SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १२, प्राभृतप्राभृतं - २१५ तीसतिमुहुत्तेणं गणिज्ज्रमाणे केवतिए राइंदियग्गेणं आहितेति वदेज्जा ?, ता एकतीस राइंदियाइं एगूणतीसं च मुहुत्ता सत्तरस बावट्टिभागे मुहुत्तस्स राइदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ?, ता नव एगूणस्ट्टे मुहुत्तसते सत्तरस बावट्टिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा, ता एस णं अद्धा दुवालसखुत्तकडा अभिवड्ढित संवच्छरे । तासे णं केवतिए राइदियग्गेणं आहितेति वदेज्जा ?, तिन्नि तेसीते राइंदियसते एकवीसं च मुहुत्ता अट्ठारस बावट्ठिभागे मुहुत्तस्स राइदियग्गेणं आहितेतिवदेज्जा, तिन्नि तेसीते राइंदियसते एकवीसंमुहुत्ता अट्ठारस बावट्ठिभागे मुहुत्तस्स राइदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेण आहितेति वदेज्जा ?, ता एक्कारस मुहुत्तसहस्साइं पंच य एक्कारस मुहुत्तसते अट्ठारस बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेतिवदेज्जा ।। वृ. 'ता कइ संवच्छरा' इत्यादि, ता इति पूर्ववत्, कति संवत्सरा भगवन् ! त्वया आख्याता इति वदेत् ?, भगवानाह - 'तत्रे' त्यादि, तत्र - संवत्सरविचारविषये खल्विमे पञ्च संवत्सरा प्रज्ञप्ताः, तद्यथा-'नक्खत्ते'त्यादि, पदैकदेशे पदसमुदायोपचारात् नक्षत्रसंवत्सरश्चन्द्रसंवत्सर ऋतुसंवत्सर आदित्यसंवत्सरोऽभिवर्द्धितसंवत्सरः, एतेषां च पञ्चानामपि संवत्सराणां स्वरूपं प्रागेवोपवर्णितं 'ता एएसि णमित्यादि प्रश्नसूत्रं, 'ता' इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये प्रथमस्यनक्षत्रसंवत्सरस्य सत्को यो नक्षत्रमासः स त्रिंशन्मुहूर्त्तप्रमाणेनाहोरात्रेण गण्यमानः कियान् रात्रिन्दिवाग्रेणरात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, सप्तविंशति रात्रिन्दिवानि एकविंशतिश्च सप्तषष्टिभागा रात्रिन्दिवस्य रात्रिन्दिवाग्रेणाख्यात इति वदेत्, तथाहि युगे नक्षत्रमासाः सप्तषष्टिरेतद्य प्रागेव भावितं, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि, ततस्तेषां सप्तषष्ट्या भागे हते लब्धाः सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशति सप्तषष्टिभागाः । ‘ता से ण’मित्यादि, स नक्षत्रमासः कियान् मुहर्त्ताग्रेण - मुहूर्त्तपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - 'ता अडसए' इत्यादि, अष्टोत्तरशतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्त्तस्य सप्तविंशति सप्तषष्टिभागाः । मुहूत्तग्रिणाख्यात इति वदेत्, तथाहि 7 नक्षत्रमासपरिमाणं सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशति सप्तषष्टिभागाः, ततः सवर्णनार्थं सप्तविंशतिरप्यहोरात्राः सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितना एकविंशति सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि सप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि तानि मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चशत्सहस्राणि नव शतानि मुहूर्तगतसप्तषष्टि भागानां, तत एतेषां सप्तषष्ट्या भागो हियते, लब्धानि अष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्त्तानामेकस्य मुहूर्त्तस्य सप्तविंशति सप्तषष्टिभागा इति । 'ता एस ण' मित्यादि, एषा- अनन्तरमुक्ता नक्षत्रमासरूपा अद्धा द्वादशकृत्वः कृता, द्वादशभिवरैिर्गुणिता इत्यर्थः, नक्षत्रसंवत्सरो भवति । सकलनक्षत्रसंवत्सरगतरात्रिन्दिवपरिमाणमुहूर्त्तपरिमाणविषयप्रश्ननिर्वचन सम्प्रति सूत्राण्याह-- 'ता से ण' मित्यादि, सुगमं, नवरं रात्रिन्दिवचिन्तायां नक्षत्रमासरात्रिन्दिवपरिमाणं मुहूर्त्तचिन्तायां नक्षत्रमासमुहूर्त्तपरिमाणं द्वादशभिर्गुणितव्यं ततो यथोक्ता रात्रिन्दिवसङ्ख्या मुहूर्तसङ्ख्या च भवति, 'ता एएसिणमित्यादि, सुगमं, भगवानाह - 'ता एगूणतीस 'मित्यादि, एकोनत्रिंशत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy