SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १२, प्राभृतप्राभृतं - २२७ विवक्षितादिनात्प्रागतिक्रन्तास्तास्तत्र सङिपक्षयन्ते, ततो द्वाषष्टिभागैः-द्वाषष्टिभाग-निष्पन्नरवमरात्रैः परिहीनं विधेयम्, ततएवंभूतं सच्चतुस्त्रिंशेनशतेनाभिहतं-गुणितं कर्त्तव्यम्, तदनन्तरं च पञ्चोत्तरैस्त्रिभिशतैः संयुक्तं सत् षड्मिशोत्तरैः शतैर्विभजेत्, विभक्ते सतिये लब्धा अङ्कास्तेऋतवोविज्ञातव्याः । एष करणगाषाद्वयाक्षरार्थ, सम्प्रतिकरणभावना क्रियते, कोऽपिपृच्छति युगादितः प्रथमे पर्वणि पञ्चम्यां कश्चन्द्रर्तुर्वर्त्तते इति, तत्रैकमपि पर्व परिपूर्णमत्र नाद्याप्यभूदितियुगादितो दिवसा रूपोना ध्रियन्ते, तेच चत्वारस्ततस्ते चतुस्त्रिंशदधिकेन शतेन गुण्यन्तेजातानि पञ्चशतानिषट्त्रिंशदधिकानिततः भूयस्त्रिणिशतानि पञ्चोत्तराणि प्रक्षिप्यन्ते जातान्यष्टौ शतान्येकचत्वारिंशदधिकानि तेषां षड्भिः शतैर्दशोत्तरैर्भागो ह्रियते लब्धः प्रथम ऋतुः अंशा उद्धरन्ति द्वे शते एकत्रिंशदधिके तेषां चतुस्त्रिंशेन शतेन भागहरणं लब्ध एकः, अंशानां चतुस्त्रिंशेन शतेन भागो ह्रियते यल्लभ्यते ते दिवसा ज्ञातव्याः, शेषास्त्वंशा उद्धरन्ति सप्तनवति तेषां द्विकेनापवर्तनायां लब्धाः सार्धाअष्टाचत्वारिंशत्सप्तषष्टिभागाः,आगतंयुगादितः पञ्चम्यां प्रथमः प्रावृटलक्षणः ऋतुरतिक्रन्तो द्वितीयस्य ऋतोः एको दिवसो गतो द्वितीयस्य च दिवसस्य सार्द्धा अष्टाचत्वारिंशत् सप्तषष्टिभागाः । तथा कोऽपि पृच्छति युगादितो द्वितीये पर्वणि एकादश्यां कश्चन्द्रतुरिति, तत्रैकं पर्व अतिक्रन्तमित्येको ध्रियते, स पञ्चदशभिर्गुण्यतेजाताः पञ्चदशएकादश्यां किल पृष्टमिति तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशति सा चतुस्त्रिंशेन शतेन गुण्यतेजातानि त्रयस्त्रिंशच्छतानि पञ्चाशदधिकानि तेषुत्रीणिशतानि पञ्चोत्तराणिप्रक्षिप्यन्तेजातानिषट्त्रिंशच्छतानिपञ्चपञ्चाशदधिकानि तेषांषभिः शतैर्दशोत्तरै गोहियते लब्धाः पञ्चअंशाअवतिष्ठन्ते षट् शतानि पञ्चोत्तराणि तेषां चतुस्त्रिंशेन शतेन भागे हृते लब्धाश्चत्वारो दिवसाः शेषास्त्वंशा उद्धरन्ति एकोनसप्तति तस्या द्विकेनापवर्तनायां लब्धाः सार्धाश्चितुस्त्रिंशत्सप्तषष्टिभागाः, एतमन्यस्मिन्नपि दिवसे चन्द्रर्तुरवगन्तव्यः।। सम्प्रति चन्द्रर्तुपरिसमाप्तिदिवसानयनाय यत्पूर्वाचार्ये करणमुक्तं तदभिधीयते॥१॥ "पुव्वंपिवधुवरासी गुणिए भइए सगेण छेएणं । जलद्धं सो दिवसो सोमस्स उऊ समत्तीए॥" अस्या व्याख्या-इहयः पूर्वं सूर्यर्तुप्रतिपादने ध्रुवराशिरभिहितः पञ्चोत्तरणित्रीणिशतानि चतुस्त्रिंशदधिकशतभागानां तस्मिन् पूर्वमिव गुणिते, किमुक्तं भवति ?-ईप्सितेन एकादिना द्वयुत्तरचतुःशततमपर्यन्तेन-द्व्युत्तरवृद्धेन एकस्मादारभ्यतत ऊर्ध्वंद्वयुत्तरवृद्धयाप्रवर्द्धमानेन गुणिते स्वकेन-आत्मीयेन छेदेन चतुस्त्रिंशदधिकशतरूपेण भक्तेसतियल्लब्धंससोमस्य-चन्द्रस्य ऋतोः समाप्तौ वेदितव्यः, यथा केनापि पृष्टं चन्द्रस्य ऋतुः प्रथमः कस्यां तिथौ परिसमाप्तिं गत इति, तत्र ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणो ध्रियते स एकेन गुण्यते जातस्तावानेव ध्रुवराशि तस्य स्वकीयेनचतुस्त्रिंशदधिकशतप्रमाणेनछेदेन भागोहियते, लब्धौ द्वौ शेषास्तिष्ठतिसप्तत्रिंशत् तस्या द्विकेनापवर्त्तना जाताः सार्धाष्टादश सप्तषष्टिभागाः,आगतंयुगादितो द्वौ दिवसौ तृतीयस्य च दिवसस्य सार्धान् अष्टादश सप्तषष्टिभागानतिक्रम्य प्रथमश्चन्द्रर्तु परिसमाप्तिमुपयाति, द्वितीयश्चन्द्रर्तुजिज्ञासायांसध्रुवराशिपञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते, जातानिनवशतानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy