________________
२२०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०१ चवावट्ठिभागे मुहत्तस्सआहितेति वदेजा।
वृ. 'ता कयाण'मित्यादि, सुगमं, भगवानाह-'तासहिमित्यादि, ताइति पूर्ववत्, एतेएकयुगवर्तिनः षष्टिः सूर्यमासाः एते च एकयुगान्तर्वर्तिन एव द्वापष्टिश्चन्द्रमासाः, एतावती अद्धा षट्कृत्वः क्रियते-पड्भिर्गुण्यते, ततो द्वादशभिर्भज्यते, द्वादशभिश्च भागे ह्वते त्रिंशदेते सूर्यसंवत्सरा भवन्ति एकत्रिंशदेते चन्द्रसंवत्सराः, तदा एतावति कालेऽतिक्रान्ते एते आदित्यचन्द्रसंवत्सराः समादयः-समप्रारम्भाः समपर्यवसिताःसमपर्यवसानाआख्याता इति वदेत्, समपर्यवसानेकिमुक्तंभवति?-एते चन्द्रसूर्यसंवत्सरा विवक्षितस्यादौ समाः-समप्रारम्भप्राब्धाः सन्तस्तत आरभ्य षष्टियुगपर्यवसाने समपर्यवसाना भवन्ति, तथाहि
एकस्मिन् युगेयश्चन्द्रसंवत्सरा द्वौ चाभिवर्द्धितसंवत्सरौ, तौ च प्रत्येकं त्रयोदशचन्द्रमासात्मकौ, ततः प्रथमयुगेपञ्च चन्द्रसंवत्सरा द्वौ च चन्द्रमासौ, द्वितीये युगेदस चन्द्रसंवत्सराश्चत्वारश्चन्द्रमासाः,एवंप्रतियुगंमासद्विकवृद्धया षष्ठयुगपर्यन्ते परिपूर्णां एकत्रिंशचन्द्रसंवत्सराभवन्ति, ‘ता कया ण'मित्यादि, ता इतिपूर्ववत्, कदा णमिति वाक्यालङ्कारे आदित्यऋतुचन्द्रनक्षत्रसंवत्सरा भवन्ति, ‘ता कया ण'मित्यादि, ता इति पूर्ववत्, कदा णमिति वाक्यालङ्कारे आदित्यऋतुनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेत् ?, भगवानाह
‘ता सट्ठी' इत्यादि, षष्टिरेते एकयुगान्तवर्तिनः आदित्यमासा एकषष्टिरेते ऋतुमासाः द्वाषप्टिरेते चन्द्रमासाः सप्तषष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा द्वादशकृत्वः कृता द्वादशभिर्गुणिता इत्यर्थः तदनन्तरं संवत्सरानयनाय द्वादशभिर्भक्तातत एवमेतेषष्टिरादित्यसंवत्सरा एकषष्टिरेते ऋतुसंवत्सराः द्वाषष्टिरेते चन्द्रसंवत्सरा सप्तषष्टिरेते नक्षत्रसंवत्सरास्तदा-द्वादशयुगातिक्रमे इत्यर्थः, एते आदित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेत, एतदुक्तं भवति-विवक्षत्रितयुगस्यादावेते चत्वारोऽपि समाः-समारब्धप्रारम्भाः सन्तस्तत आरभ्यद्वादश-युगपर्यन्ते समपर्यवसानाभवन्ति, अर्वाक्चतुर्णामन्यतस्यावश्यंभावेन कतिपयमासानामधिकतया युगपत् सर्वेषां समपर्यवसानत्वासम्भवात्, ‘ता कया ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-मित्यादि, सप्तपञ्चाशन्मासाः वर्द्धितमासाः पप्टिरेते सूर्यमासाः एकपटिरेते ऋतुमासा द्वापष्टिरेते चन्द्रमासाः सप्तपष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा पट्पञ्चाशदधिकशतकृत्वः क्रियते, कृत्वा च द्वादशभिर्भज्यते, द्वादशभिश्च भागे हते चतुश्चत्वारिंशदधिकसप्तशतसङ्ख्याः एतेऽभिवद्धितसंवत्सराः, अशीत्यधिकसप्तशतसङ्ख्याः एते आदित्यसंवत्सराः, त्रिनवत्यधिकसप्तशतसङ्ख्याः एते ऋतुसंवत्सराः, पडुत्तराष्टशतसङ्ख्या एते चन्द्रसंव- त्सराः, एकसप्तत्यदिकाप्टशतसङ्ख्या नक्षत्रसंवत्सराः, तदाणमिति वाक्यालङ्कारे एतेऽभि- वर्द्धितादित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेत्, अर्वाक्कस्यापि कतिपयमासाधिकत्वेन युगपत्सर्वेषां समपर्यवसानत्वासम्भवात् ।
सम्प्रति यथोक्तमेव चन्द्रसंत्सरपरिमाणं गणितभेदमधिकृत्य प्रकारद्वयेनाह-'ता नयट्ठयाए' इत्यादि, ता इति पूर्ववत्, नयार्थतया-परतीर्थिकानामपि सम्मतस्य नयस्य चिन्तया चन्द्रसंवत्सरस्त्रीण्यहोरात्रशतानि चतुष्पञ्चशदधिकानि द्वादश च द्वापप्टिभागा अहोरात्रस्येत्यादिराख्यात इति वदेत्, याथातथ्येन पुनश्चिन्त्यमानश्चन्द्रसंवत्सरस्वणि रात्रिन्दिवशतानि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org