SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/९९ रात्रिन्दिवानि द्वात्रिंशच्च द्वाषष्टिभागा रात्रिन्दिवस्य एतावत्परिमाणश्चन्द्रमासो रात्रिन्दिवाग्रेणाख्यात इति वदेत्, तथाहि - युगे द्वाषष्टिश्चन्द्रमासाः, एतच प्रागपि भावितं, ततो युगसत्कानामष्टादशानामहोरात्रशतानां त्रिंशदधिकानां द्वाषष्ट्या भागो ह्रियते, लब्धा एकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागाः । २१६ 'ता से ण' मित्यादि, प्रश्नसूत्रं सुमं, भगवानाह - 'ता अट्ठे' त्यादि, अष्टौ मुहूर्त्तशतानि पञ्चाशीत्यधिकानि एकस्य च मुहूर्त्तस्य त्रिंशत् द्वाषष्टिभागाः, एतावत्परिमाणश्चन्द्रमासो मुहूर्त्ताग्रिणाख्यात इति वदेत्, तथाहि - चन्द्रमासपरिमाणमेकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागाः, तत्र सवर्णनार्थमेकोनत्रिंशदप्यहोरात्रा द्वापट्या गुण्यन्ते, गुणयित्वा च उपरितना द्वात्रिंशत् द्वाषष्टिभागाः प्रक्षिप्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि द्वाषष्टिभागानां तत एतानि त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि नव शतानि मुहूर्त्तगतद्वाषष्टिभागानां, तत एतेषां द्वाषष्ट्या भागो हियते, लब्धानि अष्टौ शतानि पञ्चाशीत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्तस्य त्रिंशद् द्वाषष्टिभागाः । 'ता एस णं अद्धा' इत्यादि, प्राग्वद् भावनीयं । , 'ता एएसिणमित्यादि, तृतीयऋतुसंवत्सरविषयं प्रश्नसूत्रं सुगमं, भगवान् प्रतिवचनमाह'ता तीसे ण' मित्यादि ता इति पूर्ववत् त्रिंशता रात्रिन्दिवाग्रेण ऋतुमास आख्यात इति वदेत्, तथाहिऋतुमासाः युगे एकषष्टिः, ततो युगसत्कानामष्टादशशतसङ्ख्यानां त्रिंशदधिकानामहोरात्राणामेकषष्ट्या भागो ह्रियते, लब्धास्त्रशदहोरात्राः, 'ता से ण'मित्यादि, मुहूर्त्तविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता नव मुहुत्तसया' इत्यादि, नव मुहूर्त्तशतानि मुहूर्त्ताग्रेणाख्यात इति वदेत्, तथाहि-त्रिंशद्रात्रिन्दिवानि ऋतुमासपरिमाणमेकैकस्मिंश्च रात्रिन्दिवे त्रिंशन्मुहूर्त्तास्ततस्त्रशत स्त्रिंशता गुणने नव शतानि भवन्तीति, 'ता एएसि ण' मित्यादि, प्राग्वद् भावनीयं । 'ता एएसि ण' मित्यादि चतुर्थसूर्यसंवत्सरविषयं प्रश्नसूत्रं, तच्च सुगमं, भगवानाह - 'ता तीस 'मित्यादि, ता इति पूर्ववत्, त्रिंशत् रात्रिन्दिवानि एकस्य रात्रिन्दिवस्य एकमपार्द्धभागं, एक मर्द्धमित्यर्थः, एतावतप्रमाणः सूर्यमासो रात्रिन्दिवाग्रेण आख्यात इति वदेत्, तथाहि - सूर्यमासा युगे पष्टिस्ततो युगसत्कानामहोरात्राणां त्रिंशदधिकाष्टादशशतसङ्ख्यानां पष्ट्या भागो हियते, लब्धाः सार्द्धास्त्रिंशदहोरात्राः, 'ता से ण 'मित्यादि, मुहूर्त्तविषयं प्रश्नसूत्रं सुगमम्, भगवानाह - 'नवपन्नरे' इत्यादि नवम मुहूर्तशतानि पञ्चदशाधिकानि मुहूर्तपरिमाणेनाख्यात इति वदेत्, तथाहि–सूर्यमासपरिमाणं त्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्यार्द्धं, तच्च त्रिंशता गुण्यन्ते, जातानि नव शतानि, रात्रिन्दिवार्द्धे च पञ्चदश मुहूर्त्ता इति, ता एएसि णं मि०, प्राग्वद् भा० । 'ता एएसि ण' मित्यादि, पञ्चमाभिवर्द्धितसंवत्सरविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता एकतीस 'मित्यादि, ता इति पूर्ववत्, एकत्रिंशत् रात्रिन्दिवानि एकोनत्रिंशच्च मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तदश द्वाषष्टिभागा रात्रिन्दिवाग्रेणाख्यातइति वदेत्, तथाहि त्रयोदशभिश्चन्द्रमासैरभिवर्द्धितसंवत्सरः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वात्रिंशत् द्वाषष्टिभागाः, एतत्रयोदशभिर्गुण्यते, ततो यथासम्भवं द्वापष्टिभागे रात्रिन्दिवेषु जातेषु जातमिदं त्रीण्यहोरात्रशतानित्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतदभिवर्द्धितसंवत्सरपरिमाणं, तत एतस्य द्वादशभिर्भागो एकादश, ते च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy