SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२५ प्राभृतं १२, प्राभृतप्राभृतं - चन्द्रनक्षत्रयोगचिन्तायामभिजिति द्वाचत्वारिंशत् । “एयाणी'त्यादि, एतानि अर्द्धक्षेत्रसमक्षेत्रद्वयर्द्धक्षेत्रविषयाणि शोधकानि शोधयित्वा यदुक्तप्रकारेण नक्षत्रशेषं भवति-न सर्वात्मना शुद्धिमश्रुते तत् नक्षत्रं रविसोमयोः-सूर्यस्य चन्द्रमसश्च नियमात् ज्ञातव्यं, क इत्याह-त्रिंशत्यपि ऋतुसमाप्तिषु । एष करणगाथात्रयाक्षरार्थ। सम्प्रति करणभावना क्रियते-तत्र प्रथम ऋतुः कस्मिन् चन्द्रनक्षत्रे समाप्तिमुपैति इति जिज्ञा-सायामनन्तरोदितः पञ्चोत्तरत्रिशतीप्रमाणोध्रुवराशियते, स एकेन गुणितंतदेव भवतीति तावानेव ध्रुवराशिजातः, तत्राभिजितो द्वाचत्वारिंशत् शुद्धा, स्थितेपश्चाद्वेशते त्रिषष्ट्यधिके, ततश्चतुस्त्रिंशेन शतेन श्रवणःशुद्धः, शेषं जातमेकोनत्रिंशंशतं १२९, तेभ्यश्च धनिष्ठान शुद्धयति, तत आगतं-एकोनत्रिंशं शतं चतुस्त्रिंशदधिकशतभागानां धनिष्ठासत्कमवगाह्य चन्द्रः प्रथम सूर्यर्तुं परिसमापयति, यदि द्वितीयसूर्यर्तुजिज्ञासा तदा स ध्रुवराशि पञ्चोत्तरशतत्रय-प्रमाणस्त्रिभिर्गुण्यते, जातानिनव शतानि परिसमापयति, यदि द्वितीयसूर्यर्तुजिज्ञासा तदास ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते, जातानि नव शतानि पञ्चदशोत्तराणि, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा, स्थितानिशेषाण्यष्टौ शतानि त्रिसप्तत्यधिकानि, ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धिमुपगतः, स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि, ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा, जातानि षट् शतानि पञ्चोत्तराणि, ततोऽपि सप्तषष्ट्या शतभिषक् सुद्धा, स्थितानिपञ्चशतान्यष्टात्रिंशदधिकानि, तेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा, स्थितानि चत्वारि शतानि चतुरधिकानि, तेभ्योऽपि द्वाभ्यां शताभ्या- मेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा, स्थितेशेषेत्र्युत्तरेद्वेशते, ताभ्यामपिचतुस्त्रिंशदधिकेनशतेन रेवती शुद्धा, स्थिता पश्चादेकोनसप्तति, आगतमश्विनीनक्षत्रस्यैकोनसप्ततिंचतुस्त्रिंशदधि-कशतभागानामवगाह्य द्वितीयं सूर्यर्तुचन्द्रः परिसमापयति। __-एवं शेषेष्वपि ऋतुषुभावनीयं, त्रिंशत्तमसूर्यर्तुजिज्ञासायांस एव ध्रुवराशि पञ्चोत्तरशतत्रयसङ्ख्य एकोनषष्ट्या गुण्यते, जातानि सप्तदश सहस्राणि नव शतानि पञ्चनवत्यधिकानि, तत्रषट्त्रिंशता शतैः षष्ट्यधिकैरेको नक्षत्रपर्यायःशुद्धयति, ततः षट्त्रिंशच्छतानिषष्ट्यधिकानि चतुर्भिर्गुणयित्वा ततः शोध्यन्ते, स्थितानि पश्चात्रयस्त्रिंशच्छतानि पञ्चपञ्चाशदधिकानि ताभ्यां द्वात्रिंशता शतैः पञ्चविंशत्यधिकैरभिजिदादीनि मूलपर्यन्तानि शुद्धानि स्थितं पश्चात्रिंशदधिकं शतं तेन च पूर्वाषाढा न शुद्धयति, तत आगतं त्रिंशदधिकं शतं चतुस्त्रिंश-दधिकशतभागानां पूर्वाषाढासत्कमवगाह्य चन्द्रस्त्रशत्तमं सूर्यर्तु परिसमापयति। सम्प्रति सूर्यनक्षत्रयोगभावना क्रियते, स एव पञ्चोत्तरशतत्रयप्रमाणोध्रुवराशिप्रथमसूर्यतुजिज्ञासायामेकेन गुण्यते ‘एकेन च गुणितं तदेव भवतीति जातस्तावानेव ततः पुष्यसत्का अष्टाशीति शुद्धा स्थिते शेषे द्वे शते सप्तदशोत्तरे ततः सप्तषष्ट्या अश्लेषा शुद्धा स्थितं शेषं सार्द्ध शतं ततोऽपि चतुस्त्रिंशच्छतेन मघाशुद्धा स्थिताः पश्चात् षोडश, आगतं पूर्वफाल्गुनीनक्षत्रस्य षोडश चतुस्त्रिंशदधिकशतभागानवगाह्य सूर्य प्रथमं स्वमृतुं परिसमापयति, तथा द्वितीयसूर्यर्तुजिज्ञासायां स ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणस्त्रभिर्गुण्यते जातानि नव शतानि |12| 157 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy