SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १२, प्राभृतप्राभृतं - २२१ चतुष्पञ्चाशदधिकानि पञ्च च मुहूर्ता एकस्य च मुहूर्तस्य पञ्चाशद् द्वाषष्टिभागा इत्येवंप्रमाण आख्यात इति वदेत्, तत्राहोरात्रपरिमाणमुभयन्नापि तावदेकरूपं, ये तूपरितना द्वादश द्वाषष्टिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्च मुहूर्त्ताः, शेषास्तिष्ठन्ति पञ्चाशन्मुहूर्तस्य द्वाषष्टिभागा इति । ? तदेवं संवत्सरवक्तव्यता सप्रपञ्चमुक्ता, साम्प्रतं ऋतुवक्तव्यतामाह मू. (१०२) तत्थ खलु इमे छ उडू पं० तं०- पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सव्वेवि णं एते चंदउडू दुवे २ मासाति उप्पन्नेणं २ आदानेणं गणिञ्जमाणा सातिरेगाई एगूणस २ राइंदियाइं राइंदियग्गेणं आहितेति वदेज्जा । तत्थ खलु इमे छ ओमरत्ता पं० तं०-ततिए पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पन्नरसमे पव्वे एगूणवीसतिमे पव्वे तेवीसतिमे पव्वे । तत्थ खलु इमे छ अतिरत्ता पं० तं० - चउत्थे पव्वे अट्टमे पव्वे बारसमे पव्वे सोलसमे पव्वे वीसतिमे पव्वे चउवीसतिमे पव्वे । वृ. 'तत्थ खलु' इत्यादि, तत्रास्मिन् मनुष्यलोके प्रतिसूर्यायनं प्रतिचन्द्रायनं च खल्विमे षट्ऋतवःप्रज्ञप्ताः, तद्यथा-प्रावृट् वर्षारात्रः शरत् हेमन्तो वसन्तो ग्रीष्म, इह लोकेऽन्यथाभिधाना ऋतवः प्रसिद्धास्तद्यथा-प्रावृट् शरद् हेमन्तः शिशिरो वसन्तो ग्रीष्मश्चेति, जिनमते यथोक्ताभिधाना एव ऋतवः, तथा चोक्तम् तु 119 11 "पाउस वासारत्तो सरओ हेमंत वसंत गिम्हो य । एए खलु छप्पि उऊ जिनवरदिट्ठा मए सिट्टा ॥" , इह ऋतवो द्विधा तद्यथा-सूर्यर्त्तवश्चन्द्रर्त्तवश्च तत्र प्रथमतः सूर्यर्त्तुवक्तव्यता प्रस्तूयते, तत्रैकैकस्य सूर्यर्तोः परिमाणं द्वौ सूर्यमासावेकषष्टिरहोरात्रा इत्यर्थः, एकैकस्य सूर्यमासस्य सार्द्धत्रिंशदहोरात्रप्रमाणत्वात्, उक्तं चैतदन्यत्रापि 119 11 119 11 "वे आइच्चा मासा एगट्ठी ते भवंतहोरत्ता । एयं उउपरिमाणं अवगयमाणा जिना बिंति ।।” इह पूर्वाचार्यैरीप्सितसूर्यर्त्वानयने करणमुक्तं तद्विनेयजनानुग्रहायोपदर्श्यतेसूरउउस्साणवणे पव्वं पन्नरससंगुणं नियमा । तहिं संखित्तं संतं बावट्ठीभागपरिहीणं ॥ दुगुकट्टी जुयं वावीससएण भाइए नियमा । जं द्धं तस्स पुणो छहिं हियसेसं उऊ होइ ॥ साणं अंसाणं वेहि उ भागेहि तेसिं जं लद्धं । ॥२॥ 119 11 ते दिवसा नायव्वा होंति पवत्तस्स अयनस्स ॥ आसां व्याख्या- सूर्यस्य - सूर्यसम्बन्धिन ऋतोरानयने पर्व - पर्वसङ्ख्यानं नियमात् पञ्चदशगुणं कर्त्तव्यं, पर्वणां पञ्चदशतिथ्यात्मकत्वात्, इयमत्र भावना - यद्यपि ऋतवः आषाढादिप्रभवास्तथापि युग प्रवर्त्तते श्रावणवहुलपक्षप्रतिपद आरभ्य ततो युगादितः प्रवृत्तानि यानि पर्वाणि तत्सङ्घया पञ्चदशगुणा क्रियते, कृत्वा च पर्वणामुपरि या विवक्षितं दिनमभिव्याप्य तिथयस्तास्तत्र सङ्क्षिप्यन्ते इत्यर्थः, ततो वावट्ठीभागपरिहीणं ति प्रत्यहोरात्रमेकैकेन द्वाषष्टिभागेन परिहीयमाणेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy