SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२ /-/१०२ शतानि अष्टाप- ञ्चाशदधिकानि, एषोऽपि राशिभषष्ट्या भज्यमानो निरंशं भागं प्रयच्छति, लब्धाश्च नवेत्यागतो नवमोऽवमरात्र इति समीचीनं करणं, एवं सर्वास्वपि तिथिषु करणभावना करणसमीचीनत्वभावना अवमरात्रसङ्ख्या च स्वयं भावनीया, पर्वनिर्देशमात्रं तु क्रियते, तत्र तृतीयायां चतुर्थी समापयतत्यष्टमे पर्वणि गते चतुर्थ्यां पञ्चमी एकचत्वारिंशत्तमेपर्वणि पञ्चम्यां षष्ठी द्वादशे पर्वणि षष्ट्यां सप्तमी पञ्चचत्वारिंशत्तमे सप्तम्यामष्टमी पोडशे अष्टम्यां नवमी एकोनपञ्चाशत्तमेनवम्यां दशमी विंशतितमेदशम्यामेकादशी त्रिपञ्चाशत्तमे एकादश्यां द्वादशी चतुविंशतितमेद्वादश्यांत्रयोदशी सप्तपञ्चाशत्तमेत्रयोदश्यांचतुर्दशी अष्टाविंशतितमेचतुर्दश्यांपञ्चदशीएकषष्टितमे पञ्चदश्यांप्रतिपत् द्वात्रिंशत्तमेइति, एवमेतायुगपूर्वार्द्ध, एवंयुगोत्तरार्द्धऽपिद्रष्टव्याः। तदेवमुक्ता अवमरात्राः, सम्प्रत्यतिरात्रप्रतिपादनार्थमाह-'तत्ये' त्यादि, तत्रैकस्मिन् संवत्सरे खल्विमेषट्अतिरात्राः प्रज्ञप्तास्तद्यथा-'चउत्थेपव्वे' इत्यादि, इहकर्ममासपेक्ष्य सूर्यमासचिन्तायामेकैकसूर्यर्तुपरिसमाप्तावेकैकोऽधिकोऽहोरात्रः प्राप्यते, तथाहि त्रिंशताऽहोरात्रैरेकः कर्ममासः सार्द्धत्रिंशताऽहोरात्रैरेकः सूर्यमासो मासद्वयात्मकश्च ऋतुस्तत एकसूर्यर्तुपरिसमाप्तौ कर्ममासद्वयमपेक्ष्यैकोऽधिकोऽहोरात्रःप्राप्यते, सूर्यर्तुश्चाषाढादिकस्तत आषाढादारभ्य चतुर्थे पर्वणिगतेएकोऽधिकोऽहोरात्रोभवत्यष्टमे पर्वणिगते द्वितीयस्तृतीयो द्वादशे पर्वणि चतुर्थ षोडशे पञ्चमो विंशतितमेषष्ठश्चतुर्विंशतितमे इति, अवमरात्रश्च कर्ममासद्वयमपेक्ष्य चन्द्रमासचिन्तायां, चन्द्रमासाश्च श्रावणाद्यास्ततो वर्षाकालस्य श्रावणदेरित्युक्तं प्राग, सम्प्रति यमपेक्ष्यातिरात्रो यं चापेक्ष्यावमरात्रा भवन्ति तदेतत्प्रतिपादयतिमू. (१०३) छच्चेव य अइरत्ता आइच्चाओ हवंति माणाई। छच्चेव ओमरत्ता चंदाहि हवंति माणाहिं । वृ. अतिरात्रा भवन्त्यादित्यात्-आदित्यमपेक्ष्य, किमुक्तं भवति?-आदित्यमपेक्ष्य कर्ममासचिन्तायां प्रतिवर्षं पट् अतिरात्रा भवंति इति माणाहि-जानीहि,तथा षट्अवमरात्रा भवन्ति चन्द्रात्-चन्द्रमपेक्ष्य चन्द्रमासानधिकृत्य कर्ममासन्तायां प्रतिसंवत्सरंषट्अवमरात्रा भवन्तीत्यर्थः, इति माणाहि-जानीहि । तदेवमुक्ता अवमरात्रा अतिरावाश्च, संप्रत्यावृत्तीर्विवक्षुरिदमाह मू. (१०४) तत्थ खलु इमाओपंच वासिकीओ पंच हेमंताओ पंच हेमंताओ आउट्टिओ पन्नत्ताओ, ता एएसिणं पंचण्हं संवच्छराणं पढमं वासिक्का आउटिं चंदे केणं नक्खत्तेणं जोएति ताअभीयिणा, अभीयिस्स पढमसमएणं । तं समयं चणं सूरे केणं नक्खत्तेणंजोएति? तापूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा ता एएसि णं पंचण्हं संवच्छराणं दोच्चं वासिक्का आउदि चंदे केणं नखत्तेणंजोएति? ता संठाणाहिं संठाणाणं एकारसमुहुत्ते ऊतालीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं चसत्तद्विधा छेत्तातेपण्णं चुणिया भागा सेसा। ___तंसमयं सूरे केणं नक्खत्तेणंजोएति? ता पूसेणं, पूसस्सणं तं चेव जं पढमया, एतेसिणं पंचण्हं संवच्छराणं तच्चं वासिकांआउटिंचंदे केणं नक्खत्तेणंजोएइ?, ता विसाहाहि विसाहाणंतेरस मुहुत्ता चउप्पन्नं च बावट्ठिभागा मुहुत्तस्स वावट्ठिभागं च सत्तद्विधा छेत्ता चत्तालीसं चुण्णिया भागा सेसा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy