________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१००
पन्नासे मुहुत्तसए चत्तारि य बावट्ठिभागे बावट्ठिभागं च सत्तट्ठिहा छेत्ता दुवालस चुण्णिया भागे मुहुत्तग्गेणं आहितेति वदेज्जा, ता केवतियं जुगे राइंदियग्गेणं आहितेति वदेज्जा, ता अट्ठारसतीसे राइदियसते राइदियग्गेणं आहियाति वदेज्जा । ता से णं केवतिए मुहत्तग्गेणं आहियाति वदेखा ?, ता चउप्पन्नं मुहुत्तसहस्साइं नव य मुहुत्तसताइं मुहुत्तग्गेणं आहितेति वदेज्जा, ता से णं केवतिए बावट्ठभागमुहुत्तग्गेणं आहितेति वदेज्जा ?, ता चउत्तीसं सतसहस्साइं अतीसंच बावट्टिभागमुहुत्तसते बावट्ठिभागमुहुत्तग्गे आहितेति वदेज्जा ।।
वृ. ता इति पूर्ववत्, कियत्- किंप्रमाणं ते-त्वया भगवन् ! 'नोयुगं' नोशब्दो देशनिषेधवचनः किञ्चिदूनं युगमित्यर्थः, रात्रिन्दिवाग्रेण - रात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - 'ता सत्तरसे' त्यादि, नोयुगं हि किञ्चिदूनं युगं, तच्च नक्षत्रादिपञ्चसंवत्सरपरिमाणमतो नक्षत्रादिपञ्चसंवत्सरपरिमाणानामेकत्र मीलने भवति यथोक्ता रात्रिन्दिवसङ्ख्या, तथाहि - नक्षत्रसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवशतानि सप्तविंशत्यधिकानि एकस्य च रात्रिन्दिवस्य एकपञ्चाशत्सप्तषष्टिभागाः, चन्द्रसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य, ऋतुसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि षष्ट्यधिकानि ।
जातास्त्रच -
सूर्यसंवत्सरस्य त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दिवानां, अभिवर्द्धितसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानि एकविंशतिश्च मुहूर्त्ता एकस्य च मुहूर्त्तस्याष्टादश द्वाषष्टिभागाः, तत्र सर्वेषां रात्रिन्दिवानामेकत्र मीलने जातानि सप्तदश शतानि नवत्यधिकानि, ये च एकपञ्चाशत्सप्तषष्टिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि पञ्चदश शतानि त्रिंशदधिकानि, तेषां सप्तषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य षट्पञ्चाशत्सप्तषष्टिभागाः। मुहूर्ताश्च लब्धा एकविंशतौ मुहूर्तेष मध्ये प्रक्षिप्यन्ते, त्वारिंशन्मुहूर्तास्तत्र त्रिंशता अहोरात्रो लब्ध इति जातान्यहोरात्राणां सप्तदश शतान्येकनवत्यधिकानि, शेषास्तिष्ठन्ति मुहूर्त्ताम्रायोदश, येऽपि च द्वाषष्टिभागा अहोरात्रस्य द्वादशतेऽपि मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्च मुहूर्त्तास्ते प्रागुक्तेषु त्रयोदशसु मुहूर्तेषु मध्ये प्रक्षिप्यन्ते, जाता अष्टादश, शेषास्तिष्ठन्ति पञ्चाशत् द्वाषष्टिभागा मुहूर्त्तस्य, येऽपि च षट्पञ्चाशत्तषष्टिभागा मुहूर्तस्य ते त्रैराशिकेन द्वाषष्टिभागा एवं क्रियन्ते - यदि सप्तषष्ट्या द्वाषष्टिभागा लभ्यन्ते ततः षट्पञ्चाशता सप्तषष्टिभागैः कियन्तो द्वाषष्टिभागा लभ्यन्ते, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि चतुस्त्रिशच्छतानि द्वासप्तत्यधिकानि तेषामादिराशिना सप्तषष्ट्या भागो हियते, लब्धा एकपञ्चाशद् षष्टिभागाः, ते च प्रागुक्तेषु पञ्चाशति द्वाषष्टिभागेष्वन्तः प्रक्षिप्यन्ते, जातमेकोत्तरं शतं, ततस्तन्मध्येऽभिवर्द्धितसंवत्सरसत्का उपरितना अष्टादश द्वाषष्टिभागाः प्रक्षिप्यन्ते, जातमेकोनविंशत्यधिकं शतं द्वाषष्टिभागानां, शेषास्तिष्ठन्ति पञ्चपञ्चाशत् द्वाषष्टिभागस्य सप्तप-टिभागाः, द्वाषष्ट्या च द्वाषष्टिभागैरेको मुहूर्तो लब्धः, स प्रागुक्तेष्वष्टादशसु मुहूर्तेषु मध्ये प्रक्षिप्यते, जाता एकोनविंशतिर्मुहूर्ताः शेषाः सप्तपञ्चाशत् द्वाषष्टिभागा अवतिष्ठन्ते इति ।
२१८
"
1
'ता से ण 'मित्यादि, मुहूर्तपरिमाणविषयप्रश्नसूत्रं निर्वचनसूत्रं च सुगमं, रात्रिन्दिवपरिमाणस्यत्रिंशता गुणने तदुपरि शेषमुहूर्तप्रक्षेपे च यथोक्तमुहूर्तपरिमाणसमगमात्, 'ता केवइए णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org