SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०२ पञ्चदशोत्तराणि तेषां चतुस्त्रिंशदधिकेन शतेन भागो ह्रियते लब्धाः षट् शेषमुद्धरति एकादशोत्तरक शतंतस्य द्विकेनापवर्त्तनायां लब्धाःसाद्धाः पञ्चपञ्चशत्सप्तषष्टिभागाः,आगतंयुगादितः षट्सु दिवसेष्वतिक्रान्तेषु सप्तमस्य च दिवसस्य सार्द्धषुपञ्चपञ्चाशत्सङ्ख्येषु सप्तषष्टिभागेषु गतेषु द्वितीयश्चन्द्रर्तु परिसमाप्तिं गच्छति, द्वयुत्तरचतुःशततमर्तुजिज्ञासायां स एव ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणोऽष्टभि शतैस्त्रयुत्तरैर्गुण्यते-द्वयुत्तरवृद्धया द्वयुत्तरवृद्धया हि द्वयुत्तरचतुःशततमस्य त्रयुत्तराष्टशतप्रमाण एव राशिर्भवति, तथाहि यस्य एकस्मादूर्धं द्वयुत्तरवृद्धया राशिश्चिन्त्यतेतस्य द्विगुणो रूपोनोभवति यथा द्विकस्य त्रीणित्रिकस्य पञ्च चतुष्कस्य सप्त, अत्रापि द्वयुत्तरचतुःशतप्रमाणस्य राशेद्वर्युत्तरवृद्धया राशिश्चिन्त्यते ततोऽष्टौ शतानित्र्युत्तराणि भवन्ति, एवंभूतेन च राशिना गुणने जाते वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि पञ्चदशोत्तराणि तेषां चतुस्त्रिंशेन शतेन भागो ह्रियते लब्धान्या-दश शतानि सप्तविंशत्यधिकानि अंशाश्चोद्धरन्ति सप्तनवति तस्या द्विकेनापवर्त्तना लब्धाः सार्धा अष्टाचत्वारिंशत्सप्तषष्टिभागाः । आगतं युगादितोऽष्टादशसु दिवसशतेषु सप्तविंशत्यधिकेष्वतिक्रान्तेषु ततः परस्य च दिवसस्य साढेष्वष्टाचत्वारिंशत्सङ्खयेषु सप्तषष्टिभागेषु गतेषु द्वयुत्तरचतुःशततमस्य चन्द्रलॊः परिसमाप्तिरिति।। एतेषु च चन्द्रर्तुथु चन्द्रनक्षत्रयोगपरिज्ञानार्थं एष पूर्वाचार्योपदेशः । ॥१॥ “सो चेव धुवो रासी गुणरासीवि अहवंति तेचेव। नक्खत्तसोहणाणि अपरिजाणसु पुव्वभणियाणि ॥" अस्या गाथाया व्याख्या-चन्द्रानां चन्द्रनक्षत्रयोगार्थं स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिर्वेदितव्यः, गुणराशयोऽपि-गुणकारराशयोऽपिएकादिका द्वयुत्तरवृद्धास्तएव भवन्ति ज्ञातव्या ये पूर्वमुपदिष्टा नक्षत्रशोधनान्यपि च परिजानीहि तान्येव यानि पूर्वभणितानि द्वाचत्वारिंशप्रभृतीनि, ततः पूर्वप्रकारेण विवक्षिते चन्द्रौ नियतो नक्षत्रयोग आगच्छति, तत्र प्रथमे चन्द्रौ कश्चन्द्रनक्षत्रयोग इति जिज्ञासायां स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिर्धियते स एकेन गुण्यते एकेन च गुणितः सन् तावानेव भवति ततोऽभिजितो द्वाचत्वारिंशत् शुद्धा शेषे तिष्ठते द्वेशते त्रिषष्ट्यधिके तश्चतुस्त्रशेन शतेन श्रवणः शुद्धः स्थितं पश्चादेकोनत्रिंशतं शतं तस्य द्विकेनापवर्तना जाता सार्द्धाश्चतुःषष्टि सप्तषष्टिभागाः, आगतं धनिष्ठायाः सार्धाः चतुःषष्टिं सप्तषष्टिभागानवगाह्य चन्द्रः प्रथमं स्वमृतुं परिसमापयति। द्वितीयचन्द्रर्तुजिज्ञासायां स एव ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थितानि शेषाणि अष्टौ शतानि त्रिसप्तत्यधिकानि ततश्चतुस्त्रशदधिकेन शतेन श्रवणः शुद्धिमुपगतः स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धाजातानिषट्शतानि पञ्चोत्तराणि ततोऽपि सप्तषष्ट्या शतभिषक्शुद्धा स्थितानि पश्चात्पश्च शतान्यष्टात्रिंशदधिकानि एतेभ्योऽपि चतुस्त्रिंशेनशतेन पूर्व भद्रपदाशुद्धा स्थितानि चतुरधिकनिचत्वारिशतानि तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा स्थिते शेषे द्वेशते त्र्युत्तरे ताभ्यामपिचतुस्त्रिंशेन शतेन रेवती शुद्धा स्थिता पश्चादेकोनसप्तति आगतमश्विनीनक्षत्रस्यैकोनसप्ततिं चतुस्त्रिंशदधिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy