SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०२ ये निष्पन्ना अवमरात्रास्तेऽप्युपचारात् द्वाषष्टिभागास्तैः परिहीनं पर्वसङ्ख्यानं कर्त्तव्यं, ततो 'दुगुणे' ति द्वाभ्यां गुण्यते, गुणयित्वा च एकषष्ट्या युतं क्रियते, ततो द्वाविंशेन शतेन भाजिते सति यल्लब्धं तस्य षड्भिर्भागे हृते यच्छेषं स ऋतुरनन्तरातीतो भवति, येऽपि चांशाः शेषा उद्धरितास्तेषां द्वाभ्यां भागेहृते यल्लब्धं ते दिवसाः प्रवर्त्तमानस्य ऋतोर्ज्ञातव्याः, एष करणगाथाक्षरार्थः । सम्प्रति करणभावना क्रियते, तत्र युगे प्रथमे दीपोत्सवे केनापि पृष्टं - कः सूर्यर्तुरनन्तरमतीतः को वा सम्प्रति वर्त्तते ?, तत्र युगादितः सप्त पर्वाण्यभिक्रान्तानीति सप्त ध्रियंते, तानि पञ्चदश भिर्गुण्यन्ते, जातं पञ्चोत्तरं शतं एतावति च काले द्वाववमरात्रावभूतामिति द्वौ ततः पात्येते, स्थितं पश्चात्र्युत्तरं शतं, तत् द्वाभ्यां गुण्यते, जाते द्वे शते षडुत्तरे, तत्रैकषष्टिः प्रक्षिप्यते, जाते द्वे सते सप्तषष्ट्यधिके, तयोर्द्वाविंशेन शतेन भागो हियते, लब्धौ द्वौ तौ षड्भिर्भागं न सहते इति न तयोः षड्र्भािगहारः, शेषास्त्वंशा उद्धरन्ति त्रयोविंशतिः, तेषामर्द्धे जाता एकादश अर्द्धच, सूर्यर्त्तुश्चाषाढादिकस्ततः आगतं द्वावृतू अतिक्रान्तौ तृत्तीयश्च ऋतुः सम्प्रति वर्त्तते, तस्य च प्रवर्त्तमानस्य एकादश दिवसा अतिक्रान्ता द्वादशो वर्त्तते इति । तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्टं के ऋतवः पूर्वमतिक्रान्ताः ? को वा सम्प्रति वर्त्तते ?, तत्र प्रथमाया अक्षयतृतीयायाः प्राक् युगस्यादित आरभ्य पर्वाण्यतिक्रान्तानि एकोनविंशति, ततः एकोनविंशतिर्धृत्वा पञ्चदशभिर्गुण्यते, जाते द्वे शते पञ्चाशीत्यधिके, अक्षयतृतीयायां किल पृष्ठमिति पर्वणामुपरि तिम्नस्तिथयः प्रक्षिप्यन्ते, जाते द्वे शते अष्टाशीत्यधिके, तावति च काले अवमरात्राः पञ्च भवन्ति, ततः पञ्च पात्यन्ते, जाते द्वे शते त्र्यशीत्यधिके, ते द्वाभ्यां गुण्येते, जातानि पञ्च शतानि षट्षष्ट्यधिकानि तान्येकषष्टिसहितानि क्रियन्ते, जातानि षट्श शतानि सप्तविंशत्यधिकानि तेषां द्वाविंशेन शतेन भागहरणं, लब्धाः पञ्च, ते च षड्भिर्भागं न सहन्ते इति न तेषां षड्भिर्भागहारः, शेषास्त्वंशा उद्धरन्ति सप्तदश, तेषामर्द्धे जाताः सार्द्धा अष्टौ, आगतं - पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गता नवमो वर्त्तते, तथा युगे द्वितीये दीपोत्सवे केनापि पृष्टं . ? ↑ कियन्त ऋतवोऽतिक्रान्ताः को वा सम्प्रति वर्त्तते ?, तत्रैतावति काले पर्वाण्यतिक्रान्तान्येकत्रिंशत्, तानि पञ्चदशभिर्गुण्यन्ते, जातानि चत्वारि शतानि पञ्चषष्ट्यधिकानि, अवमरात्राश्चैतावति काले व्यत्यक्रामन्नष्टौ ततोऽष्टौ पात्यन्ते, स्थितानि शेषाणि चत्वारि शतानि सप्तपञ्चाशदधिकानि तानि द्विगुणीक्रियन्ते, जातानि नव शतानि चतुर्द्दशोत्तराणि, तेष्वेकपटिपे जातानि पञ्चसप्तत्यधिकानि नव शतानि तेषां द्वाविंशेन शतेन भागो हियते, लब्धाः सप्त, उपरिष्टादंशा उद्धरन्ति एकविंशं शतं, तस्य द्वाभ्यां भागे हते लब्धाः षष्टि सार्द्धाः, सप्तानां च ऋतूनां षड्भिर्भागे हृते लब्ध एक एकः उपरिष्टात्तिष्ठति, आगतं - एकः संवत्सरोऽतिक्रान्त एकस्य च संवत्सरस्योपरि प्रथम ऋतुः प्रावृड्नामाऽतिगतो, द्वितीयस्य च षष्टिर्दिनान्यतिक्रान्तानि, एकषष्टितमं वर्त्तते इति, एवमन्यत्रापि भावना कार्या । 1 अथैतेषां ऋतूनां मध्ये क ऋतुः कस्यां तिथौ समाप्तिमुपयातीति परस्य प्रश्नावकाशमाशङ्कय तत्परिज्ञानाय पूर्वाचार्यैरिदं करणमभाणि 119 11 "इच्छाउऊ विगुणिओ रूवूणो विगुणिओ उ पव्वाणि । For Private & Personal Use Only Jain Education International " www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy