________________
२३०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०२
जायइ वड्डोवड्डी मासाणं एक्कमेक्काओ॥" -तत्रावमरात्रभावनाकरणार्थमिदं पूर्वाचार्योपदर्शितं गाथाद्वयं॥१॥ "चंदऊऊमासाणं अंसा जे दिस्सए विसेसंमि।
ते ओमरत्तभागा भवंति मासस्स नायव्वा ।। ॥२॥ बावविभागमेगं दिवसे संजाइ ओमरत्तस्स ।
बावट्ठीए दिवसेहिं ओमरत्तं तओ हवइ॥ अनयोर्व्याख्या-कर्ममासः परिपूर्णत्रिंशदहोरात्रप्रमाणश्चन्द्रमास एकोनिंत्रिंशदहोरात्रा द्वात्रिंशच्चद्वाषष्टिभागाअहोरात्रस्य, ततश्चन्द्रमासस्य-चन्द्रमासपरिमाणस्य ऋतुमासस्यच-कर्ममासपरिमाणस्य च इत्यर्थः,परस्परविश्लेषः क्रियते, विश्लेषे च कृते सतिये अंशा उद्धरिता दृश्यन्ते त्रिंशत् द्वाषष्टिभागरूपाः ते अवमरात्रस्य भागाः तद्धयमरात्रस्य परिपूर्ण मासद्वयपर्यन्ते भवति, ततस्तस्यसत्कास्तेभागामासस्यावसाने द्रष्टव्याः, यदि त्रिंशति दिवसेषु त्रिंशद् द्वाषष्टिभागाअव मरात्रस्य प्राप्यन्ते तत एकस्मिन् दिवसे कतिभागाः प्राप्यन्ते, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेस्त्रिंशद्रूपस्य गुणनं, एकेन च गुणितंतदेव भवतीति जातास्त्रशदेव, तस्या आदिराशिना त्रिंशता भागे हृते लब्धएकः,आगतंप्रतिदिवसमेकैको द्वाषष्टिभागोलभ्यते, तथा चाह_ 'बावहित्यादि, द्वाषष्टिभागएकैको दिवसेदिवसे संजायतेअवमरात्रस्य, गाथायामेकशब्दो दिवसशब्दश्चागृहीतवीप्सोऽपिसामर्थाद्वीप्सां गमयति नपुंसकनिर्देशश्चप्राकृतलक्षणवशात्, तदेवं यत् एकैकस्मिन् दिवसे एकैको द्वाषष्टिभागोऽवमरात्रस्य सम्बन्धी प्राप्यते ततो द्वाषष्ट्या दिवसैरेकोऽवमरात्रो भवति, किमुक्तं भवति?- दिवसे दिवसे अवमरात्रसत्कैकैकद्वाषष्टिभागवृद्धया द्वाषष्टितमो भागः सआयमानो द्वाषष्टितमाचतिथिनिधनमुपगतेति द्वाषष्टितमा तिथिर्लोके पतितेति व्यवह्रियते, उक्तं च-“एक्कंसि अहोरत्ते दोवि तिही जत्त निहणमेज्जासु । सोत्थ तिही परिहायइ" इति वर्षाकालस्य-चतुर्मासप्रमाणस्य श्रावणादेः तृतीयेपर्वणि सतिप्रथमोऽवमरात्रः, तस्यैव वर्षाकालस्य सम्बन्धिनि सप्तमे पर्वणि सति द्वितीयोऽवमरात्रस्तदनन्तरं शीतकालस्य तृतीये पर्वणि मूलापेक्षया एकादशेतृतीयोऽवमरात्रःतस्यैवशीतकालस्य सप्तमेपर्वणि मूलापेक्षया पञ्चदशेचतुर्थतदनन्तरंग्रीष्मकालस्य तृतीये पर्वणि मूलापेक्षया एकोनविंशतितमे पञ्चमस्तस्यैव ग्रीष्मकालस्य सप्तमे पर्वणि मूलापेक्षया त्रयोविंशतितमे षष्ठः, तथा चोक्तम्॥१॥ “तइयम्मिओमरत्तं कायव्वं सत्तमंमि पव्वंमि ।
वासहिमगिम्हकाले चाउभ्मासे विधीयते। इह आषाढाद्या ऋतवो लोके प्रसिद्धिमैयरुः, ततो लौकिकव्यवहारमपेक्ष्याषाढादारभ्य प्रतिदिवसमेकैकद्वाषष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिषु पर्वसु यथोक्ता अवमरात्रा प्रतिपाद्यन्ते, परमार्थतःपुनः श्रावणबहुलपक्षप्रतिपल्लक्षणात् युगादित आरभ्य चतुश्चतुःपर्वातिक्रमे वेदितव्याः, अथ युगादितः कतिपर्वातिक्रमे कस्यां तिथाववमरात्रीभूतायां तया सह का तिथि परिसमाप्तिं यास्यतीति चिन्तायामिमाः पूर्वाचार्योपदर्शिताः प्रश्ननिर्वचनरूपा गाथाः॥१॥ “पाडिवयओमरत्ते कइया बिइया समप्पिहीइ तिही।
__बिइयाए वा तइया तइयाए वा चउत्थी उ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org