________________
२०१
प्राभृतं १०, प्राभृतप्राभृतं-२२ षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनिमूलपर्यन्तानिनक्षत्राणिशुद्धानि, ततस्त्रशतामुहूतैःपूर्वाषाढा, शेषंतिष्ठन्ति अष्टादशमुहूर्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशत्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदशसप्तषष्टिभागाः तत आगतंचन्द्रेणयुक्तमत्त-राषाढानक्षत्रंद्वादशी पौर्णमीसी षडविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य षडविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषु शेषेषु परिसमापयति।
सम्प्रत्यस्यामेव द्वादश्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति-"तं समयं च ण'मित्यादि, सुगम, भगवानाह-,ताइतिपूर्ववत्, पुनर्वसुनायुक्तः सूर्य परिसमापयति, तदानीं च-द्वादशीपौर्णमासीपरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य षोडश मुहूर्ता अष्टौ च द्वाषष्टिभागा मुहूर्तस्य एकंच द्वाषष्टिभागा सप्तषष्टिधा छित्वा तस्यसत्का विंशतिश्चूर्णिका विंशतिश्चूर्णिकाभागाः शेषाः, तथाहि-स एवध्रुवराशि द्वादशभिर्गुण्यते, जातानि सप्तशतानि द्विनवत्यधिकानिमुहूर्तानामेकस्य चमुहूर्तस्य षष्टिषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः , तत एतस्मास्पुष्यशोधनकं पूर्वोक्तप्रकारेणशोध्यते, स्थितानि पश्चात्सप्तशतानि त्रिसप्तत्यधिकानिमुहूर्तानामेकस्य चमुहूर्तस्य षोडश द्वाषष्टिभागाएकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत् सप्तषष्टिभागाः, ततः एतस्मात्सप्तभिः शतैश्चतुश्चत्वारिंशदधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषादीनि आर्द्रापर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते अष्टाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य त्रिपञ्चाशद्वाषष्टिभागाएकस्य चद्वाषष्टिभागस्य सप्तचत्वारिंशत् सप्तषष्टिभागाः ततआगतंपुनर्वसुनक्षत्रं सूर्येण सह योगमुपागतंषोडशसुमुहूत्तेषु शेषेषु एकस्य च मुहूर्तस्याष्टसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु शेषेषु द्वादशी पौर्णमासी परिसमापयति । _ (साम्प्रतमस्यामेव द्वाषष्टितमायां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति)-'ता एएसि ण'मित्यादि सुगम, भगवानाह-'ता उत्तराहिं'इत्यादि, ता (इति प्राग्वत्) उत्तराभ्यामाषाढाभ्यां युक्तश्चन्द्रश्चरमां द्वाषरितमां पौर्णमासी परिणमयति, तदानीं च-चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिवेलायामुत्तरयोराषाढयोश्चरमसमयः, तथाहि-स एव ध्रुवराशि चरमा द्वाषष्टितमा पौर्णमासी सम्प्रति चिन्त्यमाना वर्तते इति द्वाषष्ट्या गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दशोत्तराणि एकस्य च द्वाषष्टिभागस्य द्वाषष्टि सप्तषष्टिभागाः तत एतस्माद् । ॥१॥ 'अट्ठसयउगुणवीसा सोहणगं उत्तराण साढाणं।
चउवीसं खलु भागा छावट्ठी चुण्णियाओ य' । इत्येवंप्रमाणमेकं सकलनक्षत्रपर्यायशोधनकं पञ्चभिर्गुणयित्वा शोध्यते, तच्च पूर्वोक्तेन प्रकारेणशोध्यमानं परिपूर्णां शुद्धिमासादयतीति न किञ्चित्पश्चादवतिष्ठते, तत आगतं उत्तराषाढानक्षत्रं चन्द्रेण सह युक्तं चरमसमये चरमां द्वाषष्टितमां पौर्णमासी परिसमापयति।
___ सम्प्रत्यस्यामेव द्वाषष्टितमायां पौर्णमास्यां सूर्यनक्षत्रयोगपृच्छति--तंसमयंचणं' सुगमम्, भगवानाह-'ता पुस्सेण०, पुष्येण युक्तः सूर्यश्चरमांद्वाषष्टितमां पौर्णमासी परिसमापयति, तदानीं च-द्वाषष्टितमपौर्णमासीपरिसमाप्तिवेलायामेकोनविंशतिर्मुहूर्तास्त्रिच- त्वारिंशच्चद्वाषष्टिभागा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org