्पञ्चदशी एतावस्तिथयस्तासां च मध्ये प्रतिपद्यवमरात्रीभूतायां सत्यां कस्मिन् पर्वणि-पक्षे द्वितीया तिथि समाप्स्यति-प्रतिपदा सह एकस्मिन्नहोरात्रेसमाप्तिमुपयास्यतीति?, द्वितीयायां वा तिथाववमरात्रीभूतायां कस्मिन पर्वणि तृतीया समाप्तिमेष्यति, तृतीयायां वा तिथाववमरात्रीसम्पन्नायांकस्मिन् पर्वणि चतुर्थी निधनमुपयास्यति?,एवं शेषास्वपितिथिषुव्यवहारगणितदृष्टासु-लोकप्रसिद्धव्यवहारगणित-परिभावितासु पञ्चमी षष्ठी सप्तम्यष्टमी नवमी दशमी एकादशी द्वादशी त्रयोदशी चतुर्दशी चतुर्दशी पञ्चदशीरूपासु शिष्यः प्रश्नं करिष्यति, यथा-सूक्ष्मेण-प्रतिदिवसमेकैकेन द्वाषष्टिभागरूपेण श्लक्ष्णेन भागेन परिहीयमानायांतिथौ पूर्वस्याः पूर्वस्या अमवमरात्रीभूतायास्तिथेरानन्तर्येण परापरा तिथि कस्मिन् पर्वणि सजायते समाप्तिः ?, एतदुक्तं भवति-चतुर्थ्यां तिथाववमरात्रीभूतायां कस्मिन पर्वणि पञ्चमी समाप्तिमुपैति, पञ्चम्यां वाषष्ठी एवं यावत्पञ्चदश्यां तिथाववमरात्रीभूतायांकस्मिन् पर्वणि प्रतिपद्रूपा तिथिः समाप्नोतीति शिष्यस्य प्रश्नमवधार्य निर्वचनमाचार्य आह 'रूवाहिगाउ' इत्यादि इह याः शिष्येण प्रश्नं कुर्वता तिथय उद्दिष्टास्ता द्विविधास्तद्यथाओजोरूपा युग्मरूपाश्च, ओजो विषमं युग्मं समं, तत्र या ओजोरूपास्ताः प्रथमतो रूपाधिकाः क्रियन्ते ततो द्विगुणास्तथा च सति तस्यास्तस्यास्तिथैर्युग्मपर्वाणि निर्वचनरूपाणि समागतानि भवन्ति, एमेव हवइ जुम्मे' इति या अपि युग्मरूपास्तिथयस्तास्वपि एवमेव-पूर्वोक्तेनैव प्रकारेण करणंप्रवर्तनीयम्, नवरं द्विगुणीकरणानन्तरंएकत्रिंशद्युताः सत्यः पर्वाणि निर्वचनरूपाणिभवन्ति, इयमत्र भावना-यदाऽयंप्रश्नः-कस्मिन्पर्वणि प्रतिपदिअवमरात्रीभूतायां द्वितीया समापयतीति, तदा प्रतिपत् किलोद्दिष्टा, सा च प्रथमा तिथिरित्येको ध्रियते स रूपाधिकः क्रियते, जाते द्वे रूपे ते अपिद्विगुणी क्रियेते जाताश्चत्वार आगतानिचत्वारिपर्वाणिततोऽयमथः-युगादितश्चतुर्थे पर्वणि प्रतिपद्यवमरात्रीभूतायां द्वितीयासमाप्तिमुपयातीति, युक्तं चैतत्, तथाहि-प्रतिपधुद्दिष्टायां चत्वारि पर्वाणि समागतानि पर्व च पञ्चदशतिथ्यात्मकं ततः पञ्चदश चतुर्भिर्गुण्यन्ते जाता षष्टि :, प्रतिपदि द्वितीया समापयतीति द्विरूपे तत्राधिके प्रक्षिप्ते जाता द्वाषष्टिः, सा च द्वाषष्ट्या भज्यमाना निरंशं भागं प्रयच्छति, लब्ध एकक इत्यागतः प्रथमोऽवमरात्र इत्यिसंवादिकरणं, यदा तु कस्मिन् पर्वणि द्वितीयायामवमरात्रीभूतायां तृतीया समाप्नोतीति प्रश्नस्तदा द्वितीया किल परेणोद्दिष्टेति द्विको ध्रियते, सरूपाधिकः कृतो जातानि त्रीणिरूपाणि तानि द्विगुणी-क्रियन्तेजाताः षट् द्वितीया चतिथि समेति षट् एकत्रिंशधुताःक्रियन्ते जाताः सप्तत्रिंशत् आगतानि निर्वचनरूपाणि सप्तत्रिंशत् पर्वाणि, किमुक्तं भवति ? - युगादितः सप्तत्रिंशत्तमे पर्वणि गते द्वितीयायामवमरात्रीभूतायां तृतीया समाप्नोति, इदमपि करणं समीचीनं, तथाहि-द्वितीयायामुद्दिष्टायां सप्तत्रिंशत्पर्वाणि समागतानि, ततः पञ्चदश सप्तत्रिंशता गुण्यन्ते, जातानि पञ्च शतानि पञ्चपञ्चाशदधिकानि द्वितीया नष्टा तृतीया जातेति त्रीणि रूपाणि तत्र प्रक्षिप्यन्ते जातानि पञ्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy