________________
२२३
प्राभृतं १२, प्राभृतप्राभृतं -
तस्सद्ध होइ तिही जत्थ समत्ता उऊ तीसं॥" अस्या गाथाया व्याख्या-यस्मिन् ऋतौ ज्ञातुमिच्छा (स इच्छत्तीस ऋतर्धियते इत्यर्थः, ततः स द्विगुणितः क्रियते, द्वाभ्यां गुण्यते इति भावः, द्विगुणितः सन् रूपोनः क्रियते, ततः पुनरपिस द्वाभ्यां गुण्यते, गुणयित्वा च प्रतिराश्यते, द्विगुणितश्च सन्यावान् भवति तावन्ति पर्वाणि द्रष्टव्यानि, तस्य च द्विगुणीकृतस्य प्रतिराशितस्यार्द्ध क्रियते, तच्चार्द्ध यावद्भवति तावत्यस्तिथयः प्रतिपत्तव्याः,यासुयुगभाविनस्त्रिंशदपिऋतवः समाप्ताः, समाप्तिमैयरुरिति करणगाथाक्षरार्थः।
सम्प्रति भावना क्रियते-किल प्रथमऋतुर्ज्ञातुमिष्टोयथायुगेकस्यांतिथौप्रथमः प्रावृड्लक्षण ऋतुः समाप्तिमुपयातीति ?, तत्र एको ध्रियते, स द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते रूपोने क्रियेते, जात एककः, स एव च भूयोऽपि द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते प्रतिराश्येते, तयोरट्टे जातमेकं रूपं, आगतं-युगादौ द्वे पर्वणी अतिक्रम्य प्रथमायां तिथौ प्रतिपदि प्रथमऋतुः प्रावृडनामा समाप्तिमगमत्, तथा द्वितीये ऋतौ ज्ञातुमिच्छति द्वौ स्थाप्येते तयोर्वाभ्यां गुणने जाताश्चत्वारस्ते रूपोनाः क्रियन्ते जातास्त्रयस्ते भूयो द्वाभ्यां गुण्यन्ते जाताः षट् ते प्रतिराश्यन्ते प्रतिराशितानां चार्द्ध क्रियते जातास्त्रयः, आगतं-युगादितः षट् पण्यितिक्रम्य तृतीयायां तिथौ द्वितीय ऋतुः समाप्तिमुपायात्, तथा तृतीये ऋतौ ज्ञातुमिच्छेति त्रयो ध्रियन्ते ते द्वाभ्यां गुण्यन्ते जाताः षट् ते रूपोनाः क्रियन्ते जाताः पञ्च ते भूयो द्वाभ्यां गुण्यन्ते जाता दश ते प्रतिराश्यन्ते प्रतिराशितानां चाः लब्धाः पञ्च, आगतं-युगादित आरभ्य दशानांपर्वणामतिक्रमे पञ्चभ्यां तिथौ तृतीय ऋतुः समाप्तमियाय।
तथा षष्ठे ऋतौ ज्ञातुमिष्यमाणे षट् स्थाप्यन्ते ते द्वाभ्यां गुण्यन्तेजाता द्वादश ते रूपोनाः क्रियन्ते जाता एकादश ते द्विगुण्यन्ते जाता द्वाविंशति सा प्रतिराश्यते प्रतिराशिताया अर्द्ध क्रियते जाता एकादश, आगतं-युगादित आरभ्य द्वाविंशतिपर्वणामतिक्रमे एकादश्यां तिथौ षष्ठ ऋतुः समाप्तिमियाय, तथा युगे नवमे ऋतौ ज्ञातुमिच्छति ततो नव स्थाप्यन्ते ते द्वाभ्यां गुण्यन्ते जाता अष्टादश ते रूपोनाः क्रियन्ते जाताः सप्तदश ते भूयो द्विगुण्यन्ते जाता चतस्त्रिंशत् सा प्रतिराश्यते प्रतिराश्य च तस्यार्द्ध क्रियते जाताः सप्तदश, आगतं-युगादितः चतुस्त्रिंशत् पण्यितिक्रम्य द्वितीये संवत्सरे पौषमासे शुक्लपक्षे द्वितीयस्यां तिथौनवम ऋतुः परिसमाप्ति गच्छति, तथा त्रिंशत्तमे ऋतौ जिज्ञासिते त्रिंशद् ध्रियते सा द्विगुणीक्रियते जाता षष्टि सा रूपोना क्रियते जाता एकोनषष्टि सा भूयो द्वाभ्यां गुण्यतेजातमष्टादशोत्तरंशतं तत्प्रतिराश्यते प्रतिराश्य च तस्यार्द्ध क्रियते जाता एकोनषष्टि, आगतं-युगादितोऽष्टादशोत्तरं पर्वशतमतिक्रम्य एकोनषष्टितमायां तिथौ, किमुक्तं भवति?- पञ्चमे संवत्सरे प्रथमे आषाढे शुक्लपक्षे चतुर्दश्यां त्रिंशत्तम ऋतुः समाप्तिमुपायासीत्, व्यवहारतः प्रथमाषाढपर्यन्ते इत्यर्थः, एतस्यैवार्थस्य सुखप्रतिपत्यर्थमियं पूर्वाचार्योपदर्शिता गाथा॥१॥ “एक्तरिया मासा तिही य जासु ता उऊ समप्पंति ।
आसाढाई मासा भद्दवयाई तिही नेया ।। अस्या व्याख्या-इह सूर्यर्तुचिन्तायां मासा आषाढादयो द्रष्टव्याः, आषाढमासादारभ्य ऋतूनांप्रथमतः प्रवर्त्तमानत्वात्, तिथयः सर्वा अपि भाद्रपदाद्याः, भाद्रपदादिषु मासेषु प्रथमादी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org