________________
२०२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९४ मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयस्त्रिंशत् चूर्णि- काभागाः शेषाः, तथाहि-सएव ध्रुवराशि द्वाषष्ट्या गुण्यते, जातानिमुहूर्तानांचत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दसोत्तराणि एकस्य च द्वाषष्टिभागस्य द्वाषष्टि सप्तषष्टिभागाः इह पुष्यस्य दशमुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिमुपैति ।
तदनन्तरमन्यत् युगप्रवर्तते, पुष्यस्यापिचतावन्मात्रादतिक्रन्तात् परतो यावद्भूयोऽपि तावन्मात्रस्य पुष्यस्यातिक्रम एतावत्प्रमाणः एकः परिपूर्णो नक्षत्रपर्यायः, तस्य च प्रमाणमष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्यषट्षष्टिसप्तषष्टिभागाःतत एतत्पञ्चभिर्गुणयित्वा प्रागुक्तात्ध्रुवराशेषष्टिगुणितात् शोध्यते, तच्च परिपूर्ण शुद्धयति, पश्चाच्च राशिर्निर्लेपो जायते, ततआगतंपुष्यस्य सूर्येण युक्तस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वतिक्रन्तेषु एकोनविंशतौ च मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्यचद्वाषष्टिभागस्यत्रयस्त्रिंशतिसप्तषष्टिभागेषुशेषेषुचरमा द्वाषष्टितमापौर्णमासी परिसमाप्तिमगमदिति।
तदेवं पौर्णमासीविषयश्चन्द्रनक्षत्रयोगः सूर्यनक्षत्रयोगश्चोक्तः, सम्प्रत्यमावास्याविषयं सूर्यनक्षत्रयोगंचन्द्रनक्षत्रयोगंच प्रतिपिपादयिषुःप्रथमतःप्रथमामावास्याविषयं प्रश्नसूत्रमाह
मू. (९५)ताएतेसिणं पंचण्डंसंवच्छराणं पढमअमावासंचंदे केणं नक्खत्तेणंजोएति?, ताअस्सेसाहिं, अस्सेसाणं एक्के मुहत्ते चत्तालीसंच बावट्ठिभागामुहुत्तस्स बावट्ठिभागंच सत्तद्विधा छेत्ता बावडिं चुण्णिया सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता अस्सेसाहिं चेव, अस्सेसाणं एक्को मुहत्तो चत्तालीसंच बावट्ठिभागा मुहत्तस्स बावट्ठिभागं सत्तद्विधा छेत्ता बावट्ठि चुण्णिया भागा सेसा । ता एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं नक्खत्तेणं जोएति?, ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तीलीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पन्नडिं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणंजोएति?, ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं जहेव चंदस्स ।
ता एतेसि णं पंचण्हं संवच्छराणं तच्चं अमावासं चंदे केणं नक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छत्ता बावट्ठि चुणिया, भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता हत्थेणं चेव, हत्थस्स जहा चंदस्स । ता एएसिणं पंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे केणं नक्खत्तेणं जोएति?, अद्दाहिं अद्दाणं चत्तारि मुहत्ता दस य बावट्ठिभागा मुहत्तस्स बावडिं च सत्तद्विधा छेत्ता चउपन्नं चुणिया भागा सेसा । तं समयं च णं सूरे केण नक्खत्तेणं जोएति?, ता अद्दाहिं चेव, अदाणं जहा चंदस्स।
ता एएसिणं पंचण्हं संवच्छराणं चरिमंबावढि अमावासं चंदे केणं नक्खत्तेणंजोएति?, तापुनव्वसुणा, पुनव्वसुस्स बावीसं मुहुत्ता बायालीसं च बासट्ठिभागा मुहुत्तस्स सेसा । तं समयं चणं सूरे केणं नक्खत्तेणं जोएति?, ता पुनव्वसुणा व, पुनव्वसुस्स णं जहा चंदस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org