________________
प्राभृतं १२, प्राभृतप्राभृतं -
शतभागानामवगाह्य द्वितीयं स्वमृतुंचन्द्रः परिसमापयति, तथा द्वयुत्तरचतुःशततमचन्द्रर्त्तुजिज्ञासायां स ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणो ध्रियते, चाष्टभि शतैः त्र्युत्तरैर्गुण्यते, जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्रणि नव शतानि पञ्चदशोत्तराणि, तत्र सकलनक्षत्रपर्यायपरिमाणं षट्त्रिंशच्छतानि षष्ट्यधिकानि, तथाहि
षट्सु अर्द्धक्षेत्रेषु नक्षत्रेषु प्रत्येकं सप्तषष्टिरंशा द्वयर्द्धक्षेत्रेषु नक्षत्रेषु प्रत्येकं द्वे शते एकोत्तरे अंशानां पञ्चदशसु समक्षेत्रेषु प्रत्येकं चतुस्त्रिंशंशतमिति षट् सप्तषष्ट्या गुण्यन् जातानि चत्वारि शतानि द्वयुत्तराणितथा षट् एकोत्तरेण शतद्वयेन गुण्यन्ते जातानि द्वादश शतानि षडुत्तराणि तथा चतुस्त्रिंशं शतं पञ्चदशभिर्गुण्यते जातानि विंशति शतनि दशोत्तराणि एते च त्रयोऽपि राशयः एकत्र मील्यन्ते मीलयित्वा च तेष्वभिजितो द्वाचत्वारिंशत्प्रक्षिप्यन्ते, जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि एतावता एकनक्षत्रपर्यायपरिमाणेन पूर्वराशेः भागो हियते, लब्धाः षट्षष्टिर्नक्षत्रपर्यायाः पश्चादवतिष्ठन्ते पञ्चपञ्चाशदधिकानि त्रयस्त्रिंशच्छतानि तत्राभिजितो द्वाचत्वारिंशच्छुद्धा स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि त्रयोदशाधिकानि एतेभ्यस्त्रीभिः सहनद्वर्यशीत्यधिकैरनुराधान्तानि नक्षत्राणि शुद्धानि शेषे तिष्ठतो द्वे शते एकत्रिंशदधिके ततः सप्तषष्ट्या ज्येष्ठा शुद्धा स्थितं चतुःषष्ट्यधिकं शतं ततोऽपि चतुस्त्रिंशेन शतेन मूलनक्षत्रं शुद्धं स्थिता पश्चात् त्रिंशत, आगतं पूर्वाषाढानक्षत्रस्य त्रिंशतं चतुस्त्रिंशदधिकशतभागानामवगाह्य चन्द्रो द्वयुत्तरचतुःशततमं स्वमृतुं परिनिष्ठापयति ।
२२९
तदेवमुक्तं सूर्यर्तुपरिमाणं चन्द्रर्तुपरिमाणंच, सम्प्रति लोकरूढया यावदेकैकस्य चन्दतः परिमाणं तावदाह-‘ता सव्वेवि ण' मित्यादि, ता इति पूर्ववत्, सर्वेऽप्येते षट्सङ्ख्याः प्रावृडादय ऋतवः प्रत्येकं चन्द्रर्त्तवः सन्तो द्वौ द्वौ मासौ वेदितव्यौ, तौ च किंप्रमाणावित्याह- 'तिचउप्पण्ण'मित्यादि, त्रीणि शतानि चतुःपञ्चाशदधिकानि रात्रिंदिवानां द्वादशं चद्वाषष्टिभागा रात्रिंदिवस्येति शेषः, इत्येवंरूपेणादानेन इत्येवंरूपं संवत्सरप्रमाणमादायेत्यर्थ गण्यमानौ द्वौ मासौ सातिरेकाणिमनागधिकानि द्वाभ्यां रात्रिंदिवस्य द्वाषष्टिभागाभ्यामधिकानीति भावः एकोनषष्टिरेकोनषष्टि रात्रिंदिवानि रात्रिंदिवाग्रेण-रात्रिदिवपरिमाणेनाख्याताविति वदेत्, तथाहि - द्विद्विमासप्रमाणाः षट् ऋतवइति त्रयाणां चतुःपञ्चाशदधिकानां रात्रिंदिवशतानां षड्भिर्भागे हृते लब्धा एकोनषष्टिरहोरात्रा द्वादशानां च द्वाषष्टिभागानां षडभिर्भागहारे द्वौ द्वाषष्टिभागौ इति, एवं च सति कर्म्ममासापेक्षया एकैकस्मिन् ऋतौ लौकिकमेकैकं चन्द्रर्तुमधिकृत्य व्यवहारत एकैकोऽवमरात्रो भवति, सकले तु कर्म्मसंवत्सरेषट् अवमरात्राः, तथा चाह
'तत्थे'त्यादि, तत्र - कर्म्मसंवत्सरे चन्द्रसंवत्सरमधिकृत्य व्यवहारतः खल्विमे - वक्ष्यमाणक्रमाः षट् अवमरात्राः प्रज्ञप्ताः, तद्यथा - 'तइए पञ्चे' इत्यादि सुगमम्, इयमत्र भावना - इह कालस्य सूर्यादिक्रियोपलक्षितस्यानादिप्रवाहपतितप्रतिनियतस्वभावस्यन स्वरूपतः कापि हानिर्नापि कश्चिदपि स्वरूपोपचयो यत्विदमवमरात्रातिरात्रप्रतिपादनं तत्परस्परं मासचिन्तापेक्षया, तथाहि-कर्म्ममासमपेक्ष्य चन्द्रमासस्य चिन्तायामवमरात्रसम्भवः कर्म्ममासमपेक्ष्य सूर्यमासचिन्तायामतिरात्रकल्पना, तथा चोक्तम्
"कालस्स नेव हाणी नविबुड्डी वाअवडिओ कालो ।
For Private & Personal Use Only
119 11
Jain Education International
www.jainelibrary.org