________________
प्राभृतं १२, प्राभृतप्राभृतं -
"
मुहूर्तकरणार्थं त्रिंशाता गुण्यन्ते, जातानि त्रिंशदधिकानि त्रीणि शतानि, येऽपि च चतुश्चत्वारिंशत् द्वाषष्टिभागा रात्रिन्दिवस्य ते मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि तेषां द्वाषष्ट्या भागो हियते, लब्धा एकविंशतिर्मुहूर्त्ताः, शेषास्तिष्ठन्त्यष्टादश, तत्रैकविंशतिर्मुहूर्ता मुहूर्त्तराशौ प्रक्षिप्यन्ते, जातानि मुहूर्त्तानां त्रीणि शतान्येक-पञ्चाशदधिकानि, तेषां द्वादशभिर्भागो हियते, लब्धा एकोनत्रिंशन्मुहूर्त्ताः, शेषास्तिष्ठन्ति त्रयः, ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातं षडशीत्यधिकं शतं, ततः प्रागुक्ताः शेषीभूता मुहूर्तस्याष्टादश द्वाषष्टिभागाः ।
२१७
'ता से ण' मित्यादि, ता इति पूर्ववत्, सोऽभिवर्द्धितमासः कियान् मुहूर्ताग्रेणाख्यात् इति वदेत्?, भगवानाह-'नवे'त्यादि, नव मुहूर्त्तशतान्योकोनषष्ट्यधिकानि ९५९ सप्तदश च मुहूर्तद्वाषष्टिभागाः, तथाहि एकत्रिंशदप्यहोरात्रास्त्रशता गुण्यन्ते, जातानि नव शतानि त्रिंशदधिकानि मुहूर्तानां तत उपरितना एकोनत्रिंशन्मुहूर्तास्तत्र प्रक्षिप्यन्त, जातानि मुहूर्तानामेकोनषष्ट्यधिकानि नव शतानि ।
+
,
'ता एस ण' मित्यादि, प्राग्वद् व्याख्येयं, 'ता से ण'मित्यादि, रात्रिन्दिवविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता तिन्नी' त्यादि, त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानि एकविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्याष्टादश द्वाषष्टिभागा रात्रिन्दिवाग्रेणाख्यात इति वदेत्, तथाहि एकत्रिंशदहोरात्रा द्वादशभिर्गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि अहोरात्राणां तत एकोनत्रिंशन्मुहूर्ता द्वादशभिर्गुण्यन्ते, जातानि त्रीणि शतान्यष्टाचत्वारिंशदधिकानि तेषामहोरात्र करणार्थं त्रिंशता भागो हियते, लब्धा एकादश अहोरात्राः, अष्टादश तिष्ठन्ति येऽपि च सप्तदश द्वाषष्टिभागाः मुहूर्तस्य तेऽपि द्वादशभिर्गुण्यन्ते, जाते द्वे शते चतुरुत्तरे, तयोर्द्वाषिष्ट्या भागो ह्रियते, लब्धास्त्रयो मुहूर्तास्ते प्राक्तनेष्वष्टादशसु मध्ये प्रक्षिप्यन्ते, जाता एकविंशतिर्मुहूर्ताः, शेषास्तिष्ठन्त्यष्टादश पञ्च मुहूर्तशतान्येकादशाधिकानि अष्टादश च द्वाषष्टिभागा मुहूर्त्तस्येति मुहूर्त्ताग्रेणाभिवर्द्धितसंवत्सर आख्यात इति वदेत्, तथाहि - अभिवर्द्धितसंवत्सरपरिमाणं त्रीण्यहोरा-त्रशतानि त्र्यशीत्यधिकानि एकविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य अष्टादश द्वाषष्टिभागाः, तत्रैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि त्रिंशता गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिर्मुहूर्तास्तत्र प्रक्षिप्यन्ते, ततो यथोक्ता मुहूर्तसङ्ख्या भवतीति ।
सम्प्रत्येते पञ्चसंवत्सरा एकत्र मीलिता यावत्प्रमाणा रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिदिक्षु प्रथमतः प्रश्नसूत्रमाह
मू. (३००) ता केवतियं ते नोजुगे राइंदियग्गेणं आहितेति वदेज्जा ?, ता सत्तरस एकानउते राइंदियसते एगूणत्रीसंच मुहुत्तं च सत्तावन्ने बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पण्णपन्नं चुण्णिवाभागे राइदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति बदेखा ?, ता तेपन्न मुहुत्तसहस्साइं सत्त य उणापत्रे मुहुतसते सत्तावन्नं बावद्विभागे मुहुतरस बाचट्टिभागं च सत्तद्विधा छेत्ता पणपन्नं चुण्णिया भागा मुहुत्तग्गेणं आहितेति वदेज्जा ।
ता केवतिए णं ते जुगप्पते राइंद्रियग्गेणं आहितेति वदेजा ?, ता अडतीसं राइंडियाई दस य मुहुत्ता चत्तारिय बावद्विभागे मुहुत्तस्स बाबद्विभागं च सतट्ठिधा छेत्ता दुबालस चुण्णिया भागे राइंद्रियग्गेणं आहिताति वरेज्जा, तास णं केवतिए मुडुत्तग्गेणं आहितेति वदेज्जा ?, ता एकारस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org