SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०२ पञ्चदशोत्तराणि ततोऽष्टाशीत्या पुष्यः शुद्धिमगमत् । स्थितानि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि तेभ्यः सप्तषष्ट्या अश्लेषा शुद्धा स्थितानि शेषाणि सप्त शतानि षष्ट्यधिकानितेभ्यश्चतुस्त्रशदधिकेन शतेन मघा शुद्धा स्थितानि शेषाणि षट् शतानि षड्विंशत्यधिकानि तेभ्यश्चतुस्त्रिंशदधिकेन शतेन पूर्वफाल्गुनी शुद्धा स्थितानि पश्चाच्चत्वारि शतानि द्विनवत्यधिकानि ततोऽपि द्वाभ्यां शताभ्यामेको त्तराभ्यामुत्तरफाल्गुनी शुद्धा स्थिते द्वे शते एकनवत्यधिके ततोऽपि चतुस्त्रिंशेन शतेन हस्तः शुद्धः स्थितं पश्चात् सप्तपञ्चाशदधिकं शतं ततोऽपि चतुस्त्रिंशदधिकेन शतेन चित्रा शुद्धा स्थिता शेषास्त्रयोविंशति, आगतं स्वातेस्त्रयोविंशतिं सप्तषष्टिभागानवगाह्य सूर्यो द्वितीयं स्वमृतुं परिसमापयति, एवं शेषेष्वपि ऋतुषु भावनीयं, त्रिंशत्तमसूर्यर्त्तुजिज्ञासायां स एव ध्रुवराशि, पञ्चोत्तरशतत्रयपरिमाण एकोनषष्ट्या ते जातानि सप्तदश सहस्ाणि नव शतानि पञ्चनवत्यधिकानि तत्र चतुर्दशभि सहस्रैः षड्भिः शतैश्चत्वारिंशदधिकैः चत्वारः परिपूर्णा नक्षत्रपर्यायाः शुद्धाः स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि पञ्च पञ्चाशदधिकानि तेभ्योऽष्टाशीत्या पुष्यः शुद्धः स्थितानि पश्चात् द्वात्रिंशच्छतानि सप्तषष्ट्यभ्यधिकानि तेभ्यो द्वात्रिंशता शतैरष्टापञ्चाशदधिकै अश्लेषादीनि मृगशिरः पर्यन्तानि नक्षत्राणि शुद्धानि स्थिताः शेषा नव तेन चार्द्रा न शुद्धयति, तत आगतं नव चतुस्त्रिंशदधिकशतभागान् आर्द्रास - त्कानवगाह्य सूर्यस्त्रशत्तमं स्वमृतुं परिसमापयति । तदेवमुक्ताः सूर्यर्त्तवः, सम्प्रति चन्द्रर्त्तीनां चत्वारि शतानि द्वयुत्तराणि, तथाहि - एक स्मिन्नक्षत्रपर्याये चन्द्रस्य षट् ऋतवो भवन्ति चन्द्रस्य च नक्षत्रपर्याया युगे भवन्ति सप्तषष्टिसङ्ख्यास्ततः सप्तषष्टि षड्भिर्गुण्यते जातानि चत्वारि शतानि द्वयुत्तराणि एतावन्तो युगे चन्द्रस्य ऋतवः, उक्तं च- "चत्तारि उउसयाई बिउत्तराई जुगंमि चंदस्स ।' एकैकस्य चंद्रतः परिमाणं परिपूर्णा- श्चत्वारोऽहोरात्राः पञ्चमस्य चाहोरात्रस्य सप्तत्रिंशत्सप्तषष्टिभागाः, तथा चोक्तम् 119 11 “चदस्सुउपरिमाणं चत्तारि अ केवला अहोरत्ता । सत्तत्तीसं अंसा सत्तट्ठिकएण छेएणं ।।" कथमेतदवसीयते इति चेत्, उच्यते, इहैकस्मिन्नक्षत्रपर्याये षट् ऋतव इति प्रागेवानन्तरमुक्तम्, नक्षत्र पर्यायस्य चन्द्रविषयस्य परिमाणं सप्तविंशतिरहोरात्राः एकस्य चाहोरात्रस्य एकविंशति सप्तषष्टिभागाः तत्राहोरात्राणां षड्भिर्भागो हियते लब्धाश्चत्वारोऽहोरात्राः शेषास्तिष्ठन्ति त्रयस्ते सप्तषष्टिभागकरणार्तं सप्तषष्ट्या गुण्यन्त जाते द्वे शते एकोत्तरे तत उपरितना एकविंशति सप्तषष्टिभागाः प्रक्षिप्यन्ते, जाते द्वे शते द्वाविंशत्यधिके तेषां षड्विर्भागे हृते लब्धाः सप्तत्रिंशत् सप्तषष्टिभागाइति, तेषां च चन्द्रर्त्ती नामानयनाय पूर्वाचार्यैरिदं करणमुक्तं ॥ १ ॥ “चंदऊऊआणयणे पव्वं पन्नरससंगुणं नियमा । तिहिसंखित्तं संतं बावट्ठीभागपरिहीणं ॥ चोत्तीससयाभिहयं पंचुत्तरतिसयसंजुयं विभए । छहिं उ दसुत्तरेहि य सएहिं लद्धा उऊ होइ ॥ अनयोव्याखया-विवक्षितस्यचन्द्रर्त्तोरानयने कर्त्तव्ये युगादितो यत् पर्व-पर्वसङ्ख्यानमतिसङ्क्रान्तं तत्पञ्चदशगुणं नियमात् कर्त्तव्यम्, ततस्तिथिसङ्क्षिप्तमिति-यास्तिथयः पर्वणामुपरि Jain Education International For Private & Personal Use Only www.jainelibrary.org ॥२॥
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy